सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 401, कुल 723 में से
संदर्भ में पढ़ेंलग्ना [ग्र] माभ्यामर्कस्यशभागास्त्रिशद्भागात्मका भावरूपाः संहितायां सुप्रसिद्धाः । येंऽशा लग्नस्योदितास्तेषु तिष्ठ- न्धत्ते लग्नोत्थं फलं खेचरेन्द्रः । एवं तेभ्यो योऽधिकोऽसौ द्वितीयोऽथैवं चिन्त्यं वित्तभावादिषु ज्ञैरिति । लग्नस्य क्षितिजप्राग्भागलग्नस्य मेषाद्यन्यतमस्य राशेरित्यर्थः । अंशा उदिताः । क्षितिजसंलग्नाः । अत्र लग्नभोग्यभागेषु ग्रहो द्वितीय इत्युक्त्या लग्ने प्रथमभावस्यान्तः स्पष्टीकृतः । धनाद्येषु द्वितीयादीनामन्तः । नतु भावादिर्न वा भावमध्यम् । न च क्षिति- जस्य प्राधान्याल्लग्ने प्रथमस्थानारम्भः । एवं धनादिषु द्वितीयादेः सुष्ठ्विति वाच्यम् । संहिताकर्तृ मुनिभिः फलार्थं तथाऽनङ्गीकारात् । फले वचनविरुद्धयुक्तेरप्रयोजकत्वात् । अथ लग्नचतुर्थसप्तमदशमस्थानानां गोले नियतोक्तेरेवान्तरभावानां तदन्तरस्थत्वेन सामान्यतो