सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 402, कुल 723 में से
संदर्भ में पढ़ेंद्विराशिज्ययैकराशिज्यया गुण्या । स्वहारेण भक्ता । लब्धानांशादिकानि यानि धनूंषि तन्मध्ये पूर्वचापाभ्यामूनो दशमभावः पूर्वभावो भवति । अष्टमनवमभावौ स्तः । अग्रिमचा- पाभ्यां दशमभावो भवति । एकादशद्वादशभावौ स्तः । एवं सूक्ष्माः प्रतिपादितगोलस्वरूपा उक्तभावा अष्टमनवमैकादशद्वादशभावा भवन्ति । अनन्तरम् । एतेऽष्टमादयः साधिता भावाः षड्राशियुक्ताः क्रमेण द्वितीयतृतीयपञ्चमभावाः सूक्ष्मा इति । संधावविशेषः । अत्रो- पपत्तिः—पद्धतिप्रकारसिद्धाष्टादिभावचतुष्टयमनुगतगोलस्थानसंबन्धाभावात्स्थूलं प्रतिपा- दितगोलस्वरूपाष्टमादिभावचतुष्टयं साध्यम् । तत्र स्थूलभावानां भुजाः सममण्डले क्रान्ति- मण्डलप्रदेशविशेषयोर्याम्योत्तरान्तरांशानां ज्यारूपाः । अंशास्तु याम्योत्तरक्षितिजसंपात- प्रोतस्थूलभावोपलक्षितक्रान्तिवृत्तप्रदेशगतवृत्तस्थाः । स्थूलाभावस्तादृग्वृत्तनतांशानं दृग्ज्येति -ताः कर्णाः तयोर्वर्गान्तरपदानि । प्रतिपादितभुजवृत्तसंपातावधिखस्वस्तिकात्समवृत्ते ये नतां- शास्ते ज्यात्मकानि कोट्यो हारसंज्ञाः । तत्र शङ्कुवर्गोनस्य त्रिज्यावर्गस्य कर्णवर्गत्वात्तस्मि- न्भुजवर्गे शोधिते शङ्कुभुजयोर्वर्गयोगहीनस्य त्रिज्यावर्गस्य पदमिति सिद्धम् । अनया कोट्या दशमभावस्थूलभावयोरन्तरांशज्या तदा यथायोग्यं सममण्डलस्थितैकद्विराशिज्यया केत्यनु- पातेन सूक्ष्मभावस्थूलभावयोरन्तरांशज्या क्रान्तिवृत्तस्था । खस्वस्तिकादेकद्विराशिमितसमवृत्त- प्रदेशसंबन्धेन क्रान्तिवृत्ते सूक्ष्मभावानां प्रतिपादितत्वात् । ज्यायाश्चापतदन्तरांशा दशम- भावहीना अष्टमसंबन्धिभागाः । अष्टमनवमभावौ दशमपृष्ठस्थौ भवतः । एकादशद्वादशसं- बन्धिभागाः । दशमे युता एकादशद्वादशभावौ दशमाग्रेमौ स्त इति । लग्नात्षड्भान्तरे तथा सप्तमभावस्थानं यथा च दशमात्षड्भान्तरेऽधश्चतुर्थभावस्थानं तथाऽष्टमादिभावेभ्यः षड्भान्तरे द्वितीयाद्युक्तभावाः क्रान्तिवृत्ते वृत्तानां षड्भान्तरेण स्थानद्वये संलग्नत्वात् । तथा च लग्नस्य स्वदेशक्षितिजसंबन्धेनोक्तेस्तद्वितीयादिभावानां समवृत्तसंबद्धवृत्तसंबन्धे- नोक्तेः समुचितत्वम् । न चैवं द्वादशभावानां समवृत्तस्थसमविभागवशादुत्पन्नानां समवृत्त- स्थसमत्रिंशद्भागान्तरत्वेनैव कथनं युक्तम् । न क्रान्तिवृत्तस्थविषमभागान्तरत्वेन भावकथन- मिति वाच्यम् । फलादेशस्य पूर्वैः क्रान्तिवृत्ताश्रयेणैवाङ्गीकारात्क्रान्तिवृत्तस्थग्रहभोगव- द्भावानामपि सममण्डलाभिप्रायिकाणां क्रान्तिवृत्ताश्रयेणैवोक्तत्वात् । न च संहितोक्तेनैषां विरोध इति वाच्यम् । तस्याभिन्नार्थत्वात् । तथा हि—लग्नस्य ये भागा उदिताः । पद्धति- सिद्धारम्भान्तसंध्योरन्तरांशास्तेषु स्थितः सन्ग्रहो लग्ने भवति तेभ्यो लग्नांशेभ्यो । विराम- संध्यंशेभ्योऽधिको ग्रहो द्वितीयस्थाने भवति । अर्थादारम्भसंधेर्न्यूनो ग्रहः पूर्वभावे भवति । एवं द्वितीयादिति । न तु पूर्वोक्तोऽर्थः । लग्नात्स्थानरूपद्वादशभावोक्तौ लग्नस्य स्वदेश- क्षितिजसंबन्धवदन्येषां स्वदेशवृत्तविशेषसंबन्धाप्रतीतेः केवलक्रान्तिवृत्तसंबन्धेन भावोक्तेरस- गतत्वात् । एतेन ध्रुवप्रोतवृत्तषट्केभ्य उदयसंबन्धेन विषुवस्थानाद्विषुवद्वृत्ते समा द्वादश भावास्तदनुरोधेन क्रान्तिवृत्तविषमप्रदेशात्मका भावा इति कल्पनमपि निरस्तम् । उदयस्य स्वक्षितिजसंबन्धेन ग्रहणादन्येषां निरक्षसममण्डलाभिप्रायेण कल्पनस्य वैयधिकरण्यात् । एवं लग्नात्स्थाननियमार्थं लग्नाद्भावाः साधितास्तथाऽमुकग्रहादमुकग्रहः कस्मिन्स्थान इति ग्रहेभ्यः