भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 403, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 403

दशममिति लग्नाद्दिनार्थघटीभिर्ऋणलग्नं दशमम् । लग्नाद्रात्र्यर्थघटीभिर्धनलग्नं चतुर्थम् । ग्रहो लग्नम् । सषड्भग्रहः सप्तमभावः । एभ्यो मूर्ध्वादिभावान्प्रसाध्यैभ्यो ग्रह्तुल्यलग्ना- दिष्टकालं प्रसाध्य शङ्क्वादिभुजादिद्वारा पूर्वोक्तसूक्ष्मरीत्या सूक्ष्मभावाः साध्या इति । अत्राऽऽधुनिकाः-ग्रहभावाः पद्धतिकाराणां यद्यभिमताः स्युस्तदा दृष्टिसाधनं तैर्भा- वैरेव कृतं स्यात् । न दृश्यद्रष्ट्रन्तरराशिवशतः । यथा हि-द्रष्टुर्ग्रहस्यैकादिभाव- स्थानानि कार्याणि । तद्यथा-द्वादशभावोनग्रहरूपप्रथमभावः प्रथमस्थानमानम् । ग्रहरूपः प्रथमभावोनद्वितीयभावो द्वितीयस्थानम् । द्वितीयभावोनतृतीयभावस्तृतीयस्थानम् । एवं पूर्वभावोनाग्रिमभावोऽग्रिमस्थानमित्यादि । एवं द्वादशस्थानमानानि । त्रिदशत्रिकोणचतुर- स्रसप्तमान्यवलोकयन्ति चरणाभिवृद्धित इति बृहज्जातकोक्त्या स्थानादौ कथितदृष्टेऽङ्गी- काराच्च । प्रथमादिस्थानान्तरवशेन दृष्टिचरणाः सिद्धाः ।

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 403, कुल 723 में से · BharatKosha