सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 404, कुल 723 में से
संदर्भ में पढ़ेंभेदेन दृष्टेरनेकत्वापत्तेः । नह्येककाले दृष्टेरनेकत्वं ग्रहाणां युक्तम् । समभेदेनैव दृष्टि- भेदस्य सर्वत्र युक्तत्वात् । द्वितीयदूषणं च रवीन्द्वोर्भावसाधनेऽपि तद्दर्शनग्रहभावफलानामनु- क्तेस्तद्वाप्वजग्रहफलानामसाधनादेकरीत्या दशाक्रमबलकथनाप्रसङ्गादसंलग्नम् । तस्माल्लग्न- भाववद्ग्रहभावाः साध्याः । यद्यपि ग्रहभावेभ्यस्तात्कालिकग्रहमैत्रीचक्रसाधनमयुक्तम् । देशभेदेवा(न) भावभेदात्कदाचिदेकसमये देशभेदेन ग्रहमित्रामित्रत्वविरुद्धधर्माक्रान्तत्व- प्रसङ्गात् । नह्यभिन्नकालेऽर्कस्य काशीत्वावच्छेदेन भौमो मित्रं लाभपुरत्वावच्छेदेन शत्रु- रित्यादि कस्याप्यनुभवः । तत्कालं सुहृद इत्यत्र कालमात्रहेतुत्वप्रतीतेश्च । तथाऽपि तत्र बाधादुक्तभावेभ्यस्तत्साधनाद्दृष्टिसाधनवत्क्रान्तिवृत्तस्थस मत्रिशद्भागसमभाववशान्मित्रादि-