भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 412, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 412
३१०गोलाध्याये

वा० भा०—एकद्वित्रिराशीनां चराण्यधोधः शोधितानि तानि चरखण्डानि राशीनां पृथक्पृथक् स्वचरार्धानि चोच्यन्ते। निरक्षोदयासवो गगनभूधरषट्कचन्द्रा १६७० इत्यादयो यत्र देशे यस्य राशेः स्वचरार्धसमाः स राशिस्रतत्र देशे सदा दृश्य इत्यत्र का युक्तिः। अन्यथा दृश्यं तद् सर्वं युक्तिशून्यमुक्तम्। यद्येवं तर्हि यत्र षट्षष्टिः ६६ पलांशास्तत्र सर्वेषां स्वचरोदयसाम्यं स्यात्। युगपत्सर्वेषां सदा दृश्यत्वं मेरावपि न घटते किंत्वन्यत्रातस्तदसत् ॥३१॥ मरीचिः—नन्वूक्तं राशेर्नित्यदृश्यत्वं न युक्तम्। यस्य स्वचरार्धसमा निरक्षविषयो- दयासवो राशेः। दृश्यः स सदा तस्मिन्दृश्यादृश्योऽन्यथा भवतीति लल्लोक्तस्थले तद्राशीनां व्यक्षोदयाससमचरखण्डानुपपत्तेरित्यतः शार्दूलविक्रीडितेन तदनूद्य दूषयति—राशेर्यस्येति। यस्माद्द्वादशान्यतमस्य राशेः कल्पितस्य व्यक्षदेशोदयकालासुभिस्तुल्याः स्वीयाः स्वसंबन्धि- नश्चरखण्डासवः। मेषादिराशित्रितयस्य यानि चराण्यधोधः परिशोधितानि तानि स्वदेशे चरखण्डानि। इत्युक्तविषयानीता तत्र देशे भवन्ति। परकीयसाम्यवारणाय स्वीया इति। तत्र देशे। सः। निरुक्तो राशित्रिंशद्भागात्मकः सदा सर्वकाले दृश्यः। दर्शन- योग्य इति प्रागुक्तं लल्लोदितं लल्लेन स्वकृतगोलग्रन्थे यस्य स्वचरार्धसमा इत्यादिनोक्तं यत्तन्निर्मुक्ति निरुपपत्तिकमित्यर्थः। सयुक्तिकमेव किं न स्यादत आह—यदीति। एवं सयुक्तिकमिदमङ्गीक्रियते चेत्तर्हि षट्षष्ट्यंशांशे देशे। अमी बुद्धिस्था राशयः सर्वे द्वादश। न पुनस्त्रिचतुरा दृश्याश्चतु(क्षु)र्ग्रहणयोग्याः। एतद्देशेष्वपि द्वादशराशीनां क्रमेण तत्त्वादिरूपापादनं न युक्तमतो युगपत्। समुदिता मिलिता इत्यर्थः। तत्त्वं च क्षितिजवृत्तानधःस्थत्वम्। तथाऽपि तद्देशे यत्किंचित्काले समुदितराशीनां दर्शनसंभवान्नोक्तदोषापत्तिरितः सर्वदेति। तथा चायमर्थस्तद्देशे द्वादश राशयः क्षितिजानधःस्थत्वेन सर्वकालावच्छेदेन चरखण्डोदयकालघट्योस्तुल्यत्वसद्भावाच्चक्षुर्ग्रहण- योग्या भवेयुरिति। न च चरखण्डनिरक्षोदयसाम्याभावोऽत्रेति वाच्यम्। अक्षांशानां षट्षष्टिमितत्वेनोक्तरीत्या मेषादिराशिचरज्यानां मेषादिजीवास्त्रिगृहद्युमौर्व्या क्षुण्णाहताः स्वस्वदिनज्ययाऽऽप्ता इत्युक्तनिरक्षोदयज्याभिस्तुल्यत्वात्। यथा हि—अक्षप्रभासंगुणितेत्या- दिना कुज्यारूपमक्षज्यायास्त्रिराशिद्युज्यारूपत्वेन परक्रान्तितुल्यलम्बज्याकोट्यावक्षज्या भुजस्तदा द्वादशकोटौ को भुज इत्यनुपातसिद्धाक्षत्रा(भा)ग्रहणेन द्वादशगुणहरयोर्नाशात्क्रा- न्तिज्या त्रिराशियुज्यागुणा परक्रान्तिज्याभक्तेति सिद्धम्। तत्रापि क्रान्तिज्यास्वरूपग्रहणेन परक्रान्तिज्ययोर्गुणहरयोर्नाशान्मेषादिज्यात्रिग्रहद्युज्यागुणात्रिज्याभक्तेति कुज्यारूपं फलितम्। ततः सा त्रिज्याघ्नी विहृता द्युमौर्व्या चरज्येत्यनेनेन त्रिज्ययोर्गुणहरयोर्नाशान्मेषादिजीवा इत्युक्तरूपचरज्या सिद्धा। तत्र क्षितिजस्य क्रान्तिवृत्ताकारत्वेनोन्मण्डलक्षमावलयान्तराल इत्याद्युक्तचरकालस्य निरक्षोदयकार(ल)त्वेन गोले दर्शनाच्चेति। एकस्यापि राशेस्तत्र नित्यदृश्यत्वासंभवे त्वदुक्त्या द्वादशराशीनां नित्यदृश्यता तत्रासिद्धेति महाविरोधसूचकापि- शब्दः। नन्वेवमिष्टापत्तिरत आह—असदिति। तत्। द्वादशराशिनित्यदृश्येत्वम्। तथा।