सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 418, कुल 723 में से
संदर्भ में पढ़ें३१६ गोलाध्याये इदानीं केषांचिद्दूषणमाह— चन्द्रप्रभार्थमसकृद्विधिनोदितं यत् कैश्चित्कृतं खलु न सत्तदसावनत्वात् । जानन्ति ये न निपुणं गणितं सगोळं तेषां तु तन्त्रकरणव्यसनं वृथैव ॥३५॥ वा० भा०—व्याख्यातमेव ॥३५॥ मरीचि.—ननु ग्रहसंबन्धेनाहोरात्रवृत्ते यदुन्नतं तत्सावनमेवेति व्यर्था तदुक्तिः उन्नत- ज्येष्ठेकत्यत्रैव तत्सिद्धः । नहि ग्रहः कदाचिदपि स्वगतिविरहेण प्रवहानिलेनैव भ्रमति । येनोन्नतकालस्य तदा नाक्षत्रत्वात्तद्वारणार्यं सावनपदं युक्तम् । तदा सावनत्वासिद्धेरित्यर्थतः ऽसिंहोद्धतयाऽऽह—चन्द्रप्रभार्थमिति । चन्द्रप्रभार्थम् । चन्द्रस्य छायासाधननिमित्तम् । कैश्चित् । लल्लादिभिः । समयोऽसकृदेव साध्य इत्यनेन धीवृद्धिदादिग्रन्थेषु तत्कालग्रहोद- येष्टलग्नाभ्यामसकृत्प्रकारेण । उन्नतमुदितमुक्तम् । यत्तत् सम्यक् । खलु निश्चयेन । न कृतम् । नोक्तमित्यर्थः । कुत इत्यतो हेतुमाह—असावनत्वादिति । तत्कालग्रहोदयेष्ट- लग्नाभ्यां साधितः कालः सावनस्तेन चालितं ग्रहोदयलग्नं स्वोदयकालीनमुदयलग्नम् । ताभ्यां साधितः कालो नाक्षत्रः सूक्ष्मः स्यादित्यसकृत्प्रकारेण कालस्य सावनत्वाभावेन ग्रह- च्छायासाधनत्वानुपजीव्यत्वात् । ग्रहचलनेनैव च्छायाचलनात्तस्य सावनहेतुत्वात् । अस- कृदित्यस्य वारद्वयं बहुवारं चार्थं इत्युभयथासाधितकालस्य सावनत्वासिद्धेरित्यर्थः । ननु ग्रहस्य नित्योदयास्तकालौ प्रसाध्य स्वोदयकालीनोदयलग्नं स्वेष्टकालीनं लग्नं च साध्यम् । ताभ्यामानीतकालो नाक्षत्र इति पूर्वोक्तसकृद्रीत्या कालः सावन एवेति लल्लोक्तं सुस्थ- मित्यत आह—जानन्तीति । ये पुरुषाः सगोळं गोलस्वरूपसमेतं गणितं निपुणमत्यन्तं सूक्ष्म- विचारेण न जानन्ति तेषां पुरुषाणां तन्त्रकरणव्यसनं गणितस्कन्धान्तर्गतत्वेन ग्रन्थनिर्माण- विषयकचित्तैकाग्र्यं वृथा निष्प्रयोजकम् । एवकारात्कदाचिदपि तस्य व्यसनं सप्रयोजनं न भवेत् । तत्त्वाशुद्धया कुत्रचिदपि तदुक्तेरसंगतत्वावश्यंभावात्तज्ज्ञानेन प्रेक्षावतां तद्ग्रन्थे प्रवृत्त्यनुपपत्तेरिति सूचितम् । तुकारार्थे पुनर्गोलतत्त्वं गणितं च निपुणं जानन्ति तेषां ग्रन्थ- करणव्यसनं पूर्वग्रन्थाधिकचमत्कारोत्पत्तौ युक्ततरमन्यथा वृथेति सूचितम् । एकदेशज्ञानं तु शूद्रस्य वेदाध्ययनाधिकारवद्ग्रन्थकरणेऽधिकार इति ध्येयम् । तथा चोक्तरीत्या जडकर्म- त्वाल्लाघवादिष्टकालिकग्रहोदयलग्नाभ्यां सकृत्साधितकालस्य सावनत्वसिद्धेस्तादृशोक्तिरज्ञा- नहेतुकेति भावः ॥३५॥ केदारदत्तः— कुछ ग्रह गणितज्ञों ने चन्द्रछाया साधन के लिये असकृत गणित क्रम कहा है जो उचित नहीं है क्योंकि यह गणित कर्म सावन ग्रह की छाया से सम्बन्धित नहीं है । वे आचार्य ग्रहगणित गोल में निपुण नहीं है अर्थात् जो ग्रहगणित गोल ज्ञान से वञ्चित हैं उन्हें उक्त प्रकार के ग्रहगणित् तन्त्र ग्रन्थों की रचना करने का अधिकार नहीं है ।