सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 423, कुल 723 में से
संदर्भ में पढ़ेंत्रिप्रश्नवासना ३२१ भुजोऽपमःकोटिगुणो द्युजीवा कर्णस्त्रिभज्या त्रिभुजेऽपमोत्थे । मेषादिजीवाः श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजाः स्युः ॥४३॥ तत्कोटयः स्वद्युनिशाख्यवृत्ते व्यासार्धवृत्ते परिणामितानाम् । चापेषु तासामसवस्ततो ये तेऽधो विशुद्धा उदया निरक्षे ॥४४॥ वा० भा०—स्पष्टम् । एषां क्षेत्राणामुपपत्तिः स्पष्टाधिकारे दर्शितेव ॥४२॥ ॥४३॥॥४४॥ मरीचिः—अथ भुजस्य कर्णकोटिसापेक्षत्वेन तत्क्षेत्रं प्रदर्शयन्वक्ष्यमाणमिन्द्रवज्रया प्रतिजानीते—दृग्ज्यामिति । अत्र निरुक्तभुजसम्बन्धिक्षेत्रे । दृग्ज्यां कर्णम् । चकारात्पूर्वा- चार्या आहुः । तयोर्भुजकर्णयोर्वर्गान्तरपदं कोटिम् । तुकारात्पूर्वाचार्या आहुः । ननु भुजस्य शङ्कुमूलप्राच्य