सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 425, कुल 723 में से
संदर्भ में पढ़ेंत्रिप्रश्नवासना ३२३ उद्द्वृत्तना दोरपमः श्रुतिः स्यादग्रादिखण्डं खलु तत्र कोटिः । उद्द्वृत्तना कोटिरथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ॥४८॥ कोटिर्नरः शङ्कुतलं च बाहुश्छेदः श्रुतिस्त्र्यस्रसहस्रमेवम् । उत्पाद्य सद्यः स्फुटगोलविद्येच्छात्राय शास्त्रं प्रतिपादनीयम् ॥४९॥ वा० भा०—अक्षक्षेत्राणां साधनानामप्युपपत्तिस्त्रिप्रश्ने दर्शिता ॥४५॥४६॥ ४७॥४८॥४९॥ इति श्रीभास्करीये गोलभाष्ये मिताक्षरे त्रिप्रश्नवासना ॥ ● मरीचिः—अथाक्षक्षेत्रेष्वाद्यद्वितीयाक्षक्षेत्रे उपजातिकयाऽऽह—भुजोऽक्षभेति । अक्षभा भुजः । द्वादशाङ्गुलः शङ्कुकोटिः । अक्षकर्णः कर्णः । इदमुक्तम् । यथाऽक्षक्षेत्रं जात्यत्र्यस्रं तथाऽन्यदपि जात्याऽक्षक्षेत्रत्र्यस्रं गोले याम्योत्तरवृत्ते प्रत्यक्षम् । तदाह—अक्षलम्बाविति । अक्षलम्बांशज्ये । भुजकोटी क्रमेण त्रिज्याव(क)र्णः । यथेदं तथेत्यनेन द्वितीयाक्षक्षेत्रं लम्बज्याद्वादशांशापवर्तितं प्रथममुक्तं न तदतिरिक्तमिति सूचितम् ॥४५॥ अथ तृतीयमिन्द्रवज्रयाऽऽह—उन्मण्डल इति । अथानन्तरम् । उद्द्वृत्ते । प्रागपरोत्य- सूत्रात् । विषुवद्वृत्तोन्मण्डलसंपातबद्धसूत्रभिन्नात् । अहोरात्रवृत्तपर्यन्तं क्रान्तिज्यका सा कोटिः क्षितिजवृत्ते । चकारात्प्रागपरोत्यसूत्रात् । समक्षितिजवृत्तसंपातबद्धसूत्रादित्यर्थः । तदहोरात्रपर्यन्तम् । अग्रा । सा कर्णः । तदन्तराले । द्युरात्रवृत्ते । प्रागुक्ता कुज्या भुजः । इदं निरुक्तं क्षेत्रमक्षक्षेत्रम् । त्रिभुजं जात्यत्र्यस्रम् । तथा पूर्वाक्षक्षेत्रप्रत्यक्षवत् । प्रसिद्धम् । गोलप्रत्यक्षमित्यर्थः ॥४६॥ अथ चतुर्थपञ्चमे उपजातिकयाऽऽह—अग्रा भुज इति । अग्रा भुजः स्वे स्वदेश- संबन्धिगोले । समशङ्कुः । चकारात्समवृत्तेऽर्ध्वज्यारूपः । कोटिः । तदहोरात्रवृत्ते भुजाग्र- कोट्यग्रान्तरं तद्धृतिः । तस्य समशङ्कोर्धृतिः । एवकारात्तदन्यधृतित्वनिरासः । कर्णः । क्रान्तिज्याभुजः समशङ्कुश्चकारात्प्रागुक्तः कर्णः । अत्र पञ्चमाक्षक्षेत्रे । कुज्योनिता तद्धृतिः कोटिः ॥४७॥ अथ षष्ठसप्तमे इन्द्रवज्रयाऽऽह—उद्द्वृत्तेनेति । समशङ्कुवदुद्द्वृत्ताच्छङ्कुरुद्द्वृत्त- शङ्कुः । भुजः । क्रान्तिज्या कर्णः । तत्र षष्ठे क्षेत्रे खलु निश्चयेनाग्रा प्रथमखण्डं कोटिः । उद्द्वृत्तशङ्कुः कोटिः । अग्राया अन्त्यखण्डं भुजः । कुज्या तस्य सप्तमक्षेत्रस्य कर्णः ॥४८॥ अथेष्टशङ्कुवशादुत्पन्नमक्षक्षेत्रं निरूपयन्द्युज्याकुज्येत्याद्युक्तप्रश्नस्योत्तरमिन्द्रवज्र- योपसंहरति—कोटिर्नर इति । इष्टशङ्कुः कोटिः शङ्कुतलं बाहुश्छेदः श्रुतिस्त्र्यस्रसहस्रमेव भुजच्छेद इष्टहृतिः कर्णः । चकारादेतत्क्षेत्रसंबन्धिनः प्रागुक्तरूपाः । ननु गणितान्तरोप-