भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 429, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 429

स्पर्श और पूर्व में मोक्ष होता है। अतः कहीं सूर्य ग्रहण और कहीं ग्रहणाभाव भी होता है ॥१॥ इदानीं नतिलम्बनयोः कारणमाह— पर्वान्तेऽर्कं नतमुडुपतिच्छन्नमेव प्रपश्येद् भूमध्यस्थो न तु वसुमतीपृष्ठनिष्ठस्तदानीम् । तद्दृक्सूत्राद्धिमरुचिरधो लम्बितोऽर्कग्रहेतः कक्षाभेदादिह खलु नतिर्लम्बनं चोपपन्नम् ॥२·। समकलकाले भूभा लगति मृगाङ्के यतस्तया म्लानम् । सर्वे पश्यन्ति समं समकक्षत्वान्न लम्बनावनती ॥३॥ पूर्वाभिमुखो गच्छन्कुच्छायान्तर्गतः शशी विशति । तेन प्राक् प्रग्रहणं पश्चान्मोक्षोऽस्य निःसरतः ॥४॥ भानोर्बिम्बपृथुत्वादपृथुपृथिव्याः प्रभा हि सूच्यग्रा । दीर्घतया शशिकक्षामतीत्य दूरं बहिर्याता ॥५॥ अनुपातात्तद्दैर्घ्यं शशिकक्षायां च तद्विम्बम् । भूभेन्दोरन्यदिशि व्यस्तः क्षेपः शशिग्रहे तस्मात् ॥६॥ वा० भा०—दर्शान्तकाले रविं पूर्वतः पश्चिमतो वा नतं चन्द्रेण च्छन्नमेव प्रपश्यति भूमध्यस्थो द्रष्टा । यतो दर्शान्ते समौ भवतः । यो भूपृष्ठस्थो द्रष्टा स तदार्कं छन्नं न पश्यति । यतस्तद्दृष्टिसूत्राच्चन्द्रोऽधो लम्बितो भवति । अतः कक्षाभेदाल्लम्बनं नतिश्चोपपद्यते । चन्द्रग्रहे तु लम्बननत्योरभावः । यतः समकलकाले भूभा चन्द्रे लगति । तया छन्नं सर्वे विदेशान्तरस्था अपि नतमपि तं चन्द्रं समं पश्यन्ति । यतस्तत्र च्छाद्यच्छादकयोरेकैव कक्षा जाता । तथा भूभा तावत्पूर्वाभिमुखमर्कगत्या गच्छति । चन्द्रश्च स्वगत्या । स शीघ्रत्वात्पूर्वाभिमुखो गच्छन्भूभां विशति । तेन तस्य प्राक् स्पर्शः । भूभाया निःसरतः पश्चान्मुक्तिः । भानोर्बिम्बं विपुलं पृथिवी लघुः । अतो भूभा सूच्यग्रा भवति । दीर्घत्वेन चन्द्र- कक्षामतीत्य दूरं गता । तद्दर्घ्यमनुपातात्साध्यते । चन्द्रकक्षाप्रदेशे भूभा चन्द्रबिम्बं चेति सर्वं ग्रहणे प्रतिपादितमेव ॥२॥३॥४॥५॥६॥ मरीचिः—अथ किं न भानोस्तदानीमिति प्रश्नस्योत्तरमत्र लम्बनमस्तीत्युपस्थितं तत्र लम्बनमेव कुतस्तत्रोपपन्नमित्याशङ्कापरिहारं तत्कारणाद्यनतिरपि तत्रोपपन्नेति मन्दा- क्रान्तामाह-पर्वान्तेऽर्कमिति । भूमध्यस्थो भूगर्भस्थितो द्रष्टेति कल्पनादुक्तम् । वस्तुतस्तत्र द्रष्टृनामाभावात् । पर्वान्ते दर्शान्ते । सूर्यं चन्द्रेणाऽऽच्छन्नम् । एवकारोऽप्यर्थे । तेन कदा-