सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 444, कुल 723 में से
संदर्भ में पढ़ें३४२ गोलाध्याये दृष्टिसूत्रयोरैक्यमतस्तत्र लम्बनाभावः। इयं दृङ्मण्डले लम्बनस्योपपत्तिर्दर्शिता ।।१२।।१३।।१४।।१५।।१६।। मरीचिः—अथ कथं चन्द्रं लम्बितं पश्यतीति बालावबोधार्थं पत्रान्तेऽर्कमित्याद्युक्तं विचित्रा(पिपा)दयिषुः प्रथमं छेद्यकं साधयति—इष्टापवर्तितामिति। भित्तौ। उत्तरदिक्स्थ- पूर्वापरायतभित्तिप्रदेशे। आकाशस्थितेः स्फुटं तत्र दर्शनात्। पृथ्वीं मूर्त्तचन्द्रसूर्ययोः कक्षे कक्षावृत्ते। चः समुच्चये। विलिख्य तत्राभीष्टस्थाने बिन्दुं केन्द्रं प्रकल्प्य। तत् क्रमेण व्यासार्धेन वृत्तत्रयमभिन्नकेन्द्रं लिखेदित्यर्थः। तन्मध्ये वृत्तत्रयाभिन्न- भागे तिर्यग्रेखामूर्ध्वगामध्वरेखांम्। एतेन मध्यादधोरेखायां गोलैरित्यर्थात्। सूचितम्। तथाऽव्यवहितरेखयोर्वृत्ते स्वपरिधिचतुर्थांशान्तरं यथा भवति तथा रेखे लिखे- दित्यर्थः। नत्वे(न्वे)तद्वृत्तलिखनमनुपपन्नमतिमहत्त्वादव आह—इष्टापवर्तितामिति! अभीष्टाङ्केनापवर्तितां भजनद्वारा न्यूनीकृताम्। चकारादेतद्विशेषणं वचनपरिणामात्कक्ष- योरिति सूचितम्। तथा च भूव्यासार्धसूर्येन्दुयोजनकर्णा महताऽभीष्टेनाभिन्नाङ्केनापाव- र्त्याः। पुनरभिन्नाङ्केन भजनासंभव आवश्यक इति द्योतकमपवर्तनम्। तथा च तादृशै- र्व्यासार्धैरतिलघुभूतैर्वृत्तत्रयं कुर्यादिति भावः। वस्तुतो भूवृत्तमिष्टव्यासार्धेन लिखेत्। तद- नुरोधेनैवाभीष्टव्यासार्धाभ्यां तत्कक्षावृत्ते लिखेेदिति विशेषणतात्पर्यमिति ध्येयम्।।१२।। अथानुष्टुप्त्रयेण लम्बनस्वरूपं प्रदर्शयति—तिर्यग्रेखेति। कक्षायां आत्माभिप्रायेणै- कवचनम्। तेनोल्लेखितकक्षावृत्तयोरित्यर्थः। तिर्यग्रेखायुतो तिरश्चीनरेखासंयोगयोः क्षितिजं कल्प्यम्। विना गोलं कक्षावृत्तार्धस्थतिर्यग्वृत्तदर्शनात्। तमत्र तिरश्चीनरेखायास्तद्वृत्त- व्यासार्धत्वेन तद्रेखाकक्षासंपातयोस्तिर्यक्क्षितिजवृत्तसंलग्नत्वावशयंभावात्। अत एव क्षितिज- वृत्तादतिरश्चीनरेखायास्तद्वृत्तव्यासार्धत्वेन तद्रेखाकक्षादर्शनेऽपि कल्प्यमित्युक्तम्। पूर्वभागे पूर्वक्षितिजं पश्चिमभागे पश्चिमक्षितिजपश्चिमभाग इति विवेकः। ऊर्ध्वरेखायुतो कक्षयोरू- र्ध्वरेखासंयोगयोः खार्धं खमध्यं तथा क्षितिजवत्कल्प्यम्। गोले सर्वदिङ्मध्यस्थत्वेनात्र तथा दर्शनात्। ऊर्ध्वरेखासंपाते ऊर्ध्वतिर्यग्वृत्तस्य संलग्नतावश्यंभावात्। एतेन लिखितवृत्तयो- श्चन्द्रसूर्यदृग्वृत्तत्वं सिद्धम्। तत्र दृग्वृत्तस्य तत्तद्गोले तत्कक्षावृत्तसमत्वात्। अन्यथा व(स्व) स्व(मध्य)कल्पनानुपपत्तेः। कल्पितक्षितिजेऽपि दृग्वृत्तक्षितिजवृत्तसंपातत्वमन्यथा दृग्वृ- त्तत्वानुपपत्तेरिति ध्येयम्। दर्शान्तिकाले च तुल्यसूर्यचन्द्रयोर्दृग्ज्या तुल्यैव शरानपेक्षणात्। चन्द्रचिह्नस्यैव दृग्वृत्तं न तु बिम्बस्य। अन्यथा सूर्यदृग्वृत्त्याद्यश्चन्द्रवृत्तलिखनानुपपत्तेः याम्योत्तरान्तरत्वात्। तस्यास्तस्या ये धनुरंशास्तैरनयोर्दृग्वृत्तयोः स्वखार्धा इति चन्द्रो नती कृत्वा स्वस्य(स्व)दृग्वृत्तयोर्भगंणांशाद्यं किं तयोः स्वखार्धान्नतांशाैः पूर्वापरकपाल- क्रमेण पूर्वापरभागयोः सूर्यचन्द्रयोर्यथायोग्यं चिह्नं कृत्वेत्यर्थः: अत्र नवांशाकथनेन तत्का- लस्यांशा उपस्थिता भवन्तीति तद्धारणाय दृग्जा(ग्ज्या)चापांशकैरित्युक्तम्। लवनस्य समुत्पत्ति स्वरूपोत्पत्ति शिष्याय गुरुः प्रदर्शयेत्। कथं दर्शयेदित्यतो दर्शनप्रकारमाह— एकमिति। भूमध्यतः। भूवृत्तकेन्द्रमध्यादित्यर्थः। एकं सूत्रं रेखेत्यर्थः। सूर्यबिम्बचिह्नं