सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 445, कुल 723 में से
संदर्भ में पढ़ेंप्रति नयेत्तदवधा( ध्य )त्र च्छेद्यके रेखा कार्या । एकमित्यनेन सूचितं द्वितीयं सूत्रमाह— बहुरिति । अन्यत्—द्वितीयं सूत्रं भूपृष्ठस्थिताद्दृष्टुः सकाशात् । द्रष्टृविधि(हि)तं भूपृष्ठ- स्थानदेशमूर्ध्वरेखाभूवृत्तसंपातरूपमारभ्य सूर्यचिह्नं प्रति नयेत् । तत्सूत्रं दृष्टिसूत्रमुच्यते । गोलज्ञैरित्यर्थात् । सूत्राभ्यां लम्बनस्वरूपं प्रत्यक्षमित्याह··कक्षायामिति । चन्द्रचिह्नवृत इत्यर्थः । सूत्रयोरुक्तररेखयोर्मध्येऽल्पान्तरलेपाः कलास्ता लम्बनकलास्वरूपाः ॥ १५ ॥ ननु सूत्रान्तरस्य लम्बनत्वं कुतः सिद्धमित्यत आह—गर्भसूत्र इति । यतः कारणाद्- दृक्सूत्रात् । चन्द्रश्चिह्नात्मको लम्बितस्तेन कारणेन । तत्—सूत्रान्तरमल्पं लम्बनम- न्वर्थसंज्ञं गोलज्ञैरेवोक्तमित्यर्थः । ननु चन्द्रस्य ततो लम्बितत्वं कुत इत्यत आह—गर्भ- सूत्र इति । भूमध्यगर्भस्य गर्भत्वेन व्यपदेशात्तत्संबन्ध