सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 466, कुल 723 में से
संदर्भ में पढ़ेंयहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ प्रस्तुत है:
३६४ गोलाध्याये सकलप्रदेशेभ्यः । तत्तिर्यग्गतसूत्राणाम् । तस्य पूर्वापरवृत्तस्य तिरश्चीनभागेन तानि विस्तृतानि सूत्राणि वृत्ताकाराणि तेषां यो योगः संपातः । स समसंज्ञः । चकारात्संपात- द्वयदक्षिणोत्तरौ समाविति । तथा च गोले यत्प्रदेशाभ्यां पूर्वापरवृत्तं मध्यं भवति तत्प्रदेशा- वेव समाविति भावः । ननु तयोः कुत्र स्थानमत आह—याम्योदक् कुजसंगमे इति । याम्योत्तरक्षितिजवृत्तयोः संपातयोस्तयोरेव स्थानं क्षितिजवृत्तस्य स्वस्तिकोपरि स्थितत्त्वा- च्चेत्यर्थः । तथा च पूर्वोक्तरीत्या पूर्वापरवृत्तस्य दक्षिणोत्तरसमौ दक्षिणोत्तरदिशाविति भावः । अथ वलनस्वरूपप्रदर्शनार्थं सूत्राणां संनिवेशमाह—समध्रुवकदम्बानामिति । द्युचरान् क्रान्तिवृत्तस्थग्रहचिह्नात्त्रीणि सूत्राणि वृत्ताकाराणि क्रमेण समध्रुवकदम्बानाम्- परि गणको नयेत् । समद्वयप्रोतश्लथं वृत्तं सूक्ष्मं ध्रुवद्वयप्रोतं श्लथं वृत्तं कदम्बद्वयप्रोतश्लथं वृत्तमिति । वृत्तत्रयं ग्रहचिह्नप्रदेशे स्वभ्रमानुकारेण नेयमिति भावः । एभ्यो वलन- स्वरूपाणि कलितानीत्याह—वलनानीति । तदन्तरे । तेषां संनिवेशितवृत्ताकारसूत्राणां मध्ये । सूत्रयोरन्तरे प्रत्येकं वलनमिति समध्रुवसूत्रयोरन्तरमाक्षं वलनं ध्रुवकदम्बसूत्रयोर- न्तरमायनं वलनं समकदम्बसूत्रयोरन्तरं स्फुटं वलनमिति त्रीणि वलनानि स्वरूपसिद्धानी- त्यर्थः । ननु ग्रहचिह्नस्थानात्तत्सूत्रवृत्तयोरन्तरस्य सर्वत्र तुल्यत्वाभावात्तद्वृत्तयोरन्तरं वलनस्वरूपतया कुत्र ग्राह्यमित्यतस्तद्विशदयति-अक्षजमिति । ग्रहचिह्नस्थानात्त्रिभे नव- त्यंशान्तरे समध्रुवसूत्रयोः समप्रोतध्रुवप्रोतवृत्तप्रदेशयोर्मध्येऽन्तराले अक्षोत्पन्नं वलनं स्यात् । कदम्बप्रोतध्रुवप्रोतवृत्तप्रदेशयोर्ग्रहचिह्नान्नवत्यंशान्तरितयोरन्तरे आयनं वलनं स्यात् । चकार एवकारार्थे तेन तद्वृत्तयोर्ग्रहचिह्नत्रिभान्तरितप्रदेशातिरिक्तप्रदेशयोरन्तरे वलनस्वरूपाभाव इत्यर्थः । कदम्बप्रोतसमप्रोतसूत्रवृत्तप्रदेशयोर्ग्रहे चिह्नात्त्रिभान्तरितयोरन्तरे स्फुटं पूर्वोक्ता- क्षायनवलनसंस्कारजनितं मुख्यं वलनं स्यात् । नन्वेतद्दर्शितवलनं दक्षिणोत्तरयोरन्तररूपं कदम्बसमयोस्तद्दक्षिणोत्तरदिक्त्वादतः कथमेतत्तुल्यं पूर्वापरयोर्वलनमवगतमत आह-सर्व- दिशामिति । तत् । प्रतिपादितवलनं सर्वदिशां पूर्वापरतदवान्तरदिशां स्यात् । चकाराद्दि- क्कफे(?)एकदिशि यदन्तरं तत्सर्वदिशामन्तरम् । पूर्वादिदिशां समान्तरेणावस्थानादन्यथाव- स्वानुपपत्तेरित्यर्थः ॥४३॥४४॥४५॥४६॥४७॥ अथालपबुद्धीनामेतत्प्रतीत्यर्थं पूर्वापरदिक्पुरस्कारेण वलनस्वरूपाणि श्लोकाभ्यामाह- अथवेति । अथवा पूर्वापरयोर्वलनस्वरूपदर्शनेन तुल्यमानतया सर्वदिशां वलनमेकमिति प्रतीतिरुत्पाद्या । तदर्थमाह-परित इति । क्रान्तिवृत्तस्य ग्रहचिह्नात् परितः समन्तात् । नवत्यंशान्तरे त्रिज्यावृत्तं गोले न्यसेत् क्षिपेत् । ततस्तत्क्षेपानन्तरं तत्र वृत्ते विषुवत्सम- वृत्तप्रदेशयोरन्तराले आयनं वलनम् । क्रान्तिसमवृत्तप्रदेशयोरन्तराले स्फुटं वलनम् । चकारात्तद्वृत्ते वलनप्रदेशः पूर्वप्रतिपादितवलनप्रदेशतुल्य इति प्रत्यक्षं ग्रहस्थानात्परितो नवत्यंशान्तरे निवेशितग्रहकि(क्षि)तिजवृत्ते ग्रहचिह्नस्य स्वस्वस्थाने क्रान्तिविषुवत्समवृत्त- संबन्धिपूर्वापरदिशे न ये च तद्वृत्ते कदम्बसमप्रोतवृत्तानां त्रयाणां ग्रहचिह्नस्थाने संपादि-