सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 465, कुल 723 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text in Unicode Devanagari Markdown:
तथा च विषुवद्वृत्तस्य यः कश्चन प्रदेशस्तस्माद्विषुवद्वृत्ते नवत्यंशान्तरे प्रागपरयोः प्रदेशौ तौ तस्य पूर्वापरदिशावेवं विषुवद्वृत्तस्य ध्रुवमध्यत्वादिति तात्पर्यम् ॥४१॥ अथ क्रान्तिवृत्तदिङ्निर्णयार्थं कदम्बज्ञानमाह—सर्वत इति । क्रान्तिवृत्तस्य शरमूला- श्रयत्वात्क्रान्तिवृत्तसर्वप्रदेशेभ्यो विसृतानां शरस्वरूपानुकारेण सूत्राणां वृत्तरूपाणां स्थानद्वये योगः । अयं योगः कदम्बसंज्ञो ज्ञेयः । सूत्रैक्यरूपत्वात् । क्रान्तिवृत्तं गोले यत्स्थानाभ्यां मध्ये भवति तत्स्थाने कदम्बरूपे इति भावः । ननु विषुवद्वृत्तसूत्रसंपातो यथा ध्रुवे तथा क्रान्तिवृत्तसूत्राणां संपातः कुत्र भवतीत्यत आह—ध्रुवादिति । ध्रुवस्थानाच्चतुर्विंशति- भागान्तरेण भवतीत्यर्थः । तथा