सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 464, कुल 723 में से
संदर्भ में पढ़ेंकारार्थे । तेन तत्संपातादन्यत्र ग्रहे स्फुटवलनं परमं नेति सूचितम् । तथा च क्रान्तिसमवृ- त्तयोः संपातस्यानियतत्वात्तत्स्थपरमवलनस्य नियतसंख्याभावाद्दिना पूर्वत्र प्रतिपादिताय- नाक्षवलने तज्ज्ञानस्याशक्यत्वाच्च तदनपेक्षं स्थ(स्व)तन्त्रमानयनं स्फुटं वलनस्यासंभवीति भावः ॥३८॥ ननु परमस्य नियतसंख्यात्वनियमात्संपाते स्फुटवलनस्य परमत्वमयुक्तं नियतसंख्याया अभावादित्यत आह—अग्रत इति । तस्मात् । समक्रान्तिवृत्तसंपातात् । क्रान्तिवृत्ते । अग्र- तोऽग्रिमभागे । पृष्ठतः पश्चिमभागे । त्रिभेऽन्तरे । त्रिराश्यन्तरितप्रदेशे । स्फुटं मुख्यं वलनं समक्रान्तिवृत्तदिशोरन्तररूपं नो न संभवतीत्यर्थः । अत्र कारणमाह—तयोरिति । तत्र संपातत्रिभान्तरितप्रदेशे । तयोःक्रान्तिसमवृत्तयोर्याम्योत्तरैक्यत्वात् । कदम्बप्रोतसमप्रोत- वृत्तरूपयाम्योत्तरवृत्तयोर्भिन्नत्वादित्यर्थः । तथा च स्फुटवलनाभावस्य संख्याभावनियत- त्वाच्च त्रिभान्तरे स्फुटवलनपरमत्वनियतसंख्यात्वेऽपि दुष्परिहरमन्यथाऽयनाक्षवलया (न)योरुक्तपरमस्थानानुपपत्तिरिति भावः ॥३९॥ स्यादेतत् । उत्क्रमज्याफलं वलनयोरानयने कुतो दत्तम् । क्रमोत्क्रमज्याभ्यां भावा- [भा]वयोरतुल्यत्वादिति मन्दाशङ्कां परिहरन्वक्ष्यमाणवलनस्वरूपादिप्रतिपादनप्रकारान्तरं प्रतिजानीते—न स्पष्टेति । तत्र समक्रान्तिवृत्तसंपातत्रिभान्तरितक्रान्तिवृत्तप्रदेश उत्क्रम- ज्यया । खेटकोद्युत्क्रमज्यानतांशात्क्रमज्याभ्यामुक्तरीत्या साधितायनाक्षवलनाभ्याम् । स्पष्ट- वलनाभावो न स्यात् । तद्वलनयोर्भिन्नदिक्त्वेऽपि तुल्यत्वाभावात् । ततस्तस्माद्धेतोः क्रम- ज्यया तदुभयमुक्तरीत्या कार्यम् । तयोः समत्वोपलम्भात् । प्रतीतिस्तु धूलीकर्मणा वोप- लब्धिस्तथाऽप्यनियमादुपेक्ष्या । अत एव क्रमज्यया ग्रहस्य साक्षात्संबन्धादुक्तदिशां वलने गोले प्रत्यक्षे उत्क्रमज्यायाः साक्षात्संबन्धाभावादानीतवलने गोलबहिर्भूते इत्यवधेयम् । ननु- तुलाजाद्योरित्यादिभांगोले परमाभावात्मके दर्शिते तूत्क्रमज्याङ्गीकारेऽध्यक्षते मध्येऽप्यनु- पातादुक्ते न स्वरूपेणेति वलनस्वरूपानिर्णयात्कथं क्रमज्यया साध्यमुत्क्रमज्यया नेति निर्णयः संगत इत्यत आह—दाढर्यार्थमिति । यद्यपि क्रमज्यायाः सर्वत्र साक्षात्संबन्धेन ग्रहकर्मण्युप- योगादत्रापि क्रमज्यैवान्यथा सर्वत्र ग्रहकर्मणि तदपवाया(दुपयोगा)पत्तेर्वलनस्वरूपस्याप्यनु- पातसिद्धत्वादिति निर्णयः सिद्ध एव तथाबुद्धीनां तद्दृढत्वसिद्धयर्थः । पुनर्द्वितीयवारं चलन- स्वरूपात्क्रमज्यानिराकरणं प्रकारान्तरेण समनन्तरमेव मया प्रतिपाद्यत इत्यर्थः ॥४०॥ अथ प्रतिज्ञातं विवक्षुर्वलनानां समक्रान्तिविषुवद्वृत्तदिगन्तररूपत्वेन सामान्यतो ज्ञानात्प्रथमं तद्वृत्तानां दिक्स्वरूपकथनोपक्रमे विषुवद्वृत्तदिक्निर्णयमाह—सर्वत इति । विषुवद्वृत्तस्य क्रान्तिमूला श्रयत्वाद्विषुवद्वृत्तम(वं)प्रदेशेभ्यो विसृतानां क्रान्तिस्वरूपानु- कारिणां सूत्राणां वृत्तरूपाणां यतः कारणात् ध्रुवे दक्षिणोत्तरध्रुवयोर्र्योगः प्रत्येकं भवेत् । अतः कारणाद्विषुवन्मण्डलं विषुवद्वृत्तप्रदेशाः प्राच्यां भवन्ति । उपलक्षणात्प्रतीच्याम् ।