भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 471, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 471

नन्वेवं लल्लादिभिरुत्क्रमज्यया कथं वलनानयनमुक्तमित्यतस्तदुत्तरमाक्षवलनानयने उत्क्रमज्यानिराकरणं क्रमज्याग्रहणेनाऽऽह-यैरुक्तमिति । यैर्लल्लश्रीपतिप्रभृतिभिराचार्यैः । उत्क्रमक्रान्त्या उत्क्रमज्ययाऽऽनीतक्रान्त्या तुल्यम् । तत् वलनमुक्तम् । तद्वलनं स्वग्रन्थे तैराचार्यैः । भ्रान्त्या भ्रमेण । भ्रान्तेः पुरुषधर्मत्वात् । नाशितं न संगतमुक्तम् । हि यतस्तदुक्तेनापि नोत्क्रमज्यासिद्धिरिति भावः । नन्वेवमायनं वलनमुक्तं (त्क्र)मज्यया निरस्तं नाक्षवलनमिति कथं साधारण्येनोक्तं यैरुक्तमित्यादीत्यत आह-युक्त्येति । अक्षजमाक्षं चकाराद्वलनम् । अनया प्रोक्तयुक्त्या । आयनवलनज्यायुक्त्या । तदीत्य(यये)त्यर्थः । एवकारातद्विभरीतिव्युदासः । क्रमज्यया । नतकालस्य क्रमज्यया । विज्ञेयं नोत्क्रमज्यया । वलनत्वात् । तथा चोभयोर्वलनयोः क्रमज्यामूलकत्वसिद्धया यैरुक्तमित्यादि साधारणोक्तं युक्तम् । एतेषां दूषणार्थं मयोत्क्रमज्यानिरास उक्तः । अन्यथोत्क्रमज्याप्रसङ्गाभावादधर्ज्याग्रे इत्यादिना सर्वत्र क्रमज्यायाः प्रसङ्गादप्रसक्तनिराकरणानुपपत्तेरिति भावः ॥५६॥ ननु शुद्धं स्वग्रन्थे निरूपणीयमन्यथा न कंचन निन्देदिति श्रुत्या प्रत्यवायित्वापत्तेरिति यैरुक्तमित्यादोत्याचार्यैः कथमुच्छृङ्खलतयोक्तमित्यत आह-परोक्तेरिति । यद्वा-ननु च लल्लेन भ्रान्त्या नोक्तं किंतु तत्त्वतः । त(न)च तर्हि क्रमज्यानिरासः कथं नोक्त इति वाच्यम् । न कंचन निन्देदिति श्रुतेः प्रत्यवायित्वादित्यत आह-परोक्तेरिति । यः पण्डितः परोक्तेरन्योक्तादन्यथा विरुद्धवेवैलः (वचा) ब्रूयात् । कथयेत् । परान् । अन्यान् । स्वानभिम- तान् । न प्रदूषयेत् । प्रकर्षेण सूक्ष्मविचारेण न दूषयेत् । अन्येषां दोषोद्घाटनं न करोती- त्यर्थः । सामानाधिकरण्यावगमार्थं चकारोऽनुसंधेयः । परानप्रदूषयन्निति पाठे परान् । अप्रदूषयन्नितिपदाभ्यां परान्स्वानभिमतान् । अप्रदूषयन् । अदृषयन्सन् यः परोक्तादन्यथा ब्रूयादिति युक्तोऽन्वयः । तत् दोषकथनम् । एवकारात्तदतिरिक्तपरदूषणोक्तिनिरासः । हि यतः । तस्य दोषऋथकस्य नावद्यं वदेदित्यनेन परविरुद्धकथने परोक्तदोषकथनद्वाराऽन्येषा- मवद्यज्ञानसंभवाच्च प्रवृत्ति (वक्तु) र्महादोषः स्यात् । अतः कारणात् । अन्यदूषणे स्वानभि- मतदोषकथने । दोषः प्रत्यवायित्वं नास्तीत्यर्थः । लोकिके परनिन्दया प्रत्यवायित्वमित्यर्थ- परत्वादुक्तश्रुतेः । द्वितीयपक्षे परदूषणे प्रत्यवायित्वाभावात्क्रमज्यानिरासकथनापत्त्या लल्लेन तत्त्वतो नोक्तं किंतु भ्रान्त्यैवेति भावः ॥५७॥ ननूत्क्रमज्यानिराकरणोक्तावयनाद्गतकालांशक्रमक्रान्तिज्यकया सत्रिभार्कक्रमक्रान्तेस्तु- ल्यत्वाभावात्सत्रिभार्कादित्याद्युक्तमयुक्तम् । न च द्युज्यानुपातात्तत्समत्वोपलम्भाद्युक्तमिति वाच्यम् । आर्षानुक्त्या तदनुपाते मानाभावादित्यस्वरसात्पूर्वोक्तोत्क्रमज्यानिराकरणपरि- ष्काररूपप्रकारान्तरेणोत्क्रमज्यानिराकरणं विवक्षुः प्रथमं तत्प्रतिज्ञापूर्वकं तदुपजीव्यजिनवृत्त- निबन्धमाह-उत्क्रमज्येति । अथ पूर्वोक्तोत्क्रमज्यानिराकरणेक्तावुक्तास्वरसभादनन्त- रम् । अयं पूर्वोक्त उत्क्रमज्यानिरासः । आयनवलनसाधने पूर्वाचार्योक्तोत्क्रमज्याया निरासः । वाकारोऽन्ययोगव्यवच्छेदार्थेवकारपरः । तेन पूर्वोक्त एव निरासः, ननु प्रकारान्त- रेण तद्भिङ्गः । अन्यथा उक्तास्वरसमाधानरूपपरिष्कारोक्त्येत्यर्थः । कथ्यते । मया २४