सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 472, कुल 723 में से
संदर्भ में पढ़ें३७० गोलाध्याये
प्रतिपाद्यते । तदेवाऽऽह—जिनांशैरिति । यथा ध्रुवात्परितश्चतुर्विंशत्यंशैर्गोले कदम्बभ्रम- वृत्तं निबद्धं तथा कदम्बस्थानाच्चतुर्विंशत्यंशैः समन्तात् । जिनवृत्तसंज्ञं वृत्तम्त्वर्थ(?) भांशाद्यङ्कितं न्यसेद् निबन्धयेत् ॥५८॥ अथ तदुपजीव्यं क्रान्तिवृत्तस्य याम्योत्तरवृत्तसंनिवेशमयनसंधौ तत्संस्थानं चाऽऽह— क्रान्तिगाम्योत्तरमिति । कदम्बद्वयकीलयोः कदम्बद्वये प्रत्येकमेकैककीले यो स्थितौ तयोरि- त्यर्थः । क्रान्तियाम्योत्तरं क्रान्तिवृत्तस्याखिलप्रदेशानां दक्षिणोत्तरवृत्तरूपं वृत्तं चलमस्थिरं प्रोतं कृत्वा ! द्वंद्वान्ते । कल्प्यमिथुनान्तप्रदेशे । उपलक्षणादयनसंधावित्यर्थः । न्यस्तं स्वमार्गेणाऽऽनीतं सत् । ध्रुवोपरि ध्रुवद्वयासक्तं स्यात् । अत्र क्रान्तिवृत्ताखिलप्रदेशानां तद्वृत्तं याम्योत्तरवृत्तमित्यत्र हेतुगर्भविशेषणं चलमिति । चलमित्यत्र हेतुगर्भं प्रोतमिति । ध्रुवोपरीत्यत्रायनसंधौ न्यस्तमिति हेतुगर्भमिति ध्येयम् ॥५९॥ अथ जिनवृत्तस्य फलमाह—द्वंद्वान्तादिति । द्वंद्वान्तादयनसंधित इत्यर्थः । यैर्यत्संख्ये- र्भागैः प्रागुक्तं कदम्बप्रोतवृत्तं क्रान्तिवृत्ते चाल्यते । आनीयते । तैस्तन्मितैर्भागैः । एवकारा- न्न्यूनराधिकव्यवच्छेदः । जिनवृत्ते प्रागुक्ते । ध्रुवाद् ध्रुवसक्तप्रदेशात्कदम्बप्रोतवृत्तं चरति । जिनवृत्तस्य क्रान्तिवृत्तानुसृतत्वात् । तेषामंशानां ज्या क्रान्तिज्येत्याह—उद्देशानामिति । कदम्बप्रोतवृत्तजिनवृत्तसंपातध्रुवयोजितवृत्तेतरांशानाम् । तत्र जिनवृत्ते । ज्या क्रान्तिज्या भवति । जिनवृत्तेऽपि कदम्बभ्रमवृत्तवत्परमक्रान्तिज्यायास्त्रिज्यःत्वकल्पनात् ॥६०॥ ततः किमित्यतः फलितमाह-आयनमिति । सा पूर्वोक्ता क्रान्तिज्या । एवकारस्तदन्य- योगव्यवच्छेदार्थकः । ग्रहात् । ग्रहचिह्नात् । द्युज्याग्रे । द्युज्याव्यासार्धवृत्ते । आयनबलनं जायते । ग्रहचिह्नात्परितो द्युज्याव्यासार्धेन यद्ग्रहक्षितिजवृत्तानुबद्धं वृत्तं तस्मिन्वृत्ते कदम्बप्रोतजिनवृत्तसंपातध्रुवयोरन्तरप्रदेशार्धज्या स्यादित्यर्थः । कुत इत्यत आह— ग्रह- ध्रुवान्तर इति । सदा । अनवरतम् । ग्रहचिह्नध्रुवयोर्मध्ये द्युज्याया धनुरंशाः परमात्का- रणात्सन्ति । ध्रुवाच्च तद्वृत्ते क्रान्तिज्येति विरुद्धं नेति भावः ॥६१॥ ननु सत्रिभार्कक्रान्तिज्याया आयनवलनत्वे अयनाद्गतकालांशक्रमक्रान्तिज्येत्यादि द्युज्यानुपातगमितमित्यन्तः पूर्वं कथमुक्तमार्षानुकृतेश्चेत्यतस्तदुत्तरं तत्प्रसङ्गादन्यदथाऽऽह— त्रिज्यावृत्ते इति । यतः कारणादायन वलनं त्रिज्यावृत्ते देयमस्ति । आयनवलनज्याया वानु(धनु)रंशाः कार्या इति द्युज्याप्रमाणसिद्धाया धनुःप्रकाराभावात्त्रिज्याप्रमाणेन कार्याः । धनुःकरणस्य शक्यत्वादित्यर्थः । अतः कारणात् । तत्र त्रिज्यावृत्ते । ग्रहक्षितिजवृत्ते सत्रिभार्कक्रान्तिज्यारूपं द्युज्याप्रमाणसिद्धं वलनं त्रिज्यया परिणाम्यते । तदनुरोधेन सिद्धं क्रियते इत्यर्थः । तथा च कदम्बध्रुवद्वयप्रोतयाम्योत्तरवृत्तग्रहक्षितिजसंपातयोरन्तरस्थग्रह- क्षितिजप्रदेशार्धे ज्यानवलनज्या त्रिज्याप्रमाणेन साक(स्यात्क)दम्बभ्रमवृत्ते तस्य विषुवद्वृत्तानुरुद्धत्वादिति पूर्वोक्तं युक्तमार्षंश्च स्वल्पान्तरत्वादद्युज्यानुपातो नोक्त इति भावः । यद्यप्यत्रोत्क्रमज्या न निरस्ता तथाऽप्येतदुक्तस्य पूर्वोक्तपरिष्काररूपतया क्रमज्या-