भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 475, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 475

ङ्कनीये । न त्वहोरात्रविक्षेपवृत्तानुरोधेनेति सूचितम् । ततो वलनं सुज्ञेयमित्याह-बिम्बाग्रे इति । ग्रहबिम्बवृत्तपरिधौ । तयोः क्रान्तिवृत्तद्युज्यावृत्तयोर्यदन्तरं तद्वलनमानयनं स्यात् । बिम्बवृत्तपरिधौ क्रान्त्यनुसृतवृत्तं यत्र लग्नं तत्र पूर्वापरं बिम्बपूर्वापरविभागक्रमेण क्रान्ति- वृत्तस्य । यत्र विषुवद्वृत्तानुसृतस्वाहोरात्रवृत्तं लग्नं तत्र विषुवत्पूर्वापरा । तयोरन्तरमयन- वलनं भवग्रहबिम्बे इत्यर्थः । वा । पूर्वोक्तात्तत्स्वरूपास्वरसभयादिवेदं पूर्वोक्ताद्भिन्नम- भिन्नमपि बोधार्थमङ्गीकार्यमिति भावः । एवमुपवृत्ताहोरात्रवृत्तयोर्ग्रहबिम्बपरिधावन्तर- माक्षं वलनम् । उपवृत्तस्य समवृत्तानुसृतत्वात् । क्रान्तिवृत्तानुसृतवृत्तोपवृत्तयोः सूत्रान्तरं स्फुटवलनमिति ध्येयम् ।।६९।। ननु तदन्तररूपं वलनं गणितेन कथं ज्ञेयमित्यतस्तदुत्तरं प्रागुक्तवलनस्वरूपसमर्थनं चानुष्टुब्द्धयेनाऽऽह—बिम्बान्तेति । तत् । ग्रहबिम्बसंबन्धि प्रागुक्तं वलनमायनं बिम्बान्त- बिम्बमध्योत्थक्रान्तिमौर्योः । ग्रहबिम्बवृत्ते परिधिसक्तक्रान्तिवृत्तप्रदेशो बिम्बान्तः । ग्रह- बिम्बवृत्तकेन्द्रसक्तक्रान्तिवृत्तप्रदेशो बिम्बमध्यम् । ताभ्यामवगते ये क्रान्तिज्ये तयोरन्तरं भवेत् । प्रागुक्तवलनस्य ज्यास्वरूपमित्यर्थः । क्रान्तिज्यासाधनार्थं ग्रहबिम्बमध्यराशा(श्या) दिभोगो ग्रहभोग एव । बिम्बान्तराश्यादिभोगो बिम्बकलार्धयुतहीनग्रहभोगः प्राक्स(प)- रप्रान्तवशात् । यद्यपि बिम्बकलानां व्यासस्वरूपत्वात्क्रान्तिवृत्ते प्रान्तभोगज्ञानाय बिम्बकलार्धो- नयुतो ग्रहभोग इत्यसंगतमिति बिम्बकलार्धरूपज्याया या धनुःकालास्ताभिरूनयुत इति वक्तुमुचितं तथाऽप्यल्पान्तराद्वृहज्ज्यानुरोधेन तुल्यत्वाच्च तथा करणेन वाऽप्य- क्षतिः । न च ज्ययोरेकस्वरूपाभावात्क्रान्तिज्ययोरन्तरं वलनमित्युक्तम् । अन्यथाऽक्ष- ज्याक्रान्तिज्यासंस्कारेण नतज्यासंस्कारेण नतज्यासिद्ध्यपत्तेः । किंतु तत्क्रांतो(न्त्यो)- रन्तरं तज्ज्यावलनं युक्तमिति वाच्यम् । क्रान्तिज्ययोरेकवृत्तमध्यसूत्रावधित्वात्क्रान्ति- मौर्योरन्तरस्य बिम्बाग्रवलनज्यात्वसंभवात् । अन्यथा ज्यारूपयोरग्राशङ्कतलयोः संस्कारे भुजत्वानापत्तेः । तथा हि—विषुवद्वृत्तमध्यसूत्रात्कल्पितग्रहबिम्बवृत्तकेन्द्ररूपग्रहचिह्नपर्यन्तं सूत्रमर्धज्याकारं बिम्बमध्यक्रान्तिज्या । विषुवद्वृत्तग्रहनेमिस्थक्रान्तिमण्डलप्रदेशयोरन्तरं नेमिस्थक्रान्तिस्तज्ज्या । विषुवद्वृत्ततदतिरिक्त मध्यसूत्रान्नेमिस्थक्रान्तिवृत्तप्रदेशपर्यन्तमर्ध- ज्याकारं सूत्रम् । तत्र प्रतिबिम्बकेन्द्रस्थाहोरात्र उत्तरबिम्बसंबन्धिप्रदेशस्य संपूर्णज्याया ग्रहबिम्बवृत्तमध्यरेखात्वात्तदवधिबिम्बप्रोते ( प्रान्ते) मध्यक्रान्तिज्यातुल्यत्वात्तयोरन्तरवलन- ज्याविम्बमध्यरेखा नेमिस्थक्रान्त्यग्रयोरन्तरार्धज्यासूत्राकारा प्रत्यक्षा । यथा । अन्यथा क्रान्त्यन्तरेण बिम्बपरिधौ केन्द्राहोरात्रवृत्तनेमिस्थक्रान्तिवृत्तप्रदेशयोरन्तरप्रदेशसिद्धावपि ध्रुवप्रोतचलवृत्तस्थितांशसिद्ध्या बिम्बवृत्तस्थितभगणांशप्रमाणानेशांमित्यसिद्धे अन्यप्रकारेण तदवगमेऽपि गौरवात् । यद्यपि विषुवक्षणासन्नग्रहबिम्बपरिधौ क्रान्त्यहोरात्रवृत्तप्रदेशयोर- न्तरज्याज्ञानं भिन्नदिक्क्रान्तिज्ययोर्योगेन संभवति । तथाऽपीतरपरिधिप्रदेशे तयोरन्तर- ज्याज्ञानमेकदिक्क्रान्तिज्ययोरन्तरेणैवेत्याचार्यैरनुगमार्थं तथैवोक्तमुभयत्र(योर्योगेन) वलन- स्वरूपत्वात् । अत एवैकदिक्संबन्धे नेमिस्थक्रान्तिज्या महती भिन्नदिङ्नेमिस्थक्रान्ति-