भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 476, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 476

ज्यायाः। तत्रैकदिश्यन्तरं यन्मितं तन्मितमेवान्यदिशीति तदैक्यम् । अन्यथा प्राक्परयोर्वल- नसमत्वानुपपत्तेरिति क्षितिः । अत्रान्येषां स्पष्टक्रान्तिज्ययोरन्तरं वलनं न । किंतु शरसंस्कृत- केवलक्रान्तिज्ययोरन्तरं ग्रहायनवलनमेव ग्रहान्मानार्धयुतग्रहाध्वकेवलाग्राशङ्कुतले प्रसाध्य भुजौ साध्यौ तयोरन्तरमाक्षवलनज्याग्रहबिम्बे इति ध्येयम् । नन्वेवं प्रत्येकं क्रान्तिज्ययोः साधनद्वारा तदन्तरसाधने गौरवमित्यत आह—अर्कदोरिति । अर्कस्य ग्रहोपलक्षणार्तसायन- ग्रहभुजज्यासाधने यद्भोग्यखण्डस्यान्तरं तेन गुणितं बिम्बमानकलानामर्धं पञ्चविंशतियुतशत- द्वयभक्तं यत्सिद्धं तत् चतुर्विंशत्यंशज्यया गुणितं त्रिज्यया भक्तमेवमुक्तप्रकारेण यत्फलं तत् पूर्वं प्रतिपादितम् । हि यतोऽन्तरं न क्रान्तिज्ययोरतों लाघवान्न गौरवमिति भावः ।