भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 477, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 477

भावः । संशयापनोदार्थं तुल्यत्वे कारणमुच्यते । त्रिज्यया तुल्यया कोटिज्यया तत्त्वाश्विमितं भोग्यखण्डं तदेष्टग्रहकोटिज्यया किमित्यनुपातेन भोग्यखण्डानयनपूर्वकं तत्सू( प्र )कारानु- सरणे तत्त्वाश्वितुल्ययोर्गुणहरयोर्नाशादिष्टग्रहकोटिज्यया परमक्रान्तिज्यया गुण्या त्रिज्यया भाज्येति द्युज्यानुपातानङ्गीकारे ग्रहणाधिकारोक्तानयनं पर्यवसन्नमिति । अत्राशङ्कतलसंस्कारं विना भुजज्ञानासम्भवादुक्तदिशाऽऽक्षवलनानयनमशक्यमिति नोक्तमाचार्यैरिति ध्येयम् । ननूत्क्रमज्यानिरासोऽयमन्यथा वाऽथ कथ्यते इत्यनेनोत्क्रमज्यानिराकरणं प्रतिज्ञातम् । प्रति- पादितं च तदाद्ये तदन्तरं ग्रन्थे तत्क्रमज्यया वलनं कार्यमिति नोत्क्रमज्यानिरासोक्तिरतो विरोध इत्यतस्तदुत्तरमुपसंहारभूतमाह-अथेति । हे बालिशाः ! तत्त्वातत्त्वविवेकज्ञानशून्याः । अथ एतद्ग्रन्थभावनानन्तरम् । इदं वलनानयनम् । क्रमक्रान्तेः । भुजक्रमज्यानीतक्रमक्रान्ति- ज्यायाः सकाशादुत्पन्नं द्युज्यानुपाताङ्गीकारात् । अन्यथा विना तुल्यपदं क्रमक्रान्तेरित्यनु- पपन्नम् । द्वितीयान्तस्य कथनापत्तेः । वीक्ष्य सम्यग्ज्ञात्वा । भ्रान्तिम् । उत्क्रमज्यया वलनं कार्यं तत्क्रमज्ययेति बुद्धिभ्रमं संशयं त्यजत । दूरी कुरुत । तथा च क्रमज्याप्रतिपादने- नैवार्थसिद्धमुत्क्रमज्यानिवारणं तस्य क्रमज्याप्रतिपादनफलत्वादुत्क्रमज्यानिरासः प्रतिज्ञात इति भावः ।।७३।। ननु तथाऽपि ग्रहबिम्बसंबन्धेन वलनानयनग्रन्थे द्युज्यानुपाताङ्गीकारकारणं न दृश्यते इत्यतस्तमनुपातं समर्थयति । नामितमिति—यतः कारणाद्ग्रहबिम्बं नामितं याम्योत्तरयोर्नतं भवत्यतः सा सन्निभग्रहसंबन्धिनी समा । ध्रुवाभिमुखी क्रान्तिस्तिर्यक् भवति । तुकाराद्ध्रुवा- भिमुखी वस्तुभूता क्रान्तिरपि तिर्यक्त्वेन ध्रुवाभिमुखी न किन्तु कदम्बाभिमुखीति भासते इति सूचितम् । अतः कारणादत्र वलनानयने यो द्युज्यानुपातः क्रियते सोऽनुपातस्तस्तिर्य- क्करणाय । सन्निभग्रहक्रान्तिरूपाय न वलनस्य । तिर्यक्करणाय कदम्बाभिमुखीकरणाय निष्पन्न इत्यर्थः । ननु सदा क्रान्तेर्ध्रुवाभिमुखत्वेन नामितग्रहबिम्बे तत्तिर्यक्त्वं कथं भासता- मन्यथा विषुवत्क्रान्तिवृत्तान्तरस्य क्रान्तेर्व्याघातात्तस्यास्तदेकाभिमुखत्वादित्यत आह--छत्रव- दिति । यथाऽऽतपनिवारणं छत्रं स्वमस्तकोपरिस्थं तदा तत्स्वयाम्योत्तरानुसारमेव । यदा तु दण्डतिर्यक्करणेन छत्रं विदिक्षु नामितं तदा स्वयाम्योत्तराभ्यां छत्रयाम्योत्तरा तिरश्ची- नैवेति प्रत्यक्षम् । तथा कल्प्यमेषतुलादिग्रहे विषुवद्वृत्तस्थत्वेन तस्य कल्पितभूमध्यपूर्वापर- वृत्तस्थितं ग्रहबिम्बवृत्ते ध्रुवाभिमुखयाम्योत्तरं न भवत्यतस्तत्र बिम्बवृत्तनेम्यां विषुवत्क्रान्ति- प्रदेशयोरन्तरवलनं समं ध्रुवाभिमुखम् । बिम्बकेन्द्रभूगर्भान्तरसूत्रस्य दण्डानुकरणत्वात् । यदाऽन्यत्र राशौ तदा ग्रहबिम्बस्थलान्नामितमतोऽहोरात्रवृत्तक्रान्तिवृत्तान्तरं बिम्बनेम्यां नतत्वेन तिरश्चीनं न ध्रुवाभिमुखमन्यथा तिरश्चीनभानानुपपत्तेः । किंतु क्रान्तिवृत्ते ग्रहगम- नात्तद्याम्योत्तरकदम्बाभिमुखम् । ग्रहबिम्बवृत्ते नेम्यां क्रान्त्यन्तरेण यद्वलनमागतं तत्कोटि- रूपं ध्रुवाभिमुखम् । त(प्र)त्यक्षं तु तन्नेम्यां कदम्बाभिमुखं कर्णरूपमतस्तत्र भूगर्भग्रहबिम्ब- केन्द्रोत्तरसूत्रस्य त्रिज्यामितस्य तिर्यक्त्वात्त्रिज्या कर्णः द्युज्या कोटिः क्रान्तिज्या भुज इत्यु-