भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 487, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 487

उत्क्रमेणोन्नताद्यच्च तद्ग्रहोदयलग्नकम् । उक्तव्यत्ययतः प्रत्यगस्तलग्नं सषड्ग्रहात् ॥७॥ शरे महति भानां तु चरार्धं मध्यमापमात् । शरस्फुटात् तथा कृत्वा तच्चापैक्यान्तरासुभिः ॥८॥ विभिन्नैकदिशोर्विद्यादक्षजेन नतोन्नतम् । आयनाक्षजयोर्योगवियोगाल्लग्नमुक्तवत् ॥९॥ वा० भा०—अत्र गोले यथोक्तं क्रान्तिमण्डले विमण्डले च ग्रहं दत्त्वा विमण्डलस्थग्रहोपरि द्युज्यावृत्ते च बद्धे यथेयं दृक्कर्मोपपत्तिः सुखेन बालैरपि बुध्यते तथाऽयं सूत्रपाठः कृतोऽतः सुगमा । तथा ग्रहच्छायाधिकार इयमुपपत्तिः सम्यक् कथितैव ॥३॥४॥५॥६॥७॥८॥९॥ मरीचिः—अथ प्रतिज्ञातमनुष्टुभाऽऽह—क्षितिजे वलने इति । ग्रहचिह्नोदयकाले इत्यर्थः । ये । आयनाक्षसंज्ञे यन्मिते वलने भवतः तद्वशात् तदुभयवलनानुरोधेन विक्षेपेण दक्षिणेन क्षितिजात् ग्रहबिम्बं नाम्यते । सौम्येन विक्षेपेण । तथा वलनद्वयानुरोधादुन्नाम्यते । उदयलग्नार्थं दृक्कर्मकरणात्क्षितिजे इत्युक्तम् । अन्यकाले तत्साधनस्य वैयर्थ्यादिति ध्येयम् । उत्तरवलने कदम्बयोर्दक्षिणोत्तरयोः क्रमेण दक्षिणोत्तरध्रुवाभ्यामध ऊर्ध्वं संभवात्स्वसभाभ्यां च सुतरां संभवाद्विक्षेपाग्रस्थग्रहबिम्बस्य कदम्बोन्मुखत्वेन स्वक्षितिजादुत्तरदक्षिणशरक्रमेणो- न्नामननामने भवत इति तात्पर्यम् ॥३॥ अथ दक्षिणवलने पश्चिमक्षितिजे च विशेषं दृक्कर्मकालानानयनं त्रैराशिकपुरःसरं ताभ्यां ग्रहोदयकालिकलग्नज्ञानं ग्रहास्तकालिकलग्नज्ञानं चानुष्टुप्‌चतुष्केणाऽऽह–तद्व्यस्तमिति । तत्पूर्वश्लोकोक्तं दक्षिणवलने व्यस्तं विपरीतं ज्ञेयम् । आयनवलने दक्षिणे याम्यशरेण ग्रह उद्‌वृत्तादुन्नाम्यते । सौम्यशरेण ग्रहबिम्बं नाम्यते । दक्षिणोत्तरध्रुवाभ्यां क्रमेण दक्षिणोत्तर- कदम्बयोरूर्ध्वाधःस्थत्वात् । आक्षवलने दक्षिणे तु याम्यशरेण स्वक्षितिजादुद्वृत्तस्थग्रह उन्ना- म्यते इति शब्दार्थलभ्यम् । न गोलस्थितिलभ्यम् । समाभ्यां ध्रुवयोर्नियतत्वाद्विक्षिणोत्तर- ध्रुवयोः क्रमेण समाभ्यामुच्चावचत्वाभावात् । अतोऽस्मात् । उक्तात् । पश्चिमक्षितिजे व्यस्तं विपरीतं ज्ञेयम् । उक्तस्य पूर्वक्षितिजविषयत्वात् । अपिः समुच्चये । तथा चाऽऽयन- वलने उत्तरे यदुक्तं दक्षिणशरेण ग्रह उद्‌वृत्तान्नाम्यते उत्तरशरेणोन्नाम्यते इति तत्पूर्व- कपाले । पश्चिमे तु याम्यशरेणोन्नाम्यते । सौम्यशरेणोन्ना (ण ना) म्यते । प्रवहभ्रमेण कदम्बयोर्विपरीतस्थितेः संभवात् । आक्षवलने उत्तरे क्षितिजादुद्वृत्तग्रहो याम्यशरेण नाम्यते । सौम्यशरेणोन्नाम्यते इति पूर्वकपाले । पश्चिमे च याम्यशरेणोन्नाम्यते सौम्य- शरेण नाम्यते इति शब्दलभ्यम् । न गोलस्थित्या । एवं दक्षिणायनवलने यदुक्तं तत्पूर्व- कपाले । पश्चिमे तु तद्विपरीतम् । याम्यशरेणोद्वृत्ताद्ग्रहो नाम्यते सौम्यशरेणोन्नाम्यते २५