भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 488, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 488

३८६ गोलाध्याये इति श्लोकोक्तम् । दक्षिणाक्षवलने शब्दलभ्यं पूर्वकपाले । तत्पश्चिमकपाले विपरीतं श्लोकोक्तं गोलस्थितिसिद्धम् । तेन स्वक्षितिजादुद्वृत्तस्थो ग्रहो दक्षिणोत्तरशरयोर्नामितो- न्नामितो भवतीति तात्पर्यम् । अथोद्वृत्तान्नतोन्नतग्रहस्य तदन्तरकालानयनार्थमनुपातमाह- आयनमिति । आयनवलनज्यया भुजस्त्रिज्या कर्णः षष्टिः, अस्फुटशरः कर्णः स्फुटशरः कोटिः । तन्मूलयोरन्तरे द्युरात्रवृत्त इति क्षेत्रद्वयस्य च्छायाधिकारव्याख्याने प्रतिपादितत्वा- त्त्रिज्यया श्रुत्या । आयनम् । आयनवलनज्यया भुजश्चेद्यदि स्यात्तदाऽस्पष्टेन कदम्बाभिमुखेन शरेण कर्णेन किं भुजमानं लभ्यमित्यनुपातेन द्युरात्रवृत्ते तदन्तरालप्रदेशज्या । एवं स्वक्षिति- जादुद्वृत्तस्थनतोन्नतग्रहस्य तदन्तरकालानयनार्थमनुपातमाह-लम्बज्ययेति । लम्बज्यया कोटिः, त्रिज्या कर्णः । अक्षवलनज्या भुज इति च्छायाधिकारव्याख्यायां स्वल्पान्तरेण क्षितिजेऽक्षक्षेत्रस्य प्रतिपादितत्वाल्लम्बज्यया कोट्या । अक्षंजं वलनम् । अक्षवलनज्या भुज- श्चेद्यदि स्यात्तदाऽस्फुटेषुणा ध्रुवाभिमुखशरमितक्रान्तिज्याकोट्या किं भुजमानं लभ्यमित्यनु- पातेन द्युरात्रवृत्ते कुज्या । अस्यास्तत्रैवाक्षदृक्कलासु ज्यात्वप्रतिपादनात् । अथ तद्धनुर्ज्ञानार्थं तच्चापकरणमशक्यं त्रिज्यानुरुद्धज्यायास्तत्संभवादित्यत आह-इतीति । पूर्वोक्तानुपाताभ्यां त्रैराशिकात् । प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्तः फलमन्यजातिः । मध्ये तदिच्छाहतमाद्यहृतस्यादिच्छाफलमित्युक्तानुपातविधेरागते फले त्रिज्यया गुणिते द्युज्यया भक्ते तयोः फलयोर्धनुषी तयोरैक्यम् । अन्तरम् । द्वयोरुन्नतत्वेन नतत्वेन वैकजातित्वे योगः । वैजात्येऽन्तरम् । अधिकशेषवशान्नतोन्नतसंबन्धि ज्ञेयम् । तत्तुल्यासुभिः स्वभूगर्भक्षितिजात् । ग्रहो बिम्बात्मकः स्वक्रान्तिवृत्तस्थचिह्नक्षितिजसंयोगकाले । नत उन्नतो वा भवति । तथा च द्युज्यानुपातेन तयोस्त्रिज्यानुरुद्धत्वात्तच्चापे सुशके । एतेनैव स्वक्षितिजाद्ग्रहबिम्बमुन्नतं नतं कियद्भिरसुभिर्भवतीत्याशङ्काऽपास्तेति भावः । उदयकालिकलग्नसाधनमाह-तैरिति । नतात्खेटात् । नतग्रहबिम्बस्य क्रान्तिवृत्तस्थराश्यादिभोगादित्यर्थः । तैः पूर्वोत्पन्नैर्नतासुभिः क्रमात् । क्रमलग्नप्रकारेण । यल्लग्नं सूक्ष्मं जायते । उन्नताद्ग्रहात् । उन्नतग्रहबिम्बस्य क्रान्तिवृत्तस्थराश्यादिभोगादित्यर्थः । पूर्वोत्पन्नोन्नतासुभिरुत्क्रमेण । विलोमलग्नसाधन- प्रकारेण यल्लग्नं भवति तद्ग्रहोदयकालिकं लग्नं ज्ञेयम् । नतोन्नतग्रहस्य तत्कालादग्रिम- पूर्वकाले क्षितिजसंलग्नतासंभवात्क्रमविलोमलग्नाभ्यां ग्रहप्रवहभ्रमहेतुकग्रहबिम्बोदयकालिक- क्षितिजसंलग्नक्रान्तिवृत्तप्रदेशज्ञानक्रान्तिवृत्तस्थग्रहचिह्नाद् भवत्येवेत्युपपत्तिः सुगमा । छायाधिकारे व्यक्ता च । अथ ग्रहास्तकालिकलग्नसाधनमाह-उक्तव्यत्ययत इति । प्रत्यक् । पश्चिमक्षितिजादुक्तदिशा ग्रहबिम्बस्य साधितनतोन्नतकालादित्यर्थः । उक्तात् । नतोन्नतका- लक्रमेण क्रमविलोमलग्नसाधनात् । व्यत्ययो विपरीतम् । नतोन्नतकालक्रमसिद्धविलोमक्रम- लग्नसाधनं तेनेत्यर्थः सषड्ग्रहात् । षड्राशियुक्तग्रहाद्यल्लग्नं तद्ग्रहास्तकालिकं लग्नं ज्ञेयम् । पूर्वक्षितिजात्पश्चिमक्षितिजे विपरीतत्वाद्व्यक्तोपपत्तिश्छायाधिकारे प्रतिपादिता । इदं दृक्कर्मगणितजातं तत्रैव विस्तरेण सवासनं व्याख्यातमतोऽत्र मूलानुरोधात्संक्षेपेण व्याख्यातमिति मन्तव्यम् ॥४॥५॥६॥७॥