भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 493, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 493

उदयास्तवासना ३९१ किंच कृत्वा शरं कोटिं स्थित्यर्धानयनं कृतम् । तादृक् चेत्स शरस्तेन नानुपातेन सिध्यति ॥१५॥ वा० भा०—यदि क्रान्तिसूत्रे शरस्तदा ध्रुवाभिमुखः स्यात्। निरक्षदेशे क्षितिजस्थो ध्रुवः। ध्रुवाभिमुखशराग्रस्थो ग्रहः क्षितिजं न त्यजति। नामनोन्ना- मना भावात्। किं तत्राऽऽयनदृक्कर्मणा। अथवाऽऽचार्यैः कृतं ये न मन्यन्ते तैरपि कृतं भ्रान्तत्वात् तथा परिलेखे बिम्बमध्यात्स्पष्टवलनाग्रोपरिगतं सूत्रं क्रान्तिवृत्तप्राची। तस्याः कोटिवच्छरः किं दत्तः। तत्पक्षे ध्रुवसूत्रे नेयः शेषं स्पष्टम् ॥१२॥१४॥१५॥ मरीचिः—अथ ब्रह्मगुप्ताद्युक्तस्पष्टशरानयने स्वल्पान्तरसमाधानासहिष्णूनां ब्रह्मगुप्ता- नुसारिणां केषाञ्चित्समाधानमनूद्यानुष्टुभा दूषयति—क्रान्तिसूत्र इति। ये केचिद्ब्रह्मगुप्ता- नुसारिणो मद्युक्तस्पष्टशरानयनासहिष्णवः क्रान्तिसूत्रे। विषुवद्वृत्ताद्ध्रुवाभिमुखे सूत्रे। न तु क्रान्तिवृत्तात्कदम्बाभिमुखसूत्रे। मतभेदानुपपत्तेः। शरम्। अनुपातागतम्। ब्रह्म- गुप्तादिसंमतं मन्यन्ते। यथा विषुवद्वृत्तात्क्रान्तिवृत्तपर्यन्तं ध्रुवाभिमुखी क्रान्तिस्तथा क्रान्तिवृत्ताद्विक्षेपवृत्तपर्यन्तमन्तरं शरो ध्रुवाभिमुखो गणितागत इत्यङ्गीकुर्वन्ति। तेन च मद्युक्तत्समाधानस्पष्टशरसाधने न युक्ते इति द्योतयन्ति। कुबुद्धयः। अल्पबुद्धयः। पदार्थ- तत्त्वाज्ञाः। तथा च तदुक्तमतत्त्वान्नाऽङ्गीकार्यमिति भावः। ननु त्वया पूर्वग्रन्थे वस्तु- तत्त्वाप्रतिपादनं मत्वा स्वल्पान्तरमित्यवस्तुभूतं समाधानमुक्तं तैश्च तदुक्तस्य वस्तुतत्त्वेन प्रतिपादनाद्दोषामसङ्गात्प्रत्युत त्वदुक्तस्पष्टशरानयनस्य तदुक्त्या व्यर्थत्वाच्चेति कथं ते कुबुद्धय इत्यतो दूषणमाह—यदीति। एवं तदुक्तं सम्यक्। यदि चेदङ्गीक्रियते। चकार- स्तह्यर्थः। अन्यैः। ब्रह्मगुप्तादिभिः। चकारादार्षोक्तमायनं दृक्कर्म। कृतं स्वग्रन्थे उक्तं तैः तादृशसमाधानकर्तृभिः किं किमर्थमङ्गी क्रियते इत्यर्थः। तन्मते आयनदृक्कर्माङ्गी- करणमयुक्तम्। उन्मण्डले ग्रहचिह्नसबन्धिक्राले शरस्य ग्रहाभिमुखत्वादग्रहबिम्बसंबन्धेन ततस्तस्य नमनोन्नामनाभावादायनदृक्कर्मानुत्पत्तितस्ततो ब्रह्मगुप्तादिग्रन्थे शरस्य ध्रुवाभिमुख- त्वेनानुक्तितद्दर्शनान्मदुक्ततदाशयेनाऽऽयनदृक्कर्मप्रतिपादनमविरुद्धमन्यथा तत्प्रतिपादनानुप- पत्तेरिति भावः ॥ १३ ॥ ननु ग्रहचिह्नाद्यद्ग्रहबिम्बस्य ध्रुवाभिमुखशरांग्रे स्थित्यभावात्कदम्बाभिमुखशरांग्रे सत्त्वात्संपातग्रहचिह्नादनुपातानीतःशरस्याऽऽयनग्रहचिह्नध्रुवाभिमुखस्याग्रे ग्रहबिम्बसद्भावा- भ्युपगमान्मन्मतेऽप्युक्तमायनदृक्कर्मविरुद्धम् । न चैवं ग्रहचिह्नग्रहबिम्बान्तरकदम्बाभिमुख- शरेणैवाऽऽयनदृक्कर्मोत्पत्तेर्गणितागतशरादुक्तं तत्साधनमसङ्गतमिति वाच्यम् । स्वल्पान्तर- त्वादित्यस्वरसाद्दूषणान्तरमनुष्टुभाऽऽह—किं स्पष्ट इति । तैः । ब्रह्मगुप्तानीतशरं ध्रुवाभिमुखत्वेन ¸मन्यमानैरित्यर्थः । स्पष्टवलने सूत्रे ग्रहणपरिलेखे मानैक्यखण्डवृत्ते ब्रह्मशरदिक् चिह्नाद्दक्षिणोत्तररेखातोऽर्धज्याकारेण मध्यकालिकमानैक्यखण्डवृत्तपरिणतस्प-

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 493, कुल 723 में से · BharatKosha