सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 492, कुल 723 में से
संदर्भ में पढ़ें३९० गोलाध्याये स्वल्पान्तरत्वेऽपि पदार्थतत्त्वनिरूपणात्मकसिद्धान्तग्रन्थे स्पष्टशरकथनं तेषामप्यावश्य- कमन्यथा तदुच्छेदापत्तिरत आह-स्थित्यर्थेति । हि । यतः । स्थित्यर्धपरिलेखादौ । मध्यस्फुटस्थित्यर्धानयने ग्रहणपरिलेखाक्रियायाम् । आदिपदाद्ग्रासेष्टग्रासानयनार्यनदृक्कमी- दीनां संग्रहः । गणितागतः कदम्बाभिमुखः शरः । एवकारात्स्फुटशरमिति स्फुटशरस्य निरासः । उपयुक्तः । तथा चोक्तं बहुस्थलेषु कदम्बाभिमुखशरस्य वस्तुभूतत्वाद्ध्रुवाभि- मुखस्पष्टशरस्य क्रान्तिसंस्काराक्षदृक्कर्मणोरेव वस्तुभूतत्वादबहूपयोगात्स्पष्टशरानुक्तिः । स्वल्पान्तरेणापि गणितक्रियालाघवसंभवादिति भावः ॥११॥ ननु ब्रह्मगुप्तादिसिद्धान्ते स्फुटशरकथनाभावाद्ब्रह्मगुप्तोक्तनक्षत्रशरा अस्फुटास्त्व- दुक्तनक्षत्रस्फुटशरतुल्याः कथं संभवन्ति । किंचिदप्यन्तरसंभवपत्तेरतोऽनुष्टुभाऽऽह- नक्षत्राणामिति । ब्रह्मगुप्तादिभिर्नक्षत्राणां स्थिरत्वात्पूर्वगतेरभावाद्ये शराः पठिताः । ते । स्फुटाः । ध्रुवाभिमुखाः । एवकारात्तेषां कदम्बाभिमुखत्वं निरस्तम् । तथा च मदुक्तनक्षत्र- स्पष्टशराणां ब्रह्मगुप्तोक्तनक्षत्रशरतुल्यत्वे क्षतिर्नेति भावः । ननु नक्षत्रध्रुवाणामायनदृक्कर्म- संस्कारनिमित्तं मध्यमशराः कदम्बाभिमुखा अपि पृथक्कि तैर्नोक्ता अतः आह-दृक्कर्म- णेति । एषां नक्षत्राणाम् । ध्रुवाः । आयनेन दृक्कर्मणा संस्कृताः सन्तः सिद्धा एव । चका- रात्स्थिरत्वादित्यर्थः । तथा । ब्रह्मगुप्तादिभिः पठिताः । तथा च नक्षत्राणामायनदृक्कर्म पुनःसंस्कारस्यानुचितत्वात्तदुपजीव्यकदम्बाभिमुखशरकथनं व्यर्थमेवेत्युपेक्षितम् । नक्षत्रस्पष्ट- क्रान्त्यर्थमाक्षदृक्कर्मार्थं च स्पष्टशरस्यैवोपयोगादिति भावः ॥१२॥ केदारदत्तः- ब्रह्मगुप्ताचार्य ने शर को स्फुटता नहीं की—मध्यम और स्पष्ट शर में अत्यन्त अल्प अन्तर पड़ने से आचार्य ब्रह्मगुप्त ने कदम्बप्रोतीय शर की स्पष्टता नहीं की है । ग्रहण की स्पर्श मोक्ष आदि स्थिति में भी गणितागत कदम्बाभिमुख शर को ही ग्रहण किया है । तथा नक्षत्रों की स्थिर स्थिति होने से नक्षत्रों का भी ध्रुवप्रोतीय शर ब्रह्मगुप्त ने पढ़ा है । कदम्बध्रुव के अत्यल्पान्तरित दूरी से फल में स्वल्पान्तर दोष को दोष नहीं माना जाता है ॥११॥१२॥ यहाँ पर आचार्य भास्कर की ब्रह्मगुप्ताचार्य पर विशेष आस्था स्पष्ट हो रही है । अथ सद् दूषणानुपहसन्नाह— क्रान्तिसूत्रे शरं केचिन्मन्यन्ते ते कुबुद्धयः । यद्येवमायनं तैश्च दृक्कर्मान्यैश्च किं कृतम् ॥१३॥ किं स्पष्टे वालने सूत्रे दत्तो मध्यशरश्च तैः । कोटिवद्वालनात्सूत्रात्स्पर्शमुक्तिक्षरौ च किम् ॥१४॥