सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 491, कुल 723 में से
संदर्भ में पढ़ेंतत्त्वात्त्रिज्यानुरुद्धमत् क्रान्तिवृत्तस्थग्रहचिह्नादासन्नध्रुवस्य द्युज्याचापांशान्तरितत्वाद्ध्रु- वाभिमुखतदन्तरसिद्धयर्थं द्युज्यापरिणतः शरः स्फुटो भवतीति तात्पर्यम् । न चैवं सत्रिरा- शिग्रहद्युज्यानुपातोक्तितः कथमुपपन्नेति वाच्यम् । ग्रहच्छायाधिकारे त्रिज्यावर्गादित्याद्युक्त- स्पष्टशर साधनस्योपपत्तावायनवलनज्याभुजा । स्त्रिज्याकर्णस्तद्वर्गान्तरपदं ध्रुवाभिमुखा यष्टिः कोटिरिति क्षेत्रादायनावलनस्य प्राचीनमते सत्रिभग्रहक्रान्तितुल्यत्वात्तज्ज्यावर्गोनत्रिज्यावर्ग- पदरूपयष्टेः सत्रिभग्रहद्युज्यात्मकत्वादुक्तमुपपन्नमिति प्रतिपादनात् । ततः किमाशङ्काया उत्तरालाभादत आह—असाविति । स्पष्टशरः क्रान्तिसंस्कारे । क्रान्तिसंस्कारार्थं स्पष्ट- क्रान्तिसिद्धयर्थमिति यावत् । अक्षजे दृक्कर्मणि । आक्षदृक्कलासाधनार्थम् । तथा उपयुक्तः । क्रान्तिध्रुवाभिमुखत्वा