सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 496, कुल 723 में से
संदर्भ में पढ़ें३९४ गोलाध्याये दृक्कलात्मकम् । उत्क्रमज्यया । ग्रहकोट्युत्क्रमज्यया । भ्रान्त्योक्तम् । तथा च तदुक्तवल- नस्य पूर्वमनेकधा खण्डितत्वात्तद्वलनानुरोधेनोक्तं दृक्कमापि खण्डितप्रायम् । मूलाशुद्ध्या तद्विशुद्धेरिति भ्रान्तिजल्पितत्वात्तदुपेक्षणीयमिति भावः । नन्वेकोक्तस्य तथात्वं संभवति । न त्वनेकोक्तस्य तथात्वम् । अन्यथा अतिप्रसङ्गः । उत्क्रमज्यया दृक्कर्म त्वतिप्रसिद्धमने- कोक्तत्वात् । तथा च श्रीपतिः—विक्षेपसत्रिभखगोत्क्रमजाऽपमज्याघातो ग्रहत्रयगुणेन हृतः कलास्ताः । शोध्यास्तयोः समदिशोः भचरेषु देया भिन्नाशयोर्भवति दृग्विधिरेष पूर्वः । यद्वोत्क्रमज्यात्रिभसंयुतस्य रसघनविक्षेपहता विभक्ता । त्रिचन्द्रवेदाभ्रशरैः कलाद्यं प्राग्वद्ध- नर्णं फलमायनाख्यम् । खनभोगधृतिभिः समाहृतं प्रथमं दृक्फलमायनाह्वयम् । द्युचराश्रित- भोदयामृभिर्विहृतं स्पष्टमिह प्रजायते । इतीत्यत आह—तदिति । ततो लल्लोक्तानन्तरम् । अपरैस्तदन्यैः पुरुषैस्तदनुगैर्भ्रान्तितल्ललोक्तमार्गानुसारणशीलैः । तत् । उत्क्रमज्योपजीव्यं दृक्कर्म । कृतं स्वग्रन्थे उक्तम् । तथा चानेकोक्तं प्रसिद्धमपि भ्रान्तोक्तमूलकत्वादसंगतमिति भावः । ननूपपत्तिविचारेण तदनुगानां ग्रन्थकर्तृत्वात्तैस्तथा कथमुक्तमित्यतोऽपरविशेषण- माह—अन्धपुरुषपरम्परोपमैरिति । अन्धा नेत्रद्वयरहिता ये पुरुषा मनुष्यास्तेषां या परंपरा । अतिसंलग्नतया पंक्तिः सोपमा दृष्टान्ते येषामेतादृशैरित्यर्थः । तथा चान्धस्येवा- न्वलग्नस्य विनिपातः पदे पदे । इति प्रसिद्धोक्तेः । शतमप्यन्धानां न पश्यतीति न्यायाच्च विचारविस्मरणशीलैस्तदुक्तं च तथेति भावः ।।१६।। ननु लल्लादिभित्वदुपजीव्यब्रह्मगुप्तोक्तानुरोधादेवोत्क्रमज्यया दृक्कर्म वलनं चोक्तमिति त्वदुक्तौ धृष्ट्यपूर्वकं तद्दूषणं ब्रह्मगुप्तोक्तेः पर्यवसन्नम् । न त्वेवमुचितम् । तस्या भ्रान्तत्वात्तद्दूषणं च त्वयि तदनभिप्रायबोधकत्वं सूचयतीत्यत आह—ब्रह्मगुप्तकृतिरत्र सुन्दरा साऽन्यथा तदनुगैर्विचार्यते । नोद्धता कृतिरथोध्दताऽस्तु वा मामिका सुगणका विचार्यतामिति । अत्र । वलनदृक्कर्मविषये । ब्रह्मगुप्तकृतिः । प्राक्पश्चान्नतविषुवज्ज्ययोर्वं- धात्त्रिज्ययाऽऽप्तचापांशैः । उत्तरयाम्यैः पूर्वा विषुवद्वृत्ते त्रिभे ग्राह्या । सममण्डलाद्विषु- वत्ते ग्राह्यास्त्रिग्रहाधिकोदुग्याम्ये । क्रान्त्यंशैरपमण्डलपूर्वा स्याश्चन्द्रविक्षेपः । एकान्यदि- शोर्युतियुतेर्ज्याप्रग्रहणमध्यमोक्षेषु । वलनं निमीलनोन्मीलनेषु कालेष्वतोऽन्यदिशाम् । विक्षेपसत्रिराशिकान्तवधे व्यासदलहृते लिप्ताः शोध्यास्तयोः समदिशोर्यद्यन्यदिशोग्रहे क्षेप्या इति ब्रह्मगुप्तनिर्मितार्यापङ्क्तिः । सुन्दरी । समीचीना । तत्रोत्क्रमज्यया दृक्कर्म- वलनयोरप्रतीतेः । गणितसाधारणोक्त्या केवलज्यापदेन तत्रापि क्रमज्यालाभादन्यथा सर्वत्रोत्क्रमज्याग्रहणापत्तेः । ननु तट्टीकाकारैश्चतुर्वेदाचार्यैरेतद्व्याख्यावसरे ज्यापदस्योत्क- मज्यापरत्वेन विवरणात्कथमुच्यते तत्कृतिः सुन्दरीत्यत आह-सेति । तदनुगैर्ब्रह्मगुप्त- सिद्धान्तव्याख्यातृभिश्चतुर्वेदाचार्यैः सा वलनदृक्कर्मविषयिणी ब्रह्मगुप्तोक्तार्यापङ्क्तिः । अन्यथाप्रतीयमानार्थभिन्नार्थत्वेनोत्क्रमज्यात्वेनेत्यर्थः । विचार्यते । व्याक्रियते । तथा च हेतूपपादनं विना तद्व्याख्यायां मानाभाव उक्तदूषणाच्च तद्यथाश्रुतार्थे बाधकाभावा- च्चोक्तं न विरुद्धमिति भावः । अतः स्वानौद्धत्यं फलितमित्याह-नेति । मामिका ।