भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 531, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 531

यन्त्राध्यायः ४२९ मरीचिः-अथ प्रसङ्गादस्माद्यन्त्राद्भेधेन ग्रहज्ञानं चक्रयन्त्रोपजीवकत्वादेतद[न]न्तरं चापतुर्यं चेन्द्रवज्रामण्योपजातिकाभ्यामाह-पैत्रर्क्षपुष्यान्तिमवारुणानामिति । पैत्रर्क्षं मघा, योगतारानक्षत्रे । पुष्यः योगतारानक्षत्रम् । अन्तिमं रेवती योगतारानक्षत्रम् । वारुणं शत- तारा योगतारानक्षत्रम् । एषां चतुर्णां नक्षत्राणां मध्ये । ऋक्षद्वयं नक्षत्रद्वयं नेमिगतं स्वसम- सूत्रतया चक्रयन्त्रनेमिस्थितम् । यथा दूरेऽन्तरे तदासन्नचक्रनेम्यन्तरं त्रिभाधिकं स्यात्तथा । अत्र श्लथशङ्कुः शलाधारे । यन्त्रं चक्रयन्त्रम् । सुधिया गणकेन प्रकर्षेण धार्यम् । अत्र सुधि- येत्यनेन प्रकर्षेण चेदं यन्त्रं तथा येन यत्नेन भवति स यत्नो विधेय इति सूचितम् । अत्र चतुर्णां त्रयाणां वा नेमिस्थत्वेऽपि न क्षतिः । ननूक्तर्क्षयोरासन्नत्वेऽथवोक्तर्क्षाणामदृश्यत्वे वा कथं यन्त्रं धार्यमित्यत आह-अल्पेषुभ- खेचराद्विति । वा प्रकारान्तरे । अल्प इषुःशरो ययोस्तादृशे भे खचरो वा । भखचरो वा । यथा त्रिभाधिकान्तरो नेम्यां भवतस्तथा यन्त्रं धार्यम् । अत्र यथा यथा शराल्पत्वं तथा- तथा सूक्ष्मत्वं, यथा शराधिकत्वं तथा स्थूलत्वं चन्द्रपरमशरानधिकत्वमल्पत्वं चेति सूचि- तम् । यथा चोक्तर्क्षाणामेकनक्षत्रं दृश्यं तदा तत्तदन्यदल्पशरं नक्षत्रम् । अल्पशरो ग्रहो वा- दूरान्तरेण नेमिगतौ । उक्तर्क्षयोरासन्नत्वे तयोर्नेमिगतत्वं संपाद्य तदन्यतरनक्षत्राद्दूरान्तरे- ऽल्पशरं नक्षत्रं नेमिगतमल्पशरो ग्रहो वा । उक्तर्क्षाणामदर्शनेऽल्पशरनक्षत्रे दूरान्तरे नेमिगते तदभावे तादृशो ग्रहो वा नक्षत्रग्रहो तादृशो वा यथा भवतस्तथा चक्रयन्त्रं धार्यमिति भावः । ततस्तादृशस्थिरचक्रयन्त्रनेमिस्थदृष्ट्या अक्षगतं चक्रयन्त्रकेन्द्रस्थकीलकप्रदेशे समसूत्र- तयाऽऽकाशेऽवस्थितं खेटं ग्रहबिम्बं प्रपश्येत् । वेधकर्तेति शेषः । चकारान्नेमिस्थग्रहबिम्बं चेत्तदेव पश्येदिति लाभः । विष्ण्वस्य नेमिगतनक्षत्रद्वयातिरिक्त नक्षत्रस्य तदन्यतरनक्षत्रस्य वा योगतारां मुख्यतारामृक्षगतां चकारात् पश्येत् । अक्षयुजोर्नेम्यङ्कयोः अक्षमूलसक्तकेन्द्र- समसूत्रेण चक्रनेम्यां ग्रहबिम्बस्योर्ध्वाधिरान्तराभावेन केवलयाम्योत्तरान्तरेण समसूत्रतया यत्स्थानं तत्र चिह्नं कार्यम् । एवं नक्षत्रस्यापि नेम्यां चिह्नं कार्यम् । तयोरित्यर्थः । मध्ये- ऽन्तराले । तुकारादासन्ने । ये यत्संख्याका अंशाः स्थिताः सन्तीत्यर्थः तैरंशैर्भ ग्रहवेध- कालिकवेधितनक्षत्रे । वेधितग्रहात्प्रत्यक् । पश्चिमभागे स्थिते सति । भध्रुवः । वेधित- नक्षत्रस्थ ध्रुवतः । आयनदृक्कर्मसंस्कृतो विलोमकर्मसिद्धायुतः । अथ यदीत्यर्थः । वेधितग्रहाद्वेधितनक्षत्रे पुरः पूर्वभागे स्थिते सति । वेधितनक्षत्रस्य ध्रुव आयनदृक्कर्मसंस्कृतस्तैरन्तरैरंशैरूनः । खचरस्य वेधितग्रहस्य भुक्तं मेषादिराश्यादि- भोगमानं स्यात् । ग्रहबिम्बग्रहनेम्यङ्कयोर्याम्योत्तरमन्तरं कीलशलाकायां शरो यन्त्राद्दक्षि- णोत्तरस्थग्रहबिम्बवशाद्दक्षिणोत्तरः । अत्रोपपत्तिः-पुष्यमघारेवतीनक्षत्राणां शराभावा- त्क्रान्तिवृत्तस्थत्वं शतताराया अपि विंशतिकलामिशरेण स्वल्पान्तरात्क्रान्तिवृत्तस्थत्वमङ्गी- कृतम् । एवं चक्रयन्त्रस्य दूरान्तरेणोक्तनक्षत्रयोर्नेमिस्थत्वे क्रान्तिवृत्तस्थत्वेन क्रान्तिवृत्तानु- कारता संभवति । स्वल्पान्तरेण नेमिस्थत्वे तु तादृशप्रदेशस्य तदनुकारित्वेऽपि तदितर