सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 539, कुल 723 में से
संदर्भ में पढ़ेंयन्त्राध्यायः ४३७ षष्ट्यङ्गुलव्यासमतश्च रन्ध्रात् कृत्वा सुवृत्तं परिधौ तदङ्क्यम् । षष्ट्या घटीनां भगणांश ३६० कैश्च प्रत्यंशकं चाम्बुपलैश्च दिग्भिः ॥२१॥ अग्रे सरन्धा तनुपट्टिकैका षष्ट्यङ्गुला दीर्घतया तथाऽङ्क्या । वा० भा०—अत्राऽऽदौ धातुमयं श्रीपर्ण्यादिदारुमयं वा फलकं चतुरस्रं श्लक्ष्णं समं कर्तव्यम् । तच्च नवत्यङ्गुलविस्तारं द्विगुणविस्तारदैर्घ्यम् । तत्समीपे दैर्घ्यमध्ये तस्याऽऽधारः शिथिलः शृङ्खलादिः कार्यः । आधारे धृतं यन्त्रं यथा लम्बमानं स्यात्तथा धृते फलक आधारादधः सूत्रमवलम्बरेखा कार्या । सा च लम्बसंज्ञा । तं लम्बं नवतिभागं कृत्वा भागे भागे तिर्यग्रेखा दीर्घा कार्या । तिर्यक्त्वं तु लम्बभवान्मत्स्यात् । सा रेखा ज्यासंज्ञा ज्ञेया । आधारादधस्त्रिंशद- ङ्गुलान्तरे या ज्या तस्या लम्बस्य च संपाते सुषिरम् । तत्रेष्टप्रमाणा शलाका क्षेप्या । साऽक्षसंज्ञा । तस्माद्रन्ध्रात् त्रिंशदङ्गुलेन कर्कटेन वृत्तरेखा कार्या । सा षष्टि६०घटिकाभिर्भगणांशकैः खषडग्निसंख्यैः ३६० प्रत्यंशं दशभिर्दशभिः पानीयपलैश्चाऽङ्क्या । अथ ताम्रादिमयी वंशशलाकामयी वा पट्टिका षष्ट्यङ्- गुला ६० दीर्घतया तैरेव फलकाङ्ङ्गुलैस्तथैवाङ्किता कार्या । सा पट्टिकाऽर्धाङ्- गुलविस्तृता । एकस्मिन्नग्रेऽङ्गुलविस्तृता कुठाराकारा कार्या । तत्र विस्तारमध्ये छिद्रं कार्यम् । अक्षप्रोतायाः पट्टिकाया लम्बोपरि धृताया एकं पार्श्वं यथा लम्बरेखां न जहाति तथा सरन्धा कार्येत्यर्थः ॥१८॥१९॥२०॥२१॥ मरीचिः—अथ प्रतिज्ञातयन्त्रस्वरूपं शार्दूलविक्रीडितेनाऽह—कर्तव्यं चतुरस्रकमिति । सुगुणेकेन । धातुमयं श्रीपर्ण्यादिसुदारुमयं वा । सुफलकं यन्त्रं श्लक्ष्णं समं चतुरस्रमायत- चतुरस्रम् । कप्रत्ययेन समचतुरस्रस्य वृत्ताकारादेर्वा निरासः । कर्तव्यम् । आयतचतुरस्रकरणे विस्तारः कियान् कर्तव्य इत्यत आह—खाङ्काङ्ङ्गुलैरिति । नवत्यङ्गुलैर्विस्तृतमित्यर्थः । विस्ताराद्दैर्घ्यस्याऽधिक्येऽपि कियन्मितं कार्यमत आह- विस्तारादिति । विस्तारमानापेक्षया द्विगुणमायतं दैर्घ्यं यस्य अशीत्यधिकशताङ्गुलमितं दैर्घ्यं कार्यमित्यर्थः । ततोऽनन्तरम् । यन्त्रविस्तारप्रान्ते । आयाममध्ये । यन्त्रदैर्घ्यमध्ये श्लथशृङ्खलादिना घटितः कृत आधारस्तथा कार्यः । यन्त्रस्यार्धभागे दैर्घ्यनेम्याम्याधार- शृंखला योज्या यथा तत्र धृतं यन्त्रं लम्बमानं स्यादित्यर्थः । ततोऽन्तरमाधारादाधार- स्थानात् । अवलम्बसूत्रसदृशी । यथा लम्बायमानयन्त्रे आधारादवलम्बसूत्रं पतति तदनु- कारा रेखा कार्या । चकारः समुच्चये । तुकारादाधारातिरिक्तस्थला तादृशी रेखा आधा- राद्वक्रा रेखा वा न कार्येति लाभः । सा रेखा अस्मिन् यन्त्रे । लम्बरेखा । गणकैर्नोच्यते । लम्बसंज्ञा रखेति तात्पर्यम् ॥१८॥ Indological Truths