सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 548, कुल 723 में से
संदर्भ में पढ़ेंकार्या। लम्बरेखा नवत्यङ्गुलाङ्किता शीघ्रोपस्थित्यर्थं चिह्नस्थानेऽप्यायतरेखा नवति- संख्याका यन्त्रे सर्वावयवावच्छेदेन वक्ष्यमाणक्रियोपयुक्तविस्ताराङ्गुलज्ञानार्थं कार्या। अथाक्षसंनिवेशार्थमाधारचिह्नादधो यन्त्रभागे त्रिज्यामितषट्षष्ट्यंशांशदेशोयत्रिंशन्मितं परमचरज्याऽङ्गुलस्थाने लम्बरेखायतरेखासंपातरूपे सूक्ष्मं छिद्रं कार्यम्। तत्र दृग्वृत्ताकार- धरणेन सूर्यबिम्बकृताक्षच्छाया त्रिंशदङ्गुलान्यूना यथा पतति तथेष्टाङ्गुलमितशलाका- रूपोऽक्षो निवेश्यः। अथ सूर्यस्य वृत्ताकारेण भ्रमणाद्वृत्ताकारं यन्त्रमावश्यकं नतु चतुरस्रम्। अन्यथा षष्टिघटिकाङ्कनानुपपत्तेः कालज्ञानासंभवाच्चेति फलके छिद्रं केन्द्रं कृत्वा त्रिज्ययाव्या- सार्धेन वृत्तं कल्पितत्रिज्यावशात्षट्षडङ्गुलव्यास्रं कृतं तद्घटिकाज्ञानार्थं षष्टिघटीभिस्तुल्य- प्रदेशान्तरेणाङ्कितमिष्टकाले नतोन्नतांशज्ञानार्थं द्वादशराशिभागाङ्कितं चैवमत्र त्रैराशि- कानुरोधेन प्रतिभागं दश पलानि भवन्ति। अवशिष्टफलकांशस्तु वक्ष्यमाणक्रियोपयुक्त इति न व्यर्थः। अथ कालज्ञानार्थमक्षे पट्टिका प्रोता कार्या। अक्षस्थानादधो यन्त्रविस्तारस्य षट्षडङ्गुलावशेषत्वात्षट्षडङ्गुलदीर्घा। अथात्र त्रिंशन्मितत्रिज्यानुरोधाच्चरर्ज्या परिणा- मेन साध्या। तत्राऽऽचार्यैः सुखार्थं स्पष्टाधिकारे दिङ्नागसत्र्यंशगुणैर्विनिघ्नी पलप्रभा तोथ- पलात्मकानि। स्थूलानि बास्युश्चरखण्डकानीत्युक्तचरखण्डेभ्यश्चरं चरज्या पलात्मिका सा षड्गुणा ज्यात्मिका। गजाग्निवेदाग्निमितत्रिज्यानुरोधेन चरज्या। पूर्वं चापज्ययोस्तुल्य- त्वेन चापासंभवात्। तत उक्तबृहत्त्रिज्ययोक्तस्थूलखण्डानीतचरं षड्गुणं स्थूलचरज्या तदा त्रिंशन्मितत्रिज्यया किमित्यनुपातेन गुण ६।३०। घातस्य १८।१०। गुणत्वेन गुण १८० हरो ३४३८ गुणेनापवर्त्य हरस्थाने षड्यवाधिका एकोनविंशतिः १९।६। अत्रो- भयथा स्थूलत्वादल्पान्तरत्वान्नचावयवत्यक्तः। अत उपपन्नं यत्खण्डकैः स्थूलचरं पलाद्यं तद्गोकुहृत्स्याच्चरसिञ्जिनीहेति। अथ कालज्ञानार्थं यष्टिः साधिता। तदुपपत्तिः—तत्र दृग्वृत्ताकारेणास्मिन् यन्त्रे धृते सूर्योदयकाले वृत्तेऽक्षसंबन्ध्यायतरेखाकारेण च्छाया ततो यथा यथाऽर्क उपरि गच्छति तथा तथा मध्यायतरेखातश्छायाग्रं वृत्तेऽधो भवतीत्यभीष्टकाले दृग्वृत्ताकारयन्त्रधारणेऽक्षच्छाया- स्पृष्टवृत्तप्रदेशतदासन्नमध्यायतरेखास्पृष्टवृत्तप्रदेशयोरन्तराले वृत्तचतुर्थांशान्तर्गते वृत्तपरि- ध्येकदेशे येऽंशास्ते उन्नतास्तेषां ज्यामध्यायतरेखातश्छायाग्रावधि यानि फलकाङ्गुलानि तन्मिता(तः) शङ्कुरभीष्टकाले। तत उक्तक्षेत्रानुपातेन हृतिरभीष्टेयं त्रिज्यापरिण- तेष्टान्त्या। इयं मध्यान्त्यायां होना शेषं नतकालोत्क्रमज्या तदुत्क्रमधनुर्नतकाल इति गोल- युक्त्या कालज्ञानम्। तत्राप्येतद्गुरुगणितं विना यन्त्रादेव लाघवात्तद्घटिकाज्ञानार्थं कल्पित- त्रिंशन्मितत्रिज्या तुल्यशङ्कोर्नियतस्पष्टान्त्या साधिता। तत्र तत्साधनार्थं प्रथमो नियत- द्वादशाङ्गुलशङ्कोरिष्टान्त्या साधिता।