सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 549, कुल 723 में से
संदर्भ में पढ़ेंयन्त्राध्यायः ४४७ तद्यथा । द्वादशाङ्गुलशङ्कोर्निरक्षदेशे हृतिर्द्वादशमिता । फलकर्णस्य तत्तन्मितत्वात् । द्युज्याप्रमाणेन द्वादशहृतिस्तदा त्रिज्याप्रमाणेन केति निरक्षदेशेष्टान्त्या । तत्रापि द्युज्या- नाम नियमाद्गुरुक्रियाऽस्याः परिहारार्थं लाघवात्पञ्चदशांशान्तरेण षड्द्युज्याः । बृहत्त्रि- ज्याप्रमाणेनैता ३४१८ । ३३६६ । ३२९२ । ३२१८ । ३१६१ । ३१४१ । स्वल्पान्त- रेणावयवत्यागान्निरवयवा अङ्गीकृत्य निरक्षदेशे द्वादशाङ्गुलशङ्कोः पञ्चदशांशान्तरेण षट्त्रिभमध्ये इष्टान्त्या एताः साध्यान्याः अमीष्टांशे तत्साधनं ज्यासाधनरीत्या स्थूलमपि | १२ | १२ | १२ | १२ | १३ | १३ | | ४ | १५ | ३२ | ५० | ६ | ८ | स्वल्पान्तराल्लाघवाच्चाङ्गीकृतम् । अत्र बहुस्थानेषु द्वादशाङ्गुलसद्भावादन्यत्र तदधिकत्वाच्च द्वादशभिन्नं खण्डकं कृतम् । शेषं तु द्वितीयं खण्डकम् । तत्र प्रथमखण्डस्याभिन्नत्वाद्वितीयं खण्डं ज्यासाधनरीत्या साध्यम् । तत्र निरवयवाङ्कसौकर्यार्थं व्यङ्गुलात्मकं द्वितीयखण्डं धृतम् । ४ । १५ । ३२ । ५० । ६३ । ६८ । अत्रापि लघुज्याखण्ड- कवत्खण्डानि लघुप्रकारार्थं कृतानि ४ । ११ । १७ । १८ । १३ । ५ । तथा च सायनार्कभुजांशाः पञ्चदशभक्ताः | ० | ० | ५ | ११ | | ४ | १५ | ३२ | ३८ | फलमितखण्डैक्ययोगः शेषांशैष्वखण्डवातपञ्चदशांशयुको निरक्षदेशे व्यङ्गुलात्मकं द्वितीयखण्डमिदं षष्टिभक्तं द्वादशरितं प्रथमखण्डे योज्यम् । निरक्षे इष्टान्त्या द्वादशपलकर्ण- देशे इयमिष्टान्त्या तदाऽभीष्टपलकर्णे केत्यनुपातेन फलकर्णगुणा द्वादशभक्ताः स्वाभीष्टदेशे द्वादशाङ्गुलशङ्कोरिष्टान्त्या भवति । तत्र निरक्षदेशे इष्टान्त्याप्रयोजनाभावात्स्वदेशे उक्तानुपातेन खण्डद्वयं प्रसाध्य तद्योगोऽभीष्टदेशे इष्टान्त्या लाघवात्साश्रिता । तत्र स्वदेशे उक्तरीत्या प्रथमखण्डं पलकर्ण- मितम् । द्वितीयस्योक्तरीत्या साधनार्थं स्वदेशे तत्खण्डानि साध्यानि । तानि तु निरक्षदेश- खण्डानि पलकर्णगुणानि द्वादशभक्तानि भवन्त्यत उपपन्नं वेदा भवा इत्यादिपद्योक्तम् । एवञ्चोक्तरीत्या द्वितीयखण्डं सायनार्कभुजात्स्वदेशे व्यङ्गुलात्मकमतोऽङ्गुलादिकरणार्थं षष्टिभक्तमिदं पलकर्णमितप्रथमखण्डे योज्यम् । स्वदेशे इष्टान्त्या । अत उक्तं तैः क्रान्ति- पाताढ्यरवेरित्याद्यर्धम् । यद्यपि प्रथमखण्डसाधने उक्तरीतिर्लघुभूताऽपि द्वितीयखण्डसाधने लाघवं न । प्रत्युत प्रतिदेशं षट्खण्डसाधनेन गौरवमतो निरक्षदेशे व्यङ्गुलात्मकं द्वितीयं खण्डं प्रसाध्योक्ता- नुपातेन स्वदेशे द्वितीयखण्डसाधनं लाघवाद्युक्ततरम् । तथाऽपि निरक्षदेशे द्वितीयखण्डस्य सावयवत्वेन । संभवात्पलकर्णगुने क्वचिद्गोमूत्रिकागुणनप्रयासभयेनोक्तं साधनं लघुभूतमेव ।