सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 550, कुल 723 में से
संदर्भ में पढ़ें४४८ गोलाध्याये न चैवं पलकर्णगुणनेन स्वदेशे खण्डकानां सावयवत्वसंभवाज्ज्यासाधने गोमृत्रिका- प्रयासदोषतावस्थ्यमिति वाच्यम् । अत्र ज्यासाधनप्रकारस्य प्रधानतयाऽनुद्देशाद्विकृतित्वे- नोद्देशाच्च दोषाभावात् । प्रकारद्वयेन तुल्यफलत्वात्स्वतन्त्रेच्छस्य नियोगानर्हत्वाद्वा । द्वादशाङ्गुलशङ्कोरियमिष्टान्त्या तदा त्रिंशदङ्गुलशङ्कोः केति गुणहरौ ३० । १२ । त्रिभिरपवर्त्य दिग्घ्नी कृताप्तैत्याद्युपपन्नम् । अत्र गणितक्रियागौरवात्षड्भिरपवर्तश्चतुरैरा- चार्यैर्न कृतः । एतेन कल्पतरौ पञ्चगुणार्यीकृत्युक्तं परास्तमिति ध्येयम् । अस्य त्रिंश- दङ्गुलशङ्कोर्यष्टिमितेष्टान्त्या यन्त्रावगतेष्टशङ्कोः केत्यनुपातसिद्धेष्टान्त्यासिद्धयर्थं पट्टिकायां दानं कृतमित्यग्रे सुबोधम् । न च द्वादशाङ्गुलशङ्कोर