भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 557, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 557

यन्त्राध्यायः ४५५ त्रि² × ३० यदि द्यु = प द्यु तो ──────── = परमाल्प यष्टि । ज्यालं × द्यु त्रि² × ३० त्रि² × ३० ────────── = ────────── = ज्या लं । परमाल्पयष्टि = ६० ज्यालं × द्यु ६० × प-द्यु त्रि² ज्या² ४५ ─────── = ज्यालं = ─────── = ज्या ल २ × पद्यु पद्यु क्योंकि त्रिज्यावर्गार्धपदं शरवेदांशकज्या भवति / त्रि² अर्थात् √ ─── = ४५° की ज्या होती है । \ २ अर्थात् ६६ अंशांशीय भूपृष्ठीय देशों की सीमा तक में उक्त फलक यन्त्र से काल- ज्ञान समीचीन होगा । आगे सदोष बताया गया है। ६६° अक्षांश से अधिक अक्षांशीय देशो में उक्त फलक यन्त्र त्रुटि पूर्ण हो सकता है ।।२७।। अथ यष्टियन्त्रमाह— त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र । दत्त्वाऽग्रां प्राक् पश्चाद्द्युज्यावृत्तं च तन्मध्ये ।।२८।। तत्परिधौ षष्ट्यङ्कं यष्टिनेष्टद्युतिस्ततः केन्द्रे । त्रिज्याङ्गुला निधेया यष्ट्यग्रान्तरं यावत् ।।२९।। तावत्या मौर्व्या यद्द्वितीयवृत्ते धनुर्भवेत्तत्र । दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणैवम् ।।३०।। वा०भा०--समायां भूमौ त्रिज्यामिताङ्गुलेन कर्कटेन वृत्तं दिगङ्कितं च कृत्वा तत्र प्राक् पश्चादग्रा गोलवशादुत्तरा दक्षिणा वा ज्यार्धवद्देया । अग्राग्रयो- र्बद्धं सूत्रमुदयास्तसूत्रमुच्यते । अथ तस्यैव वृत्तस्य मध्ये द्युज्यामितेन कर्कटेनान्यद्- वृत्तं कृत्वा नाडीषष्ट्याऽङ्कनीयम् । ततस्त्रिज्यामिताङ्गुलाया ऋजुयष्टेर्मूलं केन्द्रे लग्नं कृत्वाऽग्रमर्काभिमुखं तथा धार्यं यथा यष्टिर्नष्टच्छाया स्यात् । ततः प्राच्यां दिशि त्रिज्यावृत्ते यदग्राग्रचिह्नं तस्य यष्ट्यग्रस्य च मध्यमृजुशलाकया मित्वा सा शलाका द्युज्यावृत्ते जीवावद्देया न ज्यार्धवत् । ततः शलाकाग्रयोर्मध्ये धनुषि यावत्यो घटिकास्तावत्यस्तदा दिनगता ज्ञेयाः । एवं पश्चिमाग्राग्रयष्ट्यग्र- योर्मध्ये शलाकया दिनशेषा ज्ञेयाः । दिनशेषोनं दिनमानं दिनगतनाड्यो भवन्ति । यतस्तदेक्यं दिनमानम् । अत्रोपपत्तिर्गोलयुक्त्यैव । यष्टिस्त्रिज्या । यद्भुवि वृत्तं लिखितं तत् क्षिति- जम् । तत्र पूर्वतः पश्चिमत्तश्चांग्रा । अग्राग्रयोरुपरिगता रेखोदयास्तसूत्रम् ।