भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 558, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 558

अग्राग्र उदितो रविर्यथा यथाऽहोरात्रवृत्तगत्योपरि गच्छति तथा तथा केन्द्रे निवेशितमूलाया यष्टेरग्रे भ्राम्यमाणे यष्टिर्नष्टद्युतिः स्यात्। यतो यष्ट्यग्रे रविः। अग्राग्रदर्कं यावदहोरात्रवृत्ते यावत्यो घटिकास्तावत्यो दिनगता भवन्ति। तत्राऽऽकाशे द्युज्यावृत्तं लेखितुं नाऽऽयाति। अतोऽग्रायष्ट्यग्रयोरन्तरं शलाकया मित्वा गृहीतम्। ततो भुवि लिखिते द्युज्यावृत्ते तया शलाकया ज्यारूपया धनुषि घटिकाज्ञानं युक्तियुक्तम् ॥२८॥२९॥३०॥ मरीचिः—अथावसरसंगत्या यष्ट्यन्त्रात्कालज्ञानमार्याद्वयेनाऽऽह—त्रिज्याविष्कम्भा- र्धमिति। समभूमिभागेऽभीष्टप्रदेशे केन्द्रं प्रकल्प्य। त्रिज्याविष्कम्भार्धं त्रिज्यामितं व्यासार्धं यस्यैतादृशम्। त्रिज्यामितेन व्यासार्धेनोल्लिखितमित्यर्थः। वृत्तं दिगङ्कितं दिक्साधना- वगतपूर्वादिक्चतुष्टयाङ्कितम्। यद्यपि समनन्तरोक्ताग्रादानार्थं पूर्वापरादिशोरङ्कनमाव- श्यकं न दक्षिणोत्तरदिशोरिति साधारण्येन दिशामङ्कनमुक्तमयुक्तं तथाऽपि पूर्वापरदिक्स्था- नयोः शुद्धत्वमवगमाय दक्षिणोत्तरदिशोरप्यङ्कनमावश्यकमिति ध्येयम्। कृत्वा संपाद्य। तत्र तस्मिन् वृत्ते। अग्रां वर्तमानदिनजामग्राम्। प्राक्पश्चात्। पूर्वस्थानादपरस्थानाच्च पूर्वापरसूत्रादर्धज्याकारां दत्त्वा। उत्तरगोले उत्तरदिक्चिह्नाभि- मुखां दक्षिणगोले दक्षिणदिक्चिह्नाभिमुखां रेखां संपादयेत्यर्थः। तन्मध्ये। तस्य त्रिज्या- व्यासार्धोल्लिखितवृत्तस्य मध्ये। अन्तर्विभागे तत्केन्द्रं केन्द्रं प्रकल्प्येति तात्पर्यार्थः। द्युज्या- वृत्तं वर्तमानदिनद्युज्यामितेन व्यासार्धेन संबद्धवृत्तमित्यर्थः। चकारादुल्लेख्यम्। तत्। द्युज्यावृत्तम्। परिधौ परिधिस्थाने। एतेन द्युज्यावृत्तान्तर्विभागनिरासः सूचितः। षष्ट्यङ्कं षष्टिभागैः समैर्घटिकारूपैरङ्कितं कार्यमित्यर्थः। ततोऽनन्तरं यष्टिर्ऋज्वी शलाका त्रिज्यामिताङ्गुलपरिमिता। नष्टद्युतिः। छाया- भावो यथा स्यात्तथेत्यर्थः। केन्द्रे निधेया। वृत्तमध्ये मूलं कृत्वा सूर्याभिमुखाग्रा धार्येत्यर्थः। ततोऽनन्तरम्। यष्ट्यग्राग्रान्तरम्। धृतयष्टित्रिज्यावृत्तदत्ताग्रयोरग्रे तयोरन्तरं यावत्। ऋजुसूत्रम्। तदग्रयोर्धृतं यन्मितं भवति तावत्या तत्सूत्रमितया मौर्व्या संपूर्णज्यया। नार्धज्यया। द्वितीयवृत्ते। द्युज्यावृत्ते इत्यर्थः। एवं प्रागपराग्राग्रहवशात्। क्रमेण प्राक्पश्चात्। पूर्वापरचिह्नावधिकक्रमदत्तज्याव- धिना वृत्तस्य पूर्वापरभागयोरित्यर्थः। यत् वृत्तपरिध्यैकदेशरूपं धनुः सम्पूर्ण वृत्तपरिध्य- र्धन्तर्गतं वा न त्वर्धं भवेत्। तत्र तादृशधनुषि या नाड्यस्ता दिनस्य गताः शेषाद्वापूर्वा- परधनुः। क्रमेण भवन्ति। अत्रोपपत्तिः—त्रिज्याव्यासार्धेन यद्भुवि वृत्तं लिखितं तत्क्षितिजवृत्तानुकल्पम्। पूर्वापरस्थानादग्रांशान्तरेण गोलवशात्सूर्यस्योदयास्तसंभवाद्दिगङ्किते वृत्तेऽग्रा पूर्वापरसू- त्रादर्धज्याकारा पूर्वापरचिह्नाभ्यामुदयास्तस्थानज्ञानार्थं दत्ता। तत उदयस्थानादर्केऽहोरात्र- वृत्ते उपरि यथा गच्छति तथाऽर्कौदयचिह्नान्तराले द्युरात्रवृत्ते दिनगतघटिकाः। अर्का-