सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 562, कुल 723 में से
संदर्भ में पढ़ेंयोर्यावदन्तरं शङ्कुतलयोरपि तावदेवान्तरं भवति । 'तच्छङ्कुतलं कल्पितम् २ । कस्य । शङ्कूच्छ्रयान्तरतुल्यस्य शङ्कोः ६ । यद्यस्य शङ्कोरिदं शङ्कुतलं तदा द्वादशाङ्गुलस्य किमिति । फलं पलभा ४ । अथवा पलभाप्रमाणं या १ । यदि द्वादशाङ्गुलस्य शङ्कोः पलभा शङ्- कुतलं तदा त्रिंशदङ्गुलस्य षट्त्रिंशदङ्गुलस्य वा किमिति १२ । या १ । ३० ।। १२ । या १ । ३६ । एवं ज्ञाते शङ्कुतले पृथक् पृथक् या ३० । १२ या ३६ । एते स्वस्वयाभ्यभुजाभ्यां रहिते जाते उत्तरे अग्रे या ३० रू ६० । या १२ १२ ३६ रू ८४ । अनयोरग्रयोः समीकरणे छेदगमे च क्रियमाण इयं क्रियोपपद्यते । १२ मरीचिः-अथ ज्ञाताग्रायाः शुद्धयर्थं पलभाज्ञानं प्रकारान्तरेण पलभाज्ञानं च वक्ष्य- माणां प्रतिज्ञां च शिष्यावधानार्थमाद्यद्वयेनाऽऽह-शङ्कूदयास्तेति । अभीष्टकाले यत्र शङ्कुमूलं पूर्वोक्तप्रकारेण दिनगतशेषक्रमेण सूर्योदयकालिकां सूर्यास्त- कालिकां वा ज्ञाताग्रां त्रिज्यावृत्ते पूर्वापरचिह्नाभ्यामुक्तरीत्या दत्त्वा तदग्रयोः सक्तं रेखा- सूत्रमुदयास्तसूत्रम् । तयोर्याम्योत्तरमङ्गुलात्मकं यन्मितमन्तरं द्वादशगुणम् । अभीष्टकालि- कावलम्बरूपशङ्कुमानेन भक्तं फलं तद्देशे पलभा । अस्या अक्षकर्णं प्रसाध्यानुपातानीता- ग्रासमत्वेन ज्ञाताग्रायाः शुद्धिर्वधेयेति भावः । ननुदयास्तकाले व्यवधानादिना वृत्तेऽर्कसंस्थानज्ञानाभावादुक्तरीत्या पुनः कालसाधनम- शक्यमित्यतोऽग्राज्ञानार्थं पलभाज्ञानमाह-भुजयोरिति । कस्मिंश्चिद्दिवसेऽभीष्टकालद्वय- संबन्धिभुजौ ज्ञेयौ । तयोर्भिन्नदिशयोः क्रमेणान्तरमैक्यं वा द्वादशगुणम् । भुजद्वयसंबन्धि- कालद्वयज्ञातालम्बरूपशङ्क्वोरन्तरेण भक्तं पलभा स्यात्तस्या अनुपातेन क्रान्तिज्यातोऽग्रा- ज्ञानं स्यादेवेति कालसाधनं नाशक्यमिति भावः । नन्वस्य पलभाज्ञानप्रकारस्य भुजाधीनस्य भुजाज्ञानात्कथं संभव इत्यत आह-प्राग- पराशानरान्तरमिति । पूर्वापरसूत्रावलम्बरूपशङ्क्वोर्र्याम्योत्तरं स भुजः । तथा च वृत्ते दिगङ्कनात्पूर्वापरसूत्रज्ञानान्नष्टच्छायायष्ट्यग्रावलम्बरूपशङ्कुमूलज्ञानाच्च । तयोर्याम्योत्त- रान्तरप्रदेशस्य भुजत्वावगमादुक्तरीत्या कालद्वये भुजं शङ्कुं च ज्ञात्वोक्तप्रकारेण पलभाज्ञानसंभव इति भावः । अथ तथाऽपि वृत्ते दिक्साधनस्य भुजाज्ञानादसम्भवादन्योन्याश्रयदोषाइभुजाज्ञानमिति पलभाज्ञानस्योक्तप्रकारेणासंभव इत्यस्वरसात्प्रकारान्तरं विवक्षुस्तावत्तत्प्रतिजानीते- यष्ट्येति । नष्टच्छा[य]या यष्ट्या कस्मिंश्चिद्दिवसे । शङ्कुत्रितयम् । भिन्नभिन्नाभीष्टकाल- त्रितयेऽवलम्बरूपं शङ्कुं प्रत्येकमेवं शङ्कुत्रितयमित्यर्थः । एककाले तत्त्रितयासम्भवात् ।