सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 566, कुल 723 में से
संदर्भ में पढ़ें४६४ गोलाध्याये संपातादुक्तदिशा वृत्तपरिधिस्थानं पश्चिमा । पूर्वापरचिह्नावधिरेखा वृत्ते पूर्वापरसूत्र- मित्युक्तप्रायम् । अत्रोपपत्तिः—शङ्क्वग्रेऽहोरात्रवृत्तसंबन्धात्प्रथमतृतीयशङ्क्वग्रयोर्बद्धमेकं सूत्रं संपाता- दुक्तदिश्यहोरात्रवृत्तप्रदेशस्य तच्छङ्कद्वयाग्रान्तरालस्थितपूर्णचापस्य संपूर्णज्या । मध्यम- शङ्क्वग्रात्सूत्रद्वयमुभयतस्तत्सूत्रस्पर्शसंपादनेन भूलिखितवृत्तपरिधौ स्वमार्गानुरोधेन नेयम् । वृत्तपरिधौ पूर्वापरभागयोर्यत्र सूत्रं लग्नं तत्र ग्रहोदयास्तसंभवाच्छङ्क्वग्रयोस्तात्कालिकयोर्भू- संलग्नतया तदहोरात्रवृत्तसंबन्धात्तच्चिह्नावधिरेखोदयास्तसूत्रम् । सूत्रद्वयस्याहोरात्रवृत्तस्थि- संपूर्णज्याकारेणोदयास्तचिह्नमार्गपरिवृद्ध्यर्थमेव प्रथमतृतीयशङ्क्वग्रबद्धतिर्यक्सूत्रसंस्पर्शेऽ- प्यावश्यकोऽन्यथा तदसिद्धेः । यद्यप्यहोरात्रवृत्तभेदादिदमसंगतम्, तथाऽप्येकस्मिन्दिने स्वल्पान्तरत्वादेकद्युरात्रवृत्ता- भ्युपगमाद्युक्तमेत एव दिनान्तरसंबद्धशङ्कुभ्य उक्तप्रकारेण नोदयास्तसूत्रसिद्धिः । वृत्तकेन्द्रस्य पूर्वापरसूत्रमध्यत्वेनावगमादुदयास्तसूत्रकेन्द्रयोर्याम्योत्तरमग्रा । पूर्वापरोदयास्तसूत्रयोरन्तरा- लेऽग्रात्वात् । अत एवोदयास्तसूत्राद्यन्तप्रदेशाभ्यामग्रान्तरेण प्राच्यपरे इत्यादि सुगमतरम् ।।३४।।३५।। अथाऽऽर्यया पलभाज्ञानं तच्छुद्ध्यर्थं क्रान्तिज्यानयनं च प्रसङ्गात्तच्छुद्ध्यर्थदोर्ज्यानयनं चाऽऽह-प्राग्वदत इति । अतः । उदयास्तसूत्रज्ञानात् । प्राच्यपरसूत्रज्ञानाद्वा । प्राग्वत् । क्रमेण शङ्कूदयास्त- सूत्रान्तरमर्कगुणमित्यादिना प्रागपराध्वान्तरं बाहुरित्यनेन भुजद्वयज्ञानाद्भुजयोरेकान्य- दिशोरित्यादिना वा पलभा स्यात् । यद्यप्यस्याः शुद्धिर्द्वादशकोटावक्षकर्णः कर्णस्तदा क्रान्तिज्याकोटौ कः कर्ण इत्यनु- पातानीता प्रायः पूर्वविगताग्रासत्त्वेन तथाऽपि पलभायास्तदग्रानुरोधेन साधितत्वात्तस्याः सैव सिद्ध्यतीति शुद्धौ संशयसंभवात्पलभाशुद्ध्यवगमार्थं क्रान्तिज्यानयनमाह—सच्छ्रुति- विहृतेति । पूर्वविगताग्रा द्वादशगुणित । पलभावर्गवेदेन्द्रयुतिमूलरूपपलकर्णेन भक्ता फलं क्रान्तिज्या । तथा च द्युज्यावृत्तनिमित्तं पूर्वं क्रान्तिज्याया आनीतत्वात्तत्समैतत्क्रान्ति- ज्यात्वेन पलभायाः शुद्धिरवधेयेति भावः । ननु पूर्वविगतक्रान्तिज्याशुद्धिनिर्णयेऽस्याः शुद्धिरिति पूर्वं क्रान्तिज्याशुद्धिनिर्णयः कथमवगत इत्यतः क्रान्तिज्यायाः सायनार्कभुजज्यानयनमाह—त्रिज्याघ्नीति । क्रान्तिज्या त्रिज्यया गुणिता चतुर्विंशत्यंशज्यया भक्ता फलं सायनार्कभुजज्या । तथा च सायनार्क- भुजज्यायाः क्रान्तिज्यासाधनात्तत्क्रान्तिज्याया वैपरीत्येन सायनार्कभुजज्यासंवादेन शुद्धि- निर्णयोऽस्त्येवेति भावः । अत्रोपपत्तिः—शङ्कतलज्ञानाद्भुजयोर्ज्ञानाद्वा प्रागुक्तप्रकारेण पलभा सिद्ध्यत्येवेति किं चित्रम् । पलकर्णे द्वादशकोटिस्तदाऽग्राकर्णे का कोटिरित्यनुपातेन क्रान्तिज्या । परम-