भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 579, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 579

यन्त्राध्यायः ४७७ अथ केवलाग्रवेधेनाऽऽह— अग्रं विद्ध्वोर्ध्वस्थः पुनरुपविष्टश्च तद्विध्येत् ॥४५॥ निजभुजभक्ते कोटी तदन्तरहृतो दृगौच्च्यविश्लेषः । भूमिर्वंशौच्च्यमतः पृथक् पृथक् पूर्ववज्ज्ञेयम् ॥४६॥ अत्र प्रश्नः— ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्रमात्रं सखे वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते । अत्रैव त्वमवस्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं मन्ये यन्त्रविदां वरिष्ठपदवीं यातोऽसि धीयन्त्रवित् ॥४७॥ उदाहरणम्— इष्टयष्ट्योर्ध्वसंस्थेन वंशाग्रं विध्यता भुजः । दृष्टश्चतुष्करोऽथान्ययष्ट्या खाङ्काङ्गुलः सखे । निविष्टेन तथा कोटिरङ्गुलं वेधयोरपि । आत्मवंशान्तरं ब्रूहि वंशो