सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 580, कुल 723 में से
संदर्भ में पढ़ें४७८ गोलाध्याये रुदाहरणप्रदर्शनार्थमात्मवंशात्तरं नोद्दिष्टम् । अन्यथा षट्करा इत्याद्यर्योद्दिष्टस्य व्यर्थतापत्ते रिति भावः । यथा मूलवेधे भुजः १४४ । दृष्टद्युच्छ्रायः ६८ गुणितः ९७९२ मूलवेधकोट्या १७ भक्तः फलमात्मवंशात्तराङ्गुलानि ५७६ । अग्रवेधकोट्या ८७ गुणितानि ५०११२ । अग्रवेधभुजेन ११६ भक्तानि । फलं वंशोच्छ्रायः ४३२ दृष्टद्युच्छ्राय ६८ युतो वंशमान- मङ्गुलात्मकं ५०० । ४६ । ३० ॥४३॥४४॥ ननु व्यवधानान्मूलवेधासंभवेनाऽऽत्मवंशात्तरा(र)ज्ञान(ना)संभवात्कथमग्रमात्रदर्शनेन वंशमानज्ञानं स्यादित्यत आर्योत्तरार्धेनाऽऽशंया चाऽऽह—अग्रं विद्ध्वेति । ऊर्ध्वस्थोऽग्रं विद्ध्वा भुजकोटी एकत्र स्थापयेत् । पुनर्द्वितीयवारमुपविष्टः संस्तदग्रं विध्येत् । चकारात्तत्संबन्धिभुजकोटी अपरत्र स्थापयेदित्यर्थः । ततः स्वस्व भुजेन स्वस्व- कोटी भक्ते कार्ये । फलयोरन्तरेण भक्तो दृगोच्च्यविश्लेषः । ऊर्ध्वस्थोपविष्टसंबन्धिदृगुच्छ्रा- ययोर्वियोगः । फलमात्मवंशात्तरभूमानम् । अतः । भूमानात् । पृथक्पृथक् ऊर्ध्वस्थोपविष्ट- वेधसंबन्धिभुजकोटिभ्याम् । पूर्ववत् । भूमानं कोटिसंगुणमित्यादिना प्रत्येकं वंशोच्छ्यं वंशमानतुल्यं ज्ञेयम् । अत्रोपपत्तिरेकवर्णसमीकरणेन आत्मवंशात्तरभूमानंया १ अस्मादूर्ध्वस्थवेधसिद्धकोटिस्तदा यावत्तावन्मितात्मवंशात्तरभूतुल्यभुजेन केत्यनुपातेनोर्ध्वस्थवेधसिद्धभुजेनोर्ध्वस्थवेधसिद्धकोटेः फलं यावत्तावद्गुणमूर्ध्वस्थदृगुच्छ्रायादुपरि वंशखण्डं याफ १ । एवमुपविष्टवेधसिद्धभुजभक्त- कोटे. फलं यावत्तावद्गुणमुपविष्टदृगुच्छ्रायादुपरि वंशखण्डं याफ १ एते वंशखण्डे स्वस्व- दृगुच्छ्राययुते वंशमानतुल्ये भवतः । वंशस्यैकत्वात् । अतस्तुल्ययोः पक्षयोः शोधनार्थं न्यासः । या० फ १ दृ १ । अत्रोर्ध्वस्थदृगोच्छ्यादुप- विष्टदृगोच्छ्यस्य न्यूनत्वनिर्णयादूर्ध्वं—या० फ १ दृ १ । स्थफलादुपविष्टफलमधिकमे- वान्यथा स्था(सा)म्यासम्भव इति ध्येयम् । एकान्यक्तमित्यादिना तदन्तरहृतो दृगोच्च्य- विश्लेषो भूमानमुपपन्नम् । अस्मादग्रवेधकोटिभुजाभ्यां वंशोच्छ्रायज्ञानं प्रागुक्तमेव । भूमानं कोटिसंगुणं भक्तम् । दोष्णा वंशोच्छ्राय इत्यनेन स्वस्वभुजभक्तकोटी भूमानगुणिते वंशोच्छ्रायौ । तयोरन्तरं वंशोच्छ्रायान्तरम् । तत्र लाघवात्स्वभुजभक्तस्वकोट्योरन्तरमेव भूमानगुणितं कृतं समत्वात् । तथा च भूमानगुणितं स्वभुजभक्तस्वकोट्योरन्तरं वंशोच्छ्रायान्तररूपमितभूमाने सिद्धम् । कथमम्यथा भूमानगुणितं तद्वंशोच्छ्रायान्तरं संगच्छत इति । अतो वंशोच्छ्र्यभेदेऽपि भूमानभेदाभावाद्वंशोच्छ्रयान्तरतुल्यवंशेऽपि भूमानं तदेव । तथा दृष्टद्युच्छ्रायभेदेऽपि भूमाना- भेदाद्दृष्टद्युच्छ्रायान्तरतुल्यदृष्टद्युच्छ्राये भूमानं तदेवेति रूपमितभूमानसंबन्धिवंशोच्छ्रायान्त- रेण स्वभुजभक्तस्वकोट्योरन्तरमितेन स्वरूपं भूमानमात्मवंशान्तरस्थितं लम्यते तदा दृष्ट- द्युच्छ्रायान्तरेण किमित्यनुपातेन तदनन्तरहृतो दृगोच्च्यविश्लेषो भूमिरित्युपपन्नम् । वंशमूलवेधसंबन्धेन भुजकोट्योरज्ञानादग्रवेधसंबद्ध भुजकोटिभ्यां संबन्धाभावेन दृष्टद्यु-