भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 581, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 581

यन्त्राध्यायः ४७९

च्छायाहताद्बाहोः कोट्या लब्धमिति पूर्वोक्तेन भूमाना(न)सिद्धिरिति केचित् । तन्न ।

वंशोच्छायदृष्ट्युच्छ्रायाभ्यां प्रत्येकं सम्बन्धस्यैतत्तुल्यत्वादुक्तरीत्या भूमानसिद्ध्यापत्तेः ।

अन्तरानुपातासाधारणसम्बन्धानुक्तेश्च ।

लक्ष्मीदासास्तु व्यवधानाभावेन समग्रवंशदर्शनेन पूर्वोक्तप्रकारविषयेऽपि वंशाग्रतदा-

सन्नाधःप्रदेशवेधाभ्यां ज्ञातभुजकोटिभ्यां वेधावधिवंशोच्चययोरेकवंशे ज्ञानप्रकारान्तरबोधक-

मिदं पद्यं पाठन्तरभिन्नम् तद्यथा-

अग्रं विद्ध्वोर्ध्वस्थः पुनरपि तदधस्तथा विदध्येत ।

निजभुजभक्ते कोटी तदन्तरहते दृगौच्च्यविश्लेषः ॥

भूमिविश्लेषहृता पृथक्पृथक्पूर्ववज्ज्ञेयमिति ।

पूर्ववद्द्रंशतलमग्रं च विद्ध्वाऽऽत्मवंशान्तरभूमानं भुजकोटी विज्ञाय पुनरूर्ध्वं तदधो वा

दृग्विणिधाय वंशाग्रं विध्येत् । तत्रापि भुजकोटी ज्ञात्वा भुजयोरन्तरेण कोटी गुणनीये ।

स्वस्वभुजाभ्यां भाज्ये । लब्धं दृगौच्च्यविश्लेषः स्यात् । निजवंशान्तरभूद्द्गौच्च्यविश्लेषेण

गुणनीया ततः पृथक् पृथक् पूर्ववज्ज्ञेयम् ।

एतदुक्तं भवति । विश्लेषहता भूर्भुजान्तरेण भक्ता वंशोच्छ्रायः पृथक्पृथक् भवती-

त्यर्थः । यथा-अग्रवेधे भुजः ४ कोटि ६ । ५५ । मूलवेधसिद्धभू-५ जकोटि-४ भ्यां दृष्ट्यु-

च्छ्रायाद्भू १०० मानं १२५ अनेनाग्रवेधकोटि-६ । ५५ । गुणिता ८६४ । ३५ भुजेन ४

भक्ताऽऽप्तं २१६ । ८ । वंशीच्छ्रायः । अथाग्राधोभागे विद्धे भुजः ४ । ३० । कोटिः ६ ।

३७ । एतद्गुणं भूमानं ८२७ । ५ । भुजेनाऽऽ ४ । ३० । प्तं १८३ । ४८ । वंशो-

च्छ्रायः । दृगुच्छ्रायेण १०० युतो वंशामानवे धावध्येकवंशे ३१६ । ९ । २८३ । ४८ ।

अथाग्रतरासन्नाधःप्रदेशवेधसिद्धभुजयो ४ । ४ । ३० । रन्तरेण० । ३० । हते कोटी ।

तत्राऽऽद्या ३ । २८ । अपरा ३ । १९ । स्वभुजाभ्यां ४ । ४ । ३० । क्रमेण भक्ते दृगौ-

च्च्यान्तरे ९० । ५२ । ७ । ४४ । आभ्यां भूमाने १२५ गुणिते १०८ । ८२ । भुजा-

न्तरेण ० । ३० । भक्ते । स्वकीयो वंशोच्छ्रायौ । २२६ । १८४ । दृष्ट्युच्छ्राययुतौ

पूर्ववत् । तेनाऽऽद्यवेधे ३१६ । अन्तरवेधे २८४ वंशदैर्घ्ये वेधावधि ।

अत्रोपपत्तिः-यदेताभ्यां भुजाभ्यामेते लम्बोच्छ्रायान्तररूपे कोटी तदा भुजान्तररूपेण

भुजेन किमिति । फलं दृगौच्च्यविश्लेषात्मिका कोटिः । अथ द्वितीयोऽनुपातः । यदि भुजा-

न्तररूपेण भुजेन दृगौच्च्यविश्लेषः कोटिस्तदा स्ववंशान्तरभुजेन किमिति । फलं वंशोच्छ्रा-

यरूपा कोटिरिति सर्वमा(म)नवि(व)द्यमित्याहुस्तन्न । ग्रन्थकृद्भाष्यविरोधात् ।

किंच । अग्रतदधःप्रदेशवेधसम्बन्धिदृष्ट्युच्छ्राययोरन्तरस्यैकत्वेन निर्णयात्स्वस्वभुज-

कोटिभ्यामानीतयोर्दृष्ट्युच्छ्रायान्तरयोर्द्वैधानुपपत्तिः ।

न च मूलवेधसिद्धदृष्ट्युच्छ्रायेण तत्रयाणां सम्भवान्मूलदृष्ट्युच्छ्रायात्प्रत्येकं तयो-

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या) · पृष्ठ 581, कुल 723 में से · BharatKosha