सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 582, कुल 723 में से
संदर्भ में पढ़ें४८० गोलाध्याये दृष्टद्युच्छ्राययोरन्तरयोर्द्वैधसंभव इति वाच्यम् । वंशोच्चानयने मूलदृष्टद्युच्छ्रायस्य संब- न्धाभावेनासङ्गतत्वादिति दिक् ।।४५।।४६।। ननु बिना मूलदर्शनमग्रदर्शनं न भवत्येवेति पूर्वप्रकारेणैव वंशोच्चज्ञानसंभवादुप- कल्पितप्रकारो विषयाभावादावश्यको नेति मन्दाशङ्काया [निरा]करणाय प्रश्नं शार्दूल- विक्रीडितेनाऽऽह-ऊर्ध्वस्थस्येति । यस्य वंशस्योर्ध्वस्थस्यातिदीर्घस्याग्रमात्रम् । मात्रपदेनाग्रव्यतिरिक्तसंपूर्णवंशनिरासः । हे सखे मित्र । अनेन सुहृद्भावेन पृच्छयते नेर्ष्यया । अन्यथोपेश्या तदुत्तरदानाप्रसङ्ग इति सूचितम् । सुसमे देशे । समानभूप्रदेशान्तरेऽज्ञातमाने समालोक्यते सम्यग्दृश्यते । ननु संपूर्णदर्शने किंवाग्रक्रमत आह—गृहादिभिरिति । गृहं मन्दिरम् । आदिपदाद् वृ