सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 585, कुल 723 में से
संदर्भ में पढ़ेंHere is the complete line-by-line transcription of the page:
यन्त्राध्यायः ४८३ नन्वत्राऽऽगतो वंशोच्छ्रायो दृष्ट्युच्छ्राययुतो वंशमानमिदं प्रत्यक्षविरुद्धमत आह— तदिति । जलप्रतिबिम्बितागतवंशोच्छ्रायमानं प्रतिबिम्बिताग्रवेधसंबन्धिदृष्ट्युच्छ्रायमाने- नोनम् । तुकाराद्वंशमानं स्यात् । तथा च दृष्ट्युच्छ्राययुतो सहजसिद्धोऽविसंवादः । दृगोच्च्यवर्जितस्यात्र विशेषत्वात्तथा करणे संवाद इति भावः । जलप्रतिबिम्बिताग्राद्वस्तुदैर्घ्यमानं यष्टिनिरपेक्षेण लाघवादाह—किंचेति । जलप्रति- बिम्बिताग्रदर्शनाद्वस्तुदैर्घ्यमानज्ञानार्थं यष्ट्या किं कार्यं यष्टेरप्यावश्यकता नास्तीति भावः । तर्हि तन्मानज्ञानं कथं स्यादत आह—वेति । तन्निरपेक्षप्रकारान्तरेण तज्ज्ञानसंभवा- दिति भावः । ननु यष्टेः साधकक्षेत्रार्थमेव प्रयोजनमिति साधकक्षेत्राभावात्प्रकारान्तरेण कथं तत्सिद्धि