भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 584, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 584

४८२ गोलाध्याये अत्रैव त्वमवस्थितो यदि बदस्यस्यान्तरं चोच्छ्रयं त्वां सर्वज्ञमतीन्द्रियज्ञमनुजव्याजेन मन्ये भुवि ॥४९॥ उदाहरणम्— दृष्टा चेत् त्र्यङ्गुला कोटिर्बाहुश्च चतुरङ्गुलः । ऊर्ध्वस्थेनोपविष्टेन बाहुरेकादशाङ्गुलः ॥ कोटिरष्टाङ्गुला तोये वंशाग्रं विध्यता सखे । त्र्येकहस्तौ दृगुच्छ्रायौ वंशौच्च्यं चान्तरं वद ॥ वा० भा०—ऊर्ध्ववेधे कोटिः ३ । भुजः ४ । उपविष्टवेधे कोटिः ८ । भुजः ११ । दृष्ट्युच्छ्रायौ क्रमेण । ७२ । २४ लब्धमात्मवंशान्तरं हस्ताः ८८ । वंशौच्च्यं हस्ताः ६३ । अत्रोर्ध्ववेधेऽन्योपविष्टवेधे वाप्या यष्टिरिति । अत्रोपपत्तिः । अत्र भित्तेः सुसमे पार्श्वे तिर्यग्रेखा दीर्घा कार्या । सा किल जलसमा भूः । तत्रैकस्मिन्नेकान्तप्रदेश ऊर्ध्वरेखा कार्या । स किल वंशः । वंशमूला- दधोगामिनी वंशप्रमाणैवान्या रेखा कार्या तत् किल वंशप्रतिबिम्बम् । अथ भूरेखाया उपर्यन्यप्रान्ते दृगुच्छ्रिताऽन्या रेखा कार्या । दृगुच्छ्रायात् प्रतिबिम्बवंशा- ग्रगामिनी कर्णरेखा कार्या । सा कर्णरेखा भूरेखायां यत्र लग्ना तत्रस्थे जले वंशाग्रं द्रष्टा पश्यति । जलादुभयतो द्वे त्र्यस्रे भवतः । तत्र जलवंशमूलयोरन्तरं बाहुः । प्रतिबिम्बवंशः कोटिः । अधः कर्णखण्डं कर्णः । अन्यदात्मजलान्तरं बाहुः । दृष्ट्युच्छ्रायः कोटिः । ऊर्ध्वकर्णखण्डं कर्णः । एते त्र्यस्रे परस्परानमते । यष्टि- वेधेन ये भुजकोटी ते अप्येतदनुसारे । अत उक्तं एवं तोयेऽपीति । किन्त्वत्र यदौच्च्य- मागच्छति तद्दृगोच्छ्येन हीनं कार्यम् । प्रतिबिम्बितस्याधोमुखत्वादृद्गोच्छ्येन सहाऽऽगच्छति । अतस्तदूनं कृतमिति सर्वमुपपन्नम् ॥४८॥४९॥ किम्वा यष्टेचेत्यस्योदाहरणम्— षडङ्कैरमरैस्तुल्यान्यङ्गुलान्यथवा क्रमात् । आत्मतोयान्तरं दृष्ट्वा वंशौच्च्यं चान्तरं वद ॥ वा० भा०—ऊर्ध्वस्थस्य जलान्तरम् ९६ । उपविष्टस्य जलान्तरम् ३३ । दृष्ट्युच्छ्रायौ ७२ । २४ । लब्धं तदेव भूमानं हस्ताः ८८ । वंशौच्च्यं हस्ताः ६६ । इति धीयन्त्रम् ॥ मरीचिः—अथ जलस्थप्रतिबिम्बाद्वस्तुदैर्ध्यमानज्ञानमुद्गीत्याऽऽह—एवं तोयेऽपीति । तोये जले । अपिशब्दात्प्रतिबिम्बिताग्रात्प्रतिबिम्बितस्य । औच्च्यं वंशोच्छ्रायो नतु वंशमा- नम् । एवमग्रं विद्ध्वोर्ध्वस्थ इत्यादिना ज्ञेयम् ।