सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 589, कुल 723 में से
संदर्भ में पढ़ेंयन्त्राध्यायः ४८७ मरीचिः—अथाऽऽर्याषड्भिर्दुगीत्या च प्रतिज्ञातस्वयं वहयन्त्राण्याह—लघुदारुजस- मचक्र इति । लघुदारुजसमचक्रे । ग्रन्थिकीलस्फाटनादिदोषरहितस्य लघुभूतकाष्ठस्य निर्मितं समपार्श्वभागनेमिकं भ्रमसिद्धं मण्डलम् । नत्वाकाशावकाशसहितं वृत्तमित्यर्थः । समसुषि- राराः । तुल्यच्छिद्रा आरा काष्ठादिघटिताश्चक्रमानुरुद्धकीलकाः । सर्वेषां कीलकानां तुल्य- तोल्यानां तुल्यप्रमाणानां चामूलाग्रावकाशरूपच्छिद्राणि तुल्यानि कार्याणीत्यर्थः । किंचिद्वक्राः कीलका ऋजवो न कार्याः किंत्वनतिवक्राः । नेम्याम् । चक्रार धारायाम् । समान्तरास्तुल्यान्तराला योज्याः । एकतरनेमिपरिधौ प्रोताः कार्याः नतु चक्रनेमिमध्य- परिधौ । ततस्तासामाराणामुक्तरूपाणाम् । पृथक्प्रत्येकम् । सुषिरस्य छिद्र