भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 594, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 594

४९२ गोलाध्याये परिपूर्णघटीपात्रगुरुताभिर्नामितं स्वयमेव भ्रम्येतादृशं यन्त्रं कुतो नोक्तमित्यत आर्याया- ऽऽह-यदधोरन्ध्रनलमिति । अधोरन्ध्रनलम् । अधोभागे छिद्रं सूक्ष्मं यस्यैतादृशो नलो यस्यैतादृशं स्वयं‌वहं चक्रम् । यत्पूर्वं त्वयोपपादितं तदिदं यन्त्रं ग्राम्यम् । न चमत्कारकरम् । कुत इत्यतः कारणमाह-सापेक्षत्वादिति । नलकस्थसंपूर्णजलस्रवानन्तरं नलको जलेन पुनः पूर्णः कार्य- श्चक्रभ्रमाथर्मन्यथा तदसंभव इत्यपेक्षया तदसहितं मापेक्षम् । तस्य भावः सापेक्षत्वं तस्मादित्यर्थः । मध्ये मध्ये जलप्रक्षेपं नलके आवश्यकमिति पुरुषकृत्यपेक्षत्वाच्चमत्कारं नोत्पादयत्यतो लघूभूतं भवत्कल्पितमुपेक्ष्य स्वकल्पितमनतिगुरुभूतमुक्तमिति भावः । ननु ग्राम्याग्राम्यत्वान्पामुपेक्षापेक्षविषयेनत्व(यत्त्वेन)कल्पितयन्त्रे कुतः कृते इत्यत आह—चतुरचमत्कारकरीति । हि । यतः । चतुराणाम् । सुबुद्धीनाम् । चमत्कारः समीचीनयुक्त्येदं भ्रमितमिति मनस्यानन्दविशेषस्तं करोति । एतादृशी युक्तिः स्वयprefix-यन्त्रं भवति । ग्राम्येऽपि मन्दानां चमत्कारोत्पत्तेश्चतुरेत्युक्तम् । ग्राम्याचतुरचमत्कारकरो युक्तिर्यन्त्रं न भवत्यन्यथाऽति- प्रसङ्गापत्तिरतो यन्त्राध्याये त्वत्कल्पितमुपेक्ष्य स्वकल्पितं निरूपितमिति भावः ॥५७॥ केदारदत्तः—उक्त स्वयं‌वह, यन्त्र ग्राम्य यन्त्र कहते हुये— यह यन्त्र चमत्कार कारक नहीं होने से ऐसे यन्त्रों को ग्राम्य यन्त्र कहा गया है । क्योंकि नल में स्थापित सम्पूर्ण जल स्राव के अनन्तर पुनः नलिका में जल पूर्ति आवश्यक होती है, पुरुष द्वारा अनेक बार जल प्रक्षेप होते रहने से स्वयं वह की तरह यह यन्त्र चमत्कारिक यन्त्र नहीं कहा जा सकेगा । चतुरजनमन के लिये स्वयं वह स्वचालित यन्त्र ग्राम्य यन्त्र नहीं कहा जाता है ॥५७॥ एवं बहुधा यन्त्रं स्वयं‌वहं कुहकविद्यया भवति । नेदं गोलाश्रितया पूर्वोक्तत्वान्मयाऽप्युक्तम् ॥५८॥ वा० भा०—स्पष्टार्थमिदम् । अत्र भ्रमणं कालानुसारं स्वबुद्ध्या विधातव्य- मित्यध्याहार्यम् ॥५८॥ इति श्रीभास्करीये सिद्धान्तशिरोमणौ वासनाभाष्ये मिताक्षरे गोले यन्त्राध्यायः । मरीचिः—ननु-कुर्याद्रजोऽपि चैवं घटिकां जह्युर्यथेष्टकालेन । मेषादीनां युद्धं सूत्रे स्रक्ते भवेदुभयोः ॥ परिकल्पितकालाध्वनि युक्त्या योगो भवेद्वधूवरयोः । घटिकाऽङ्गुलाङ्कितं वा प्रस्रति मयूरः क्रमादुरगम् ॥ हन्ति मनुष्यः पटहं छादयति च्छादकस्तथा छाद्यम् ।