सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 595, कुल 723 में से
संदर्भ में पढ़ेंयन्त्राध्यायः ४९३ एवंविधानि यन्त्रा(ण्येवमनेकानि सिद्धानि) अनेन ग्रन्थेन लल्लोक्तानि सचमत्कृतिस्वयं- वहयन्त्राणि कथं नोक्तानीत्यत आर्ययाऽऽह—एवं बहुधा यन्त्रमिति । एवम् । उक्तपारदजलादिरीत्या । कुहकविद्यया । कपटयुक्त्या । बहुधा । अनेकम् । स्वयंवहम् । यन्त्रम् जात्यभिप्रायेणैकवचनम् । अनेकानि स्वयंवहयन्त्राणि भवन्तीत्यर्थः । यन्त्रं स्वयंवहमित्युक्तेन स्वयंवहानां कालादिज्ञापकत्वेन यन्त्रत्वायन्त्रप्रतिज्ञासिद्धेस्स्वयंवह- प्रतिज्ञापूर्वकमेव तन्निरूपितं नाप्रसक्तमिति स्फुटीकृतम् । तथा च स्वयंवहानामगणितत्वा- त्सर्वेषां निरूपणमशक्यमतो मया रीतिप्रदर्शनार्थं लघुभूतं प्रकारत्रयमुक्त्वा लल्लोक्तान्यु- पेक्षितानीति भावः । ननु तथाऽपि चमत्कारित्वान्नियतत्वात्तदुपेक्षा न युक्तेत्यत आह