सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 600, कुल 723 में से
संदर्भ में पढ़ेंवसन्तजमल्लिकाः । वसन्तकाले जाता मल्लिकावल्ल्यः । स्वकुसुमैर्निजोल्लासित पुष्पैर्दन्तोपमैर्मालतीं मालतीवल्लीम् । अवहसन्ति । मालत्या अवहासं कुर्वन्तीत्यर्थः । इवशब्दान्मल्लिकाः कुसुमविकासे मालतीमवहसन्तीत्युत्प्रेक्षालंकारः । कुतोऽवहसन्तीत्यतः कारणं मालतीविशेषणेनाऽऽह-मलिनामिति । मलयुक्तां शुष्कां गलत्पत्रां स्वपुष्पशोभारहितामिति यावत् । तथा च [यथा] श्रीमत्पुरुषवर्याणां कान्ता नवयौवनाः स्वकान्ताधिकप्रीति धारयन्त्योऽगणितचारुभूषणभूषिताः स्वसमाजे आगतां दरिद्रकान्तामवहसन्ति तथा मल्लिका मालतीमवहसन्तीति मल्लिकानां सिद्धं कान्तात्वमिति भावः । अत्र बहुवचनैकवचनाभ्यामेकस्या बहूपहासैरप्रतिभेत्यत एव मालतीं मलिनामिवे- त्युत्प्रेक्षाद्योतनार्थमवहसन्तीत्यग्रेऽपेक्षितोऽपीवशब्दा मलिनामित्यग्रे दत्तः । श्रीमत्कान्ताभिः स्वभूषणैर्भूषिताया अपि दरिद्रकान्तायाः स्वभूषणाभावजनितमनोमालिन्यं तथा मल्लिका- पुष्पैर्भूषिताऽपि मालती मलिनैवेति द्योतनार्थं स्वकुसुमैरिति पदं मल्लिकासंनिधानेऽपेक्षित- मपि मालतीसंनिधौ दत्तं दूरे । न तु तत्र तद्दानेन मालतीं स्वपुष्पैर्वर्जितामित्यर्थः । मलि- नेत्यस्य वर्जितार्थत्वाभावात् । प्रत्युत— मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः । प्रातर्जयति सलज्जः कज्जलमलिनाधरः शंभुः ।। इतिवत्पुष्पयुता मालती प्रतीयेत । नन्ववहासेन तस्याः को वाऽपकर्ष इत्यत उत्प्रेक्षान्तरमाह—उपवनमिति । उपवनम् । सांनिध्यान्मल्लिकावल्लीसमुदायः । पुष्पवाटिकानां नगराद्बहिर्निकट एवोत्सर्गतः संभवा- दुपेत्युक्तम् । किसलयैः । कोमलपत्रैर्हस्तरूपैस्तां मालतीम् । विनिवारयतीति विशेषणेन गच्छेति वारणं तस्याः करोतीत्यर्थः । श्रीमतां मङ्गलरूपा उक्तगुणयुताः कान्ता अमङ्गलां दरिद्रवधूमायान्तीं हस्तकम्पनचेष्टया निवारयन्ति । तथा मल्लिका मालतीं स्वपत्रचेष्टया निवारयतीति मल्लिकायाः कान्तात्वं दृढं सिद्धम् । तस्या अपकर्षोऽपि स्पष्ट इति भावः । केचित्तु तामित्यत्र बहुवचनान्तं पाठं कृत्वा । उपवनम् । ताः । मालत्यवहसनकारिका मल्लिका विनिवारयति । मालत्या अवहासो न विधेय इत्येवंरूपं निवारणं मल्लिकानां करोतीत्यर्थ इत्याहुस्तन्न । वर्णनीयापकर्षप्रतीतेः । पत्राणां करगत्वे हेतुमाह—मलयेत्यादि । मलयकुलपर्वतादागतो वायुस्तेनाऽऽन्दोलितै- रित्यर्थः । तथा च वायुप्रेरितपत्रकम्पनेन मल्लिका मालतीं निवारयतीत्युत्प्रेक्षा तद्ग्रस्थेन पदेन द्योतिता । अत्र मलयेत्यनेन तत्स्थचन्दनतरुसमालिङ्गितभुजंगतरुणीभिर्भुक्तावशिष्ट- वायुरत्यल्पत्वेन तत्तटादवरोहणेन श्रान्तो मन्दं मन्दमायात्यत एव कम्पितैरित्युक्तमतो बायो- स्त्रिधा वर्णनमत्रासंभवि नेति सूचितम् । इदं किसलयचालनहेतुरूपत्वाद्विशेषणं समाप्तपुनरात्तातां न बिभर्ति इति ध्येयम् । अत्र