भारतकोश
सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

पृष्ठ 601, कुल 723 में से

संदर्भ में पढ़ें
पृष्ठ 601

ऋतुवर्णनाध्यायः ४९९ प्रसादमाधुर्यादिगुणाः, अनुप्रासोऽलंकारश्च । तथा च वसन्तस्य चिह्नान्याम्रनवाङ्कुर- पल्लवकोकिलाकलस्वनमलिकानवपल्लवपुष्पसंभवा इति ॥२॥ अथ क्रमप्राप्तं ग्रीष्मं वंशस्थेन वर्णयति—विहाय सौधमिति । शुचौ । आषाढमासस्य तद्वाच्यत्वादाषाढसंबन्धेन ग्रीष्मर्तुस्तत्पदेन लक्ष्यते । न च ग्रीष्म इति विहाय शुचावित्येकदेशग्रहणेन संपूर्णर्तुग्रहणं कुतः कृतमिति वाच्यम् । ग्रीष्मेति भयहेतुनामश्रवणात्संजायमानतापाधिकतापसंभावनया कामिनीकामुकयोः सचिन्तयोः सङ्गाभावाद्धिमनस्कता स्यात्तत्तदपनोदार्थमेकदेशकालवाचकशब्देन हठात्तदृतुग्रहणात् । तदपनोदस्त्वाषाढस्य पूर्वाषाढानक्षत्रसंबन्धेन तत्त्वात्तेन प्राथमिकपूर्वाषाढानक्षत्रोपस्थितिद्वारा स्वस्वामिनो जलस्योपस्थित्या संजायमानतापशान्तिसंभ