सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 602, कुल 723 में से
संदर्भ में पढ़ें५०० गोलाध्याये प्रियाभिः सह जलक्रीडोद्यता इत्यर्थः । तथा च प्रियया सार्धं जलक्रीडादिना प्रियासुख- संभवाद्विलासित्वानुपपत्तिर्नेति भावः । अत्र रमन्ते इत्यनेन संभोगः शृङ्गाररसो व्यज्यते । प्रसादमाधुर्यादयो गुणाः । अनुप्रासः शब्दालंकारः ॥३॥ ननु तादृशमण्डपे जलक्रीडायोग्यजलाभावात्कथं जलक्रीडोद्यता इत्यतो वंशस्थेनाऽऽह-- निदाघदाहार्तीति । शुचौ । ग्रीष्मर्तौ । आषाढमासे ग्रीष्मप्रारम्भ इति भ्रमवारणाय । ग्रीष्मसमाप्ति- द्योतनाय चात्र पुनः शुचावित्युक्तमिति ध्येयम् । वापीजलकेलिलालसाः । वापीषु सरोवर- विशेषेषु । जलैः केलयस्तासु सक्तान्तःकरणा विलासिनः । तथा च तन्मण्डपे जलक्रीडा- योग्यजलाभावादेव वापीषु जलक्रीडोद्यताः । न च निकटस्थनद्यादौ जलक्रीडोद्यताः किं [L1