भारतकोश
संग्रह पर लौटें

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

५०० गोलाध्याये प्रियाभिः सह जलक्रीडोद्यता इत्यर्थः । तथा च प्रियया सार्धं जलक्रीडादिना प्रियासुख- संभवाद्विलासित्वानुपपत्तिर्नेति भावः । अत्र रमन्ते इत्यनेन संभोगः शृङ्गाररसो व्यज्यते । प्रसादमाधुर्यादयो गुणाः । अनुप्रासः शब्दालंकारः ॥३॥ ननु तादृशमण्डपे जलक्रीडायोग्यजलाभावात्कथं जलक्रीडोद्यता इत्यतो वंशस्थेनाऽऽह-- निदाघदाहार्तीति । शुचौ । ग्रीष्मर्तौ । आषाढमासे ग्रीष्मप्रारम्भ इति भ्रमवारणाय । ग्रीष्मसमाप्ति- द्योतनाय चात्र पुनः शुचावित्युक्तमिति ध्येयम् । वापीजलकेलिलालसाः । वापीषु सरोवर- विशेषेषु । जलैः केलयस्तासु सक्तान्तःकरणा विलासिनः । तथा च तन्मण्डपे जलक्रीडा- योग्यजलाभावादेव वापीषु जलक्रीडोद्यताः । न च निकटस्थनद्यादौ जलक्रीडोद्यताः किं [L1

ऋतुवर्णनाध्यायः ५०१ ये चूता आम्रवृक्षास्त एव केतवो ध्वजाश्चिह्नानि यस्तैस्तादृशवनायेत्यर्थः । यद्वा कामस्य मदनस्य उच्छ्रितचूता एव केतवो यत्र मदनोद्दीपनं वनमित्यर्थः । तथा चोपवने घनतराच्छा- दितरुभिः सूर्यकराणां वारणात्तत्सरोवरजलं सदा शीतलं वनस्य मदनोद्दीपनत्वादनङ्ग- विहारोऽधिकं तत्र संभाव्यते चेति भावः । विलासिनो रमण्यश्च रत्युत्सवे ह्यानन्दनिमग्नतयाऽऽत्मानं विस्मृत्योन्मत्ततयाऽश्लीलं प्रलपन्तीति सूचनात्कामोच्छ्रितचूतकेतवे इत्यश्लीलं न दोषः । एवं सुरते तरुणवेगमसह- माना तरुणी तदानन्दान्त्यन्ताविर्भावेनोपेक्षितनिवारणं तरुणं प्रति जलेड्यमङ्गलमश्लीलं प्रलपति तदा भर्तुर्दासाद्यमत्वेनाभ्युपगमादिति सूचनाज्जलेड्यश्लीलममङ्गलं न दोषः । अत्र संभोगः शृङ्

५०२ गोलाध्याये नन्वहं दूरस्थितस्तवां कथं सिञ्चामि कथं वा मम सुखदुःखाश्रुजलसंभव इत्यत आह- एत्येति । मन्निवासगृहं तत आगत्येत्यर्थः । तथा चाऽऽगतस्य तव मद्दर्शनान्मदवस्थाज्ञान- जनितदुःखाश्रुणः संभवात्सम्पग्हमागतो नो चेदनया मृतं स्यादित्यादिप्रियतमादर्शनजसुख- जनिताश्रुणः संभवाच्च तज्जलसेचनेनैतत्कालान्तकाक्रान्तां मां सुखयेति भावः । ननु तप्तस्य सेचनमुचितं न तवेत्यतः स्वविशेषणमाह-मदनदहनखिन्नामिति । मदन- रूपाग्निना पीडिताम् । तथा चास्मिंस्तद्वियोगसमये मदनरूपोऽग्निरत्यन्तं मम दाहं करो- तीति युक्तं सेचनमिति भावः । केचित्त्वात्मदृग्वारिणेत्यस्य स्वदर्शनरूपजलेनेत्यर्थमाहुस्तन्न । स्वदर्शनेन तस्या दृष्टिरस्मिन्पततीति तस्यां सेचनासंभवात् । नहि तस्यां तद्दृष्टिः पत- तीति युक्तं सेचनमिति वाच्यम् । तद्दर्शनलालसायास्तददर्शनेऽपि तद्दृष्टिपातेन विरहव्यथा- पगमापत्तेः । नहि दर्शनं विना व्यथापगमः संभवति । अत एव विरहबाधाव्याकुलया मूर्च्छितया च प्रथमं त्वं द्रष्टुमशक्य इति सेचनोत्तरं मया त्वं द्रष्टव्यः सेचनेन मूर्च्छापगम- द्वारा प्रबोधसंभवादिति सूचितम् । अङ्गानि मे दहतु कान्तवियोगवह्निः संरक्ष्यतां प्रियतमो हृदि वर्तते यः । इत्याशया शशिसुखी गलदश्रुवारिधाराभिरुष्णमभिसिञ्चति हृत्प्रदेशम् ॥ इति प्रसिद्धवर्णनादश्रुणा सेचनमविरुद्धम् । ननु त्वया स्वतापेस्तत्कालजशीतलमालतीपुष्पै- रपनेयस्त्वन्निमित्तं ममाऽऽगमनासम्भवादित्यतः स्वविशेषणमाह-मालतीनामिति । मालती इनः सूर्यो यस्याः सा मालतीना । तां मालतीनाम् । यमके निहतार्थो न दोषः । तथा च पुष्पमकरन्दगन्धाहूतभ्रमरभुक्तां मालतीं दृष्ट्वाऽहं तवालाभात्तपामीति मालती मम दाहिका सूर्यतुल्येति भावः । केचित्तु मालतीनामित्यत्र मा लतीनामिति पदद्वयं मेत्यस्य मामित्यर्थः । लतीनामित्यस्य रतीनां परिमलबहलानामिति विशेषणे परिमलबहराणाम् । बवयोर्लयोः श्लेषे ऐक्यात् । अपचरतीनां सुरतोत्सवानां काले आगतेऽपि कथं भूतानां परिमलबहराणाम् । परस्य भावः परिमा परिम्णा लवः परिमलवस्तं हरतीति परिमलबहरास्तासाम् । उत्कृष्टांशहराणाम् । मानिनां मनस्विनीनां वा कामातुराणां मानभङ्गेन तुच्छदयितानामित्यर्थः । तथा च मम माममाशङ्क्य न यास्यसि चेत्तर्हि अस्मिन्समये मम मानोऽपि नास्ति । सुखेन सुरतं कुर्विति भाव इत्याहुस्तन्न । यमकभङ्गापत्तेः । तदैक्यस्य श्लेषेऽभ्युपगमाच्च । रतीनां समयोऽस्ति मानवत्यहं न सुखेन सुरतं कुर्वित्यादिस्त्रीवचने रसभंगापत्तेश्च । किंच तद्दर्शने महदायासं मन्यमाना कथं सुरताभिलाषं कुर्यादिति । ननु शातलान्तरोपचारात्स्वतापोऽपनेय इत्यत आह-दीनामिति । त्वां विना यत्किचित्सुखदं वस्तु तन्मम संतापदुःखदमिति मामनन्यशरणा मेतद्तुकालान्तकाक्रान्तामङ्गी कुर्विति भावः । द्वितीयपादे मालतीनां नदीनामित्यादृत्य मेति माम् । इनात्सूर्यात् । अलति । समर्था-

'? Wait, the vowel is 'अ'! So:

  1. नि (i)
  2. शि (i)
  3. श (a)
  4. शि (i)
  5. क (a)
  6. र (a)
  7. च्छ (a)
  8. न्न (a) -> wait, no! 'च्छन्न' is छ + न्न! It is: 'च्छ' + 'न्न'? Wait, in Devanagari, 'च्छ' has the vowel 'अ'! But here, is it 'च्छ' or 'छ'? Wait, in Sanskrit, after a short vowel like 'र', 'छ' becomes 'च्छ' (छत्व / तुगागम: ह्रस्वस्य पिति कृति तुक् / छे च)! छे च (Panini 6.1.73): ह्रस्वस्य छे परे तुग् भवति! So: र + छन्न = रच्छन्न! The letters are: र (ra) च्छ (ccha) न्न (nna) Wait, 'च्छ' has vowel 'a', but 'न्न' is attached? No, 'च्छ' is one consonant, but here it's written as 'च्छ' with vowel? Wait! In Devanagari, 'च्छ' is a conjunct of च् and छ! It has vowel 'अ' only if not followed by another consonant! Wait, is 'न्न' separate? Let's look at the word: "शशिकरच्छन्ननिर्

५०४ गोलाध्याये सरसम् । सा च कस्य न हरति । त्रिम् । अर्थं हृदयं वा । या । का । नवरतर- मणी । अपूर्वसुरता युवती । किविशिष्टा । भारती भरतसंबन्धिनी नर्तकस्त्री । कथंभूता सती । कामिता । पुनः किविशिष्टा । सानुरागा । किं कुर्वन्तो । सरसम- भिलपन्ती । विदग्धा । मरीचिः--अथ विरहव्यथासंजातोन्मत्ततया पूर्वोक्तं वारं वारं लपन्ती विरहिणी किमर्थमेवं लपसि । नह्येतावता स आयाति । धैर्यं घेहीति प्रत्युत्तरं ददतीं मातरं प्रति वसन्ततिलकया वदति--उच्चैर्विरौतीति । हे अम्ब । मातश् । अनेन मनुष्या अतिव्यथायां मातुः स्मरणं कुर्वन्ति तन्नाम च प्रलपन्तीति सूचितम् । यत्पूर्वं निःशब्दं स्थितं तदेतन्मयूरकुलं मयूरपक्षिसमुदायः । कुल- मित्यनेन पतिकलत्रपुत्रादिसंबन्धिकमयूराः सूचिताः । उच्चैः प्लुतस्वरेण विरौति । मद- नोत्सवानन्देन शब्दं करोति । हि निश्चयेनान्यदा त्वेतादृशशब्दाकरणादेतत्कालस्य मद- नोत्सवयोग्यत्वाच्च । विरोतीत्यनेन ते त्वानन्दिताः शब्दं कुर्वन्त्यपि मम रोदनतुल्यमति- गर्हितं लगति । दुःखिते मनसि सर्वमसह्यमिति सूचितम् । वातः । वायुः । मन्दं शनैः प्रवाति । प्रकर्षेणातिमन्दं संचरतीत्यर्थः । ननु मन्दवायुरयं तव तापं हरिष्यतीत्यत आह-कदम्बमकरन्दकरम्बित इति । कदम्बपुष्परसमिश्रित इत्यर्थः । कदम्बानामस्मिन्वर्ष काले प्रफुल्लतादृशकालजमेघमुक्तसीक- रवहनमपि वायोः स्वतःसिद्धमिति त्रिधा वर्णनानुपपत्तिर्नेति ध्येयम् । तथा च भ्रमरोपभुक्तकदम्बकलिकायाः पतिस्मारकत्वात्तदलाभात्तब्दा (द्वद्वा) हिकया रसगन्धानयमानयतीत्यधिकं मम दाहक इति भावः । चः समुच्चये । एवमस्मिन्ससमये पत्युरपि मदनोद्दीपनसंभवादधिकविरहपीडया विदेशे स्थातुमशक्यत्वादागमनं संभावितमित्य- स्मिन्नपि समये पतिर्भर्त्ता एति आगच्छति न । यद्यायातः स्यात्तर्हि प्राणसंभरणेन प्राणेश्वरः स्यादित्यनागमनेन ममानुरोधाभावात्केवलं पतिर्न प्रियतम इति सूचनार्थं पति- रित्युक्तम् । तेन कारणेनास्य पत्युर्निर्घ्राणनिर्घृणविकर्णविहृत्त्वम् । निर्घ्राणो गन्धग्राह- केन्द्रियेण रहितः । निर्घृणो दयारहितः । परहिंसकः । विकर्णः शब्दग्राहकेन्द्रियरहितः । विहृत् । हृदयशून्यः । एषां भावस्तत्त्वम् । निर्घ्राणत्वनिर्घृणत्वविकर्णत्वहृदयशून्यत्व- मित्यर्थः । अहं मन्ये । अत्र तादृशवायुगतफुल्लकदम्बरसगन्धाघ्राणेन वर्षाकालं विरहिणीकृतान्तरूपं ज्ञात्वा मत्संरक्षणार्थमागतः स्यात् । यतो नाऽऽगतोऽतस्तस्य घ्राणेन्द्रियाभावस्तद्गधाज्ञानेऽनागम- नस्य युक्तत्वात् । अथान्यपदार्थगन्धानभवान्न निर्घ्राणत्वमिति चेत्तर्हि निर्दयः । मृन्मय (मन्मृत्यु) करकालज्ञानादपि मत्संरक्षणार्थमनागमनात् । अथायं वायुस्तत्र न गत इति निर्घ्राणनिर्घृणत्वासंभवः । कालाज्ञानेऽनागमनादिति चेत्तर्हि मयूराणामुच्चतरविरावश्रव- णेनाऽऽगतः स्यादतो विकर्णत्वम् । बधिरतया तच्छ्रवणेन युक्तमनागमनम् ।

अथ मयूरशब्दश्रवणेऽपि व्यासङ्गान्तरवशान्नाऽऽगत इति चेत्तर्हि सिद्धं विहृदयत्वम् । सहृदयत्वे विरहव्यथासहत्वाक्षमतया महत्कार्यमुपेक्ष्यापि शीघ्रं धावित्वैवाऽऽगतं स्यात् । अत्र विरहिण्याः क्रोधाविर्भावाच्छ्रुतिकटुपदगुम्फनागुणो न दोष इति ध्येयम् । अनेन त्वयाऽहमस्मै सम्यक्परीक्ष्य न दत्तेति तव दोषो मम विरहव्यथात्वेन फलित इति व्यञ्जितम् । अत्र विप्रलम्भः शृङ्गाररसः पतिरेति नेत्यनेन व्यञ्जितः । प्रसाद- माधुर्योदारता गुणाः । मयूरमित्यादौ वैदर्भी रीतिः । अनुप्रासोऽलंकारः ॥६॥ अथोक्तं हृदि गतेन प्रियतमेन श्रुतं भविष्यत्यत एव तदागमनविलम्ब इति भयादिव हृदि स्थितं प्रियतमं प्रति पुनर्वसन्ततिलकया वदति—एवंविधं विरहिणीति । वर्षाणां विना मेघागमनासंभ वाद्घनतौ वर्षाकाले इत्यर्थः । ननु मेघानामन्यदाऽपि दर्शनाद्घनतौविति कथमुक्तमत आह—भिन्नाञ्जनच्छविघने गगने इति । आकाशे भेदं प्राप्तं यत्कज्जलं तस्य कान्तिर्येषामेतादृशमेघा यस्मिंस्तस्मिन् सतीत्यर्थः । तथा चान्यदा मेघा विरलाः श्वेताः कदाचिदायान्त्यस्मिन्काले तु नित्यं जलपूर्णतया श्यामा मेघनिकरा आकाशे तिष्ठन्तीति भावः । विरहिणी । प्रोषितभर्तृका युवती । मत्वा । उत्कण्ठाहर्षशोकादेरुन्मादश्चित्तविप्लव इत्युन्मत्तीभूयेत्यर्थः । किंचिद्रक्ति करोति हासमसकृन्निर्याति संतिष्ठते बाष्पं मुञ्चति किंच रोषकलितां शोणां विधत्ते दृशम् । मुग्धाक्षीति नमन्त्यकाण्डकुपितेत्याभाषते निष्ठुरे त्यालिङ्गत्यधुना स मन्मथशरैर्नीतः परां दुर्दशामित्यादि तद्व्यञ्जकम् । नन्व कस्मादुन्मत्तता कथं संजातेत्यतो विरहिणीविशेषणमाह—विरहेण खिन्नेति । विरहेण प्रियतमवियोगेन । एवंविधम् । दृष्टिप्रेम पुरा भ्रमोऽथ मनसि प्रोक्तोऽथ संकल्पको निद्रोच्छित्तिरतः शरीरतनुता लज्जाविनाशस्ततः । वैराग्यं विषयेष्वथो निगदिते उन्मादमूर्च्छे ततो मृत्युः स्यादिति पण्डितैः स्मरदशा उक्ता दशैव क्रमाद् ॥ इति । दशावस्थाः क्रमेणेत्यर्थः । खिन्ना उन्मादावधि दुःखितेत्यर्थः । अत एव— दयिते परदेशसंस्थिते शशिपङ्केरुहचन्दनादिभिः । परितप्यत एव यद्वपुः कथिता सा कविभिर्वियोगिनी ॥ इति लक्षणाद्विरहिणीत्यनेन विरहखिन्नत्वसिद्धावपि विरहेण खिन्नेति पुनरुपादानं मूर्च्छान्तरितमरणावस्था निकटाऽस्तीति सूचनायेति ध्येयम् । तथा च क्रमेणैवोन्मत्तता संजातेति भावः । तं प्रति प्रतीत्यर्थः । प्रियं मनोहरं ब्रूते वाक्यं वदतीत्यर्थः । ननु देशान्तरस्थं प्रति कथं ब्रूते इत्यत आह—हृदयमिति । स्वमानसं प्रति प्रविष्ट- मागतं संस्मृतमित्यर्थः । ननु मनस्यणुरूपे महाकायप्रवेशेऽत्यन्तमस्या दुःखं संभावितम् ।

५०६ गोलाध्याये निविशते यदि शूकशिखा पदे सृजति सा कियतीमपि न व्यथाम् । मृदुतनोर्वितनोतु कथं न तामवनिभृत्तु निविश्य हृदि स्थितः ॥ इति श्रीहर्षोक्तेश्च । तत्कथमस्या आसन्नमरणाया निकटे लौकिकमार्गेण नाऽऽगतः पति- रित्यत आह—अदयमिति । दयारहितम् । निर्दयस्य कठिनत्वेन प्रवेशे बहुदुःखसंभवादल्प- दुःखावगमार्थमदयमिति मृदूक्तिः । तथा च दयारहितस्य परदुःखे इष्टापत्तिरिति भावः । नन्वेतादृशं विरोधिनं प्रति किमर्थं ब्रूते फलसिद्धयभावादत आह—प्रियमिति । मम मनसि विरहानलाक्रान्तेऽद्यमद्यापि मद्वेदनाभिज्ञतया मर्तुकामः स्थित इति प्रियतमत्वेनाभि- मतमित्यर्थः । तथा च प्रियं प्रति प्रियं वचनमुक्तं सफलमेवेति भावः । ननु स्वविरहवेदनयेयं कठिनमेव वदिष्यतीति प्रियं वचनं कथमत आह—सपेशल- मिति । हृदि स्थितं प्रियमुन्मत्ततया त्वद्भ्रमाभ्यासेन वा । वस्तुतो विदेशादागतं जानतीति पुनः परावृत्य गच्छतीत्याशङ्कया कठिनं न वदति, किंतु सपेशलम् । मधुररससहितं अमृता- दप्यधिकतरम् । तेनैव तद्वचनश्रवणस्वान्तःकरणतयाऽत्र स्थिरो भवतीति भावः । नन्वेतादृशमप्यल्पार्थं वदिष्यत्यन्तःप्रहर्षादिति मनोहरं कथमत आह—अलमिति । अत्यर्थं सव्यङ्ग्यमित्यर्थः । तथा च मनोहरत्वे न क्षतिरिति भावः । ननु तथाऽपि प्राचीनदुःखसंमरणादिदं मनोहरमपि कपटवचनं भविष्यत्यन्तःप्रद्वेष- संभवादित्यत आह—परिहासमिश्रमिति । अनङ्गलीलायाम्— चरणकमलमेकेनाऽङ्घ्रिणाऽऽक्रम्य भर्तुपरपदसरोसेनाऽऽश्रयन्ती तदूरूं(रू) । तरुमिव भुजवल्ल्याऽऽपीड्य चुम्बेन्नताङ्गी कथितमिह मुनीन्द्रैस्तद्वि वृक्षाधिरूढम् । जघनपरिसरस्थं श्रोणिदेशं स्वभर्तुंनिजभुजलतिकाभ्यां गाढमालिङ्ग्य रागात् । लुलितवसनकेशा चुम्बनं यत्र कुर्यात्स्फुटमिह परिरम्भं जाघनं तं वदन्ति ॥ स्थितं पतिं मीलितनेत्रयुग्मं पश्चात्प्रविध्येहनिता कुचाभ्याम् । गृह्णात्यसौ तामपि बिद्धकाख्यमालिङ्गनं तन्मुनिभिः प्रदिष्टम् ॥ अङ्केष्व(स्व)तल्पे पतिसंमुखस्था कान्ता समालिङ्गति यत्र गाढम् । मिथः प्रवेशं कुरुतो निजाङ्गैः स्यात्क्षीरनीरं परिरम्भणं तत् ॥ वल्लीव वृक्षं सरलाङ्गयष्टि पतिं समालिङ्गति यत्र कान्ता । चुम्बेच्च रागात्कृतमन्दसीत्का प्रोक्तं बुधैर्वल्लिरिवेष्टितं तत् ॥ इत्यादि परिरम्भणे । नारीमुखान्ते वदनं स्वकीयं समानयेद्यत्र बलेन कान्तः । सा नैव चुम्बेदतिकोपयुक्ता स्याच्चुम्बनं तन्मिलिताभिधानम् ॥ दयितस्य निवेश्य वक्त्रके निजवक्त्रं परिचुम्बिताधरम् । न पिवेदबला तदाननं स्फुरिताख्यं किल चुम्बनं तदा ॥ करेण कान्तस्य निमील्य नेत्रे जिह्वां मुखान्तर्विनिधाय वक्त्रम् । चुम्बेद्विलोला परिमीलिताक्षीं तद्घाटिताख्यं कवयो वदन्ति ॥

ऋतुवर्णनाध्यायः ५०७ दन्तैर्गृहीत्वा मदनातिलोलाऽधरं विचुम्ब्याऽऽशु दशेत्स्वभर्तुः । कान्तस्तदीयं कथितं मुनीन्द्रैरित्युत्तरोष्ठं परिचुम्बनं हि ।। आदाय दन्तच्छदमाशु पत्युः कराङ्गुलीसंपुटकेन नारी । जिह्वाप्रदेशेन घ(पु)टे दशेच्चेत्तच्चुम्बनं पीडितसंज्ञकं स्यात् ।। अधरौष्ठयुगेन कामिनी पतिवक्त्रोष्ठयुगं स्वजिह्वया । परिपीड्य विचुम्ब्य नृत्यति कथितं तद्धि समोष्ठसंज्ञकम् ।। इत्यादि चुम्बने ।। निघाय पादौ रमणांसयोश्चेदुत्तानसुप्ता रमते पुरंध्री । प्रतिप्रबन्धं समपादसंज्ञं प्रोचुस्तदा भोगविधानदक्षाः ।। उत्तानितायाः स्मरमन्दिरोपस्थितस्तदूरुद्वयमुद्द्बृहीत्वा । संस्थाप्य वाह्यां कटितो रमेत कान्तस्तदा स्यात्किल नागराख्यः ।। स्त्रियोऽङ्घ्रिमकें विनिधाय भूमावन्यं स्वमौलौ निजपाणियुग्मम् । पृष्ट्या समाधाय रमेत भर्ता त्रैविक्रमाख्यं करणं तदा स्यात् ।। तल्पप्रसुप्ता निजपादयुग्ममूर्ध्वं विधत्ते रमणी कराभ्याम् । स्तनौ गृहीत्वाऽथ भजेत कान्तो बन्धस्तदा व्योमपदाख्य उक्तः ।। कान्तोरुयुग्मान्तरगः स्वहस्तौ निघाय भूमौ रमते पतिश्चेत् । बन्धस्तदोक्तः स्मरचक्रनामा प्रेष्टः सदा कामिजनस्य लोके ।। नारी स्वपादौ दयितस्य वक्षःस्थितौ समालिङ्ग्य करद्वयेन । किंचिन्नतोरू रमतेतरामसौ प्रोक्तो मुनीन्द्रैरविदारिताख्यः ।। उत्तानितोरुद्वयमध्यगामी दृढं समालिङ्ग्य भजेत यत्र । कान्तो विलासप्रिय एष बन्धः सौम्याख्य उक्तः कविभिः पुराणैः ।। ऊरुयुगं वक्त्रमुदञ्चितं च कृत्वाऽम्बुजाक्षी भजते पतिं चेत् । आनन्दकर्ता तरुणीजनानां बन्धोऽयमुक्तः किल जृम्भिताख्यः ।। कान्तोरुयुग्मं परिवर्तितं चेन्निपीड्य कामाकुलचित्तवृत्तिः । रमेत भर्ता यदि वेष्टिताख्यं तदेति बन्धं मुनयो वदन्ति ।। स्कन्धप्रदेशे विनिधाय जङ्घामेकां स्त्रियोऽन्यामथ संविदार्य । अधो विनीय प्रबलं रमेत भर्ता यदा रे(वे)णुविदारितं तत् ।। विलासिनीं संहतमूरुयुग्मां कृत्वोर्ध्वमालिङ्ग्य भजेत भर्ता । उद्दग्नकः स्यात्प्रमदाङ्घ्रियुग्मे कान्तोरसिस्थे स्फुटता(मा)न्प्रदिष्टः ।। इत्युत्तानबन्धे । कान्ताङ्घ्रिमकें हृदये स्वकीये निघाय भर्ता शयने द्वितीयम् । कुर्याद्रतिं चेदिति वोणकाख्यः प्रौढाङ्गनायां परिकल्पनीयः ।। पार्श्वप्रसुप्तप्रमदोपरिस्थः कान्तः समालिङ्ग्य रतिं करोति । यत्र प्रदिष्टो मुनिभिः पुराणैर्बन्धस्तदा संपुटनामधेयः ।।

५०८ गोलाध्याये यद्यङ्गनाकुञ्चितपादयुग्मं स्वनाभिदेशे परिकल्प्य भर्ता । रतिं प्रकुर्यादिति कर्कटाख्यं तदा कवीन्द्रैः करणं प्रदिष्टमिति तिर्यग्बन्धे । प्रेङ्खाविलासं प्रसभं वहन्त्या विपर्ययाज्जङ्घयुगस्य नार्याः । पद्मासनं स्यादथ चैकजङ्घाविपर्ययात्पद्मपदं वदन्ति ॥ स्वजानुयुग्मान्तरनिर्गतौ चेद्भूजौ स्वकण्ठे विनयेन्मृगाक्षी । कान्तोऽपि कृत्वेति विधिं प्रगच्छेत्तदा बुधैर्बन्धुरिताख्यमुक्तम् ॥ उक्तप्रकारैर्यदि दम्पती स्वभुजौ तु कृत्वा मणिकूर्परस्थौ । स्वैरं रमेते करणं प्रदिष्टं तदा कबीन्द्रैः फणिपाशसंज्ञम् ॥ विधाय जङ्घायुगलं युवत्याः स्वकीययोः कूर्परयोरधास्थाः (थास्याः) । कण्ठे स्वबाहू परिणीय गच्छेद्वलिस्तदा संयमनाख्यमेतत् ॥ मुखे मुखं बाहुयुगे स्वबाहू जङ्घाद्वये जङ्घयुगं निवेश्य । गच्छेत्पतिश्चेदिति कौर्मकं स्यादूर्ध्वोर्हियुग्मात्परिवर्तिताख्यम् ॥ स्थितां स्त्रियं कुञ्चितपादयुग्मां तथैव भर्ता कृततिर्यगङ्गः । भजेत चेत्कामकलाविदग्धां बन्धं तदा युग्मपदं वदन्ति ॥ विलासिनीकूर्परमध्यवर्ती कटिं स्वकीयां भ्रमयन्मुहुश्चेत् । भजेत भर्तेति दि(वि)तर्दितं स्यात्तन्मार्कंटं संमुखसंगमेन ॥ इत्युपविष्टबन्धे । संवेष्टयित्वा निजकूर्परेण जान्(न्वङ्)गनाया अवलम्ब्य कण्ठम् । रतिं प्रकुर्यादिति कूर्पराख्यो बन्धः प्रदिष्टः स च जानुपूर्वः ॥ उक्तप्रकारे करणे यदैकः पादौ भवेद्दूर्ध्वगतोऽङ्गनायाः । तदा प्रदिष्टो हरिविक्रमाख्यो बन्धः 'प्रयोऽयं तरुणोजनानाम् ॥ कण्ठं भुजाभ्यामवलम्ब्य भर्तुः श्रोणी निजोरूयुगलेन गाढम् । संवेष्टय कुर्याद्रतमङ्गना चेदुक्तः कवीन्द्रैरिति कीर्तिबन्धः ॥ इत्युत्थितबन्धादौ । जातश्रमं वीक्ष्य पतिं पुरन्ध्री स्वेच्छात्त एवाथ रतेष्वतृप्ता । कंदर्पवेगाकुलिता नितान्तं कुर्वीत पुष्ट्यै पुरुषायितं सा ॥ उत्तानसुप्तं दयितं भुजाभ्यामालिङ्ग्य लिङ्गं विनिवेश्य योनौ । भजेन्नितम्बं परिचालयन्ती नारी तदा स्याद्विपरीतबन्धः ॥ सुप्तस्य पुंसो जघनोपरिस्थिता संभ्रामयन्त्यङ्घ्रियुगं विकुञ्चितम् । चक्राकृतिः स्त्री नरवद्विचेष्टते तद्भ्रामराख्यं करणं समीरितम् ॥ प्रेङ्खद्विभ्रमवती स्मरयन्त्रे भर्तुलिङ्गमुपधाय पुरन्ध्री । भ्रामयेत्कटिमनङ्घविलोला स्यात्तदा करणमुत्कलिताख्य(ख्य)म् ॥ विपरीतरते ससीत्कृता वरहासाऽतिमहोरमानना । किं तवाऽद्य वशं गतोऽसि मे स्मरयुद्धे विजितोऽसि चापलम् ।

ऋतुवर्णनाध्यायः ५०९ इति मञ्जु रटन्त्यथाऽऽकुला सकचाकर्षणचुम्बिताधरा । श्रमनिमीलितचारुलोचना द्रवतां याति तदा विलासिनी ॥ श्लथदेहलतां समूर्छनां दरसंमीलितलोचनोत्पलाम् । समवेक्ष्य नितान्तनिःसहामवगच्छेदबलां द्रुतामिति । विपरीतरते यदाऽङ्गना हृदि मुष्ट्या परिताडयेत्पतिम् । करघातनकं तदा बुधैरिति संतानितसंज्ञमुच्यते ॥ विस्तीर्णहस्तेन रतौ यदा स्त्री हन्यात्पति स्यात्सपताकसंज्ञः । अङ्गुष्ठकेनैव कृतप्रहारो विज्ञैः स उक्तः किल बिन्दुमालः ॥ साङ्गुष्ठमध्याङ्गुलिकाप्रहारं शनैः पुरन्ध्री कुरुतेऽतिरागात् । यच्चेष उक्तः कविभिः पुराणैरानन्दकृत्कुण्डलनामधेयः ॥ इति । पुरुषायितताडनयोश्च मया त्वमुपद्रुतस्तत्त्रासादि शीघ्रं नाऽऽगतोऽसीत्युपहासैरुपहा- सान्तरैर्वा संयुक्तमित्यर्थः । तथा चोपहासानां निष्कपटद्योतकत्वाद्वस्तुतः प्रियतमसमागम इव विरहदुःखं विस्मृत्य स्वानन्देन लपतीति भावः । अत्र विरहाख्यः शृङ्गारो रसः । प्रसादमधुर्यादिगुणाः । अनुप्रासोऽलंकारः । तया च नदीपूरमालतीप्रफुल्लनमयूरशब्दकदम्ब- प्रफुल्लनमेघागमादिकं वर्षाकालचिह्न म् ॥७॥ अथ क्रमप्राप्तां शरदं मालिन्या वर्णयति—स्वतनुजवनराज्येति । शरद्ऋतौ शैलः पर्वत इत्येवमनुतप्तः पश्चात्तापं प्राप्तः सूर्यकिरणतप्त इत्यर्थः । निशि रात्रौ । दिने निर्झ- राणां सूर्यकिरणैः शोषसंभवाच्छशिकरचञ्चन्निर्झरैः । चन्द्रकिरणप्रतिफलनाद्देदीप्यमाना ये निर्झराः स्वाऽङ्गस्रवदुदकधारारूपास्तैरश्रुकल्पनैर्नोद्भवोदकतुल्यैरित्यर्थः । कल्पनेनेन निर्झरा उपमेया उपमानाश्रुभिरुपमिता इत्युपमालंकारः । रोदिति रोदनं करोति । इव- शब्दादेते पर्वतनिर्झराः पर्वतारोदनजाश्रूणीत्युत्प्रेक्षालंकारः । नन्वनुतप्तोऽपि रोदनं कुतः करोति धैर्यभरणेन तदसंभवादित्यतः शैलविशेषणमाह—हृदिजखेदखेदवानिति । हृदि अन्तः- करणे जातो यः खेदः सहनायोग्यं यद्दुःखं तस्माज्जाता ये स्वेदा घर्मोदकानि तैर्युक्त इत्यर्थः । तथा चात्यन्तदुःख विक्येन धैर्यापाकरणाद्रोदनं संभवतीति भावः । अनेन पर्वत- निर्झराः पर्वतघर्मोदकोत्प्रेक्षिताः । अत एव घर्मोदकस्याश्रुत्वासंभवात्तदभेदेऽपि तद्भेदज्ञा- नार्थमश्रुकल्पैरिति पृथगुक्तमिति ध्येयम् । इति किमतस्तमनुतापमाह-स्वतनुजवनराज्येति । स्वस्य पर्वतस्य तनुः शरीरं तस्मा- ज्जाता या वनराजिर्लतापङ्क्तिस्तस्येत्यर्थः । अनुचितकृतसंगः । अनुचितो निन्दितः कृतः संपादितः सङ्गः समालिङ्गनादिकं येनासौ । पुत्रीं प्रति गत इत्यर्थः । एतादृशोऽहमस्मि तिष्ठामि । अस्मीत्यनेनैतादृशं पापं कृत्वाऽपि जीवामि लोकानां मुखं च प्रदर्शयामीत्यति- निर्लज्जत्वं भ्रष्टत्वं सूचितम् । ननु प्रथमं सङ्गः किमर्थं तदनु पश्चात्तापश्च किमर्थमित्यतो वनराजिविशेषणमाह—

आश्लिषन्त्येति ! आश्लेषं समालिङ्गनं कुर्वन्त्या । तथा च मया स्वेच्छया सङ्गो न कृतः किंतु तदिच्छया बलात्कारेण संजात इति पश्चात्तापः प्रायश्चित्ताधिकारसंपादनार्थं युक्त इति भावः । अपिशब्दात्— लङ्केश्वरो जनकजाहरणेन वाली तारापहारकृतयाऽप्यथ कीचकाख्यः । पाञ्चालिकाग्रह्णतो निधनं जगाम तच्चेतसाऽपि परदाररतिं न काङ्क्षेत् ॥ आयुः क्षितिर्विकलताऽप्युपहास्यता च निन्दाऽर्थहानिल द्युते विगतिः परत्र । स्यादेव यद्यपि रतेन पराङ्गनायाः प्राहुस्तथाऽप्यनघमित्यपि कारणेन ॥ उर्वशीसुरतचिन्तया ययौ संक्षयं किल पुरूरवा नृपः । रक्षणाय निजजीवितस्य तत्संभवेत्परवधूं न कामतः ॥ नारी चोन्नतयौवनाऽभिलषितं कान्तं न चेदाप्नुया- दुन्मादं मरणं च विन्दति तदा कंदर्पसंमोहतः । संचिन्त्येति समागतां परवधूं रत्यर्थिनीं स्वेच्छया गच्छेत्क्वापि न सर्वदा सुमतिमानित्याह वात्स्यायनः ॥ अपि द्विजश्रोत्रियमित्रभूपसंबन्धिभार्या यदि पञ्च भुक्ताः । स्युस्ताश्च दोषाय न चेत्प्रगच्छेद्धेतुं विना कामत एव नैवम् ॥ इत्युक्तेन तदिच्छाकृतसंगादोषाभावेऽप्यहं— कन्या प्रव्रजिता सती रिपुवधूर्मित्राङ्गना रोगिणी शिष्या ब्राह्मणवल्लभाऽथ पतितोन्मत्ता च संबन्धिनो । वृद्धाऽऽचार्यवधूंश्च गर्भसहिता ज्ञाता महापापिनी पिङ्गा कृष्णतमा सदा बुधजनैस्त्याज्या इमा योषितः । इत्यगम्यस्त्रीमुख्यत्वात्— मात्रा स्वस्रा दुहित्रा वा नैकशय्यासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति । इति धर्मशास्त्रस्यार्थशास्त्रतो बलवत्त्वाच्च महापातकं मन्यमानोऽधिकमनुतापीति सूचितम् । ननु तया कुतस्तवाऽऽश्लेषः कृत इत्यतो वनराजिविशेषणमाह—पुष्पवत्येति । तथा च यौवनमदभ्रामितया मां पितृत्वेनाजानन्त्या पुरुषान्तराभावान्मय्याश्लेषः कृत इति भावः । पुष्पवत्येत्यनेन रजोदर्शनसमये संजातमङ्गादधिकं पापं सूचितम् । अत्रोत्प्रेक्षया पर्वतस्यैतादृशमहापातकिन उपमा व्यज्यते । अत्र शृङ्गाररसाभासो रोदनसूचितकरुणरस- पर्यवसानान्न दोष इति ध्येयम् । यदा स्वस्य आत्मनः पर्वतरूपस्य तनुजा शरीरोत्पन्ना या लतापङ्क्तिस्तया पुष्प- वत्या आश्लिषन्त्याऽपि हृदिजखेदस्वेदवान्हृदिजो मदनस्तत्कृता ये खेदा विरहदुःखानि तैः

स्वेदः सात्त्विकभावः प्रथमधर्मोदकं तदाश्रयोभूता भूरुहः । वृक्षास्तु स्वमध्यावस्थायां स्वान्तर्गतजलं स्रवन्तीति प्रसिद्धम् । तन्मदनकृतपीडाजनितधर्मोदकोत्प्रेक्षितमिति मन्तव्यम् । अनुचितकृतसङ्गाः । अनुचितो निन्दितः कृतः संपादितः संयोगो येनासौ । लतास्तु वृक्षस्कन्धं वेष्टयन्ति । रजोदर्शनसमये स्त्रीसङ्गोऽत्यन्तं निषिद्ध इति हेतोः । अस्मीत्य- हमर्थेऽव्ययम् । उपसर्गविभक्तिस्वरप्रतिरूपकाश्चेति सूत्रात् । लताजनकः शैलः शीलसम्बन्धी शीलवान् सदाचरणशीलोऽतिश्रोत्रियः पर्वतः । अनुतप्तः सूर्यकिरणतप्तरूपतया संतापं प्राप्त इत्युत्प्रेक्षा । कन्यायास्तादृशमौद्धत्यं श्रोत्रियपितुः संतापकारकमवेतिपदस्य पुनरा- वृत्त्या । इति एवंरूपं निशि शशिकरच्छन्ननिर्झरैरूक्षकल्पै रोदितीवेत्युत्प्रेक्षा । दिने श्रोत्रियस्य स्वशिष्टत्वलज्जासंरक्षणार्थं लोकनिकटे रोदनासंभवाच्च । अस्मीत्य- त्रास्तीति पाठे इतिपदस्य नाऽऽवृत्तिरिति ध्येयम् । केचित्तु स्वतनुजवनराज्यां जीवसे संश्लिषन्त्यां वितनुजकृतसङ्गोऽस्मीति पाठं प्रकल्प्य स्वकन्यारूपायां वनराज्यां जीवने पानीये क्लीबरूपे भर्तरि संश्लिषन्त्यां सत्यामहं पर्वतो वितनुजकृतसङ्ग । विगतो तनुजः पुत्रो दौहित्रस्यापि पुत्रत्वोक्तेः । तेन कृतः सङ्गः समालिङ्गनं यस्यैतादृशो दौहित्राभाववानस्मीत्यनुतप्तोऽत एव मनसि जातो यः खेदस्तेन खेदवान् रोदितीव । को हि नाम सभर्तृकां वन्ध्यां दुहितरं द्रष्टुमीष्टे । अत्र लतायाः कुसुमसंभवेऽपि फलरूपपुत्रस्यानुत्पादाद्वन्ध्यात्वमित्यवधेयम् । लता फलभरनमिताङ्गी मां प्रति नाऽऽसतेति युक्तमाहुः । प्रसादमाधुर्यगुणौ । अनुप्रासः शब्दा- लङ्कारः । तथा च पर्वतलताप्रफुल्लनं चन्द्रज्योत्स्नाजलातिनिर्मलत्वं शरदृतुचिह्नम् ॥८॥ अथ क्रमप्राप्तं वंशस्थेन वर्णयति—सहस्यकाल इति । कृषीबलाः कर्षकाः । सहस्य- काले । हेमन्तैकदेशपौषमासग्रहणात्सं पूर्णो हेमन्तर्तुर्गृह्यते । ऋतुप्रक्रमात् । न च हिमस्य काले इति किं नोक्तमिति वाच्यम् । कृषिरक्षणार्थं गृहबाह्यस्थानां कर्षकाणां प्रावरणाल्पतया हिमर्तुनामश्रवणादतिव्याकुलतापत्तेः । न च तथाऽपि मार्गशीर्षनामग्रहणेन कथं स नोक्त इति वाच्यम् । कार्त्तिकान्तशरत्कालादग्रिममासग्रहणेन हिमर्तोरेकमासमितत्वभ्रमसंभवात् । अन्तिमपौषमासग्रहणे तु पूर्वमासस्य पूर्वमनागतत्वाद्गणना स्वतःसिद्धेति हिमर्तोर्द्विमास- त्वेनावगमाच्च । हकारलोपेन सस्यकालप्रतीत्या कर्षकाणां स्वव्यापारप्रवृत्तिसंभवाच्च । ननु मार्गशीर्षवाचकमहःशब्दसप्तम्याऽपि पदच्छेदसंभवादकाले इत्यत्रास्य विष्णोः कालो मासानां मार्गशीर्षोऽहमित्युक्तेरित्यर्थसंभवादस्य तद्विशेषणत्वाच्च कथं पौषमास- ग्रहणेऽभिनिवेश इति चेन्न । अकाले इत्यस्य व्यर्थविशेषणत्वात् । कृष्याममङ्गलाद्यंप्रतीति- कारकत्वाच्च । इमां(लां) कृषिभूमिं विलोक्य सादरं दृष्ट्वा अधिकमत्यन्तं तुष्यन्ति । अस्मिन्वर्षेऽस्माकं बहुद्रव्यलाभो भवितेति तुष्यन्तीत्यर्थः । ननु केवलतद्भूदर्शनेन द्रव्यलाभाभावात्तोषः कथं संभवत्यन्यथाऽन्यदाऽपि तदनिवा-

५१२ गोलाध्याये रणात्सस्यकाले इत्यस्य वैयर्थ्यापत्तिरत इलाविशेषणमाह - प्रहृष्टपुष्टाखिलगोकुलमिति । प्रकर्षेण हृष्टं पुष्टमभिमतभक्षणाच्छरीरारोग्यधारि । एतादृशमखिलं समग्रं गोकुलं गोबली- वर्दसमुदायो यस्याम् । अत्र कुलशब्दस्यानेकरूपसमुदायवाचकत्वादखिलशब्दस्य तत्समुदाय- वाचकत्वाद्भेद्योऽवधेयः । यद्वा - अखिलशब्दोऽदुष्टवाचकः । नतु प्रहृष्टमखिलानां कृषीवलानां गोकुलमिति । कृषीवलानामुपक्रमात्तस्य वैयर्थ्यात् । तथा च तद्विक्रयाद्द्रव्यलाभ इति भावः । ननु तत्काले प्रहृष्टपुष्टं गोकुलं कुत इत्यतो द्वितीयं विशेषणमाह - बहुसस्यमा[शा] लिनीमिति । बहुविधसस्यबाहुल्येन शोभायमानाम् । तथा च कृषिभूमावसंख्यसस्यसंभवात्त- द्भक्षणेनास्मिन्काले प्रहृष्टपुष्टं गोकुलं जातमिति भावः । अनेन धान्यादपि विक्रयेण द्रव्य- लाभादधिकं सुखं युक्तमित्यपि सूचितम् । ननु वर्षाकाले सस्यबीजरोपणादनन्तरं शरदि संजाताल्पवृद्धीनां सस्यानां हेमन्ते वर्षा- भावात्कथं संरक्षणं वृद्धिश्चा भवति । प्रत्युतातिमृदूनां सूर्यकिरणतापादग्धत्वापत्तिरतस्तृतीयं विशेषणमाह - चितामिति । अवश्ययाकमौक्तिकोत्करैः । अवश्ययास्तु नीहार इत्यभिधाना- दवश्यायो हिमं तस्य कानि जलानि सीकररूपाणि तान्येव मौक्तिकानि मुक्ताफलानि तेषा- मुत्कराः समूहास्तैरित्यर्थः । तथा च हेमन्ते हिमकणपातात्तज्जलैः सस्यानां वृद्धिः कोमल- सूर्यकिरणदाहनिवारणं च भवतीति भावः । अत्र चितामित्यमङ्गलं शरद्वर्णनविषयपापस्य देहान्तप्रायश्चित्तसूचनान्न दोषः । तादृशपापाभावे कृषिः सम्यक्सस्या भवत्यन्यथा नेति सूचनार्थमत्र तदुपा[दा]नं हठा- दिति ध्येयम् । अत्र मौक्तिकेत्यनेन कृषिभूमौ हिमजलकणा मोक्तिकानीत्युत्प्रेक्षालंकारः । अत्रानावश्यकोत्प्रेक्षया भूमौ नायिकोपमा व्यज्यत इतीदं पद्यं श्लेषार्थेन नायिकापक्षेऽपि । तथा हि- हेमन्तर्तौ कृषीवलाः कृषी वलं येषां ते कृष्युत्पन्नान्नभक्षणाद्बलं जीवनं भवतीति पुरुषा इत्यर्थः । इलाम् । इकारः शंकरः प्रोक्त इत्यभिधानात् । इं शंकरं सुखकारकपुरुषं लात्यनुगृह्णातीतीलाम् । सुखकारकपुरुषानुरागिणी तरुणीमित्यर्थः । विलोक्य सादरं स्फारस्फुट[र]न्नेत्राभ्यामावीयेत्यर्थः । अत्यन्तं तुष्यन्ति । एतां रात्रावालिङ्ग्य हिमपने- ष्यामः । अत एव- हसन्तीं वा हसन्तीं वा हसन्तीं वामलोचनाम् । हेमन्ते ये न सेवन्ते ते नरा दैववञ्चिताः ॥ इत्युक्तिरिति भावः । नन्वस्या आलिङ्गनेन हिमापगमः कथमित्यत आह - प्रहृष्टेत्यादि । प्रकर्षेण हृष्टा संतुष्टा या पुष्टा परपुष्टा । नामैकदेशे नामग्रहणात् । मिहिरस्तदेक इत्यत्र वराहमिहिरत् । अथवा प्रहृष्टेन पुष्टा संतुष्टेनैवान्यपोषणं क्रियते न दुःखितेनेति प्रहृष्टेन काकेन पुष्टा कोकिलेत्यर्थः । तस्या अखिलमदुष्टं शुभमित्यर्थः । गोकुलं वाक्समूहो

यस्याम् । तथा चैतस्या वचनानां परपुष्टवचनतुल्यतयाऽस्या दर्शनादौ कोकिलोपस्थित्या तत्समयवसन्तस्मरणेन तत्र हिमस्याभावात्तद्व्यासक्तान्तःकरणानामस्माकं हिमं न लगतीति भावः । ननु सा भवद्भिर्प्राप्येत्यत आह-बहुसस्येत्यादि । बहु सस्यं यस्य तस्मिन् पुरुषे मा[शा]लिनीं शोभायमानाम् । अत्र सस्योपलक्षणाद्धनादिकं बोध्यम् । तथा चास्माकं द्रव्येण सर्वे वशा इतीयमपि धनस्पृहया सुलभेति भावः । नन्वेवं धनस्पृहया स्वयमेव सा यास्यति किमर्थं दर्शनेन स्वानुरागप्रकटनमध्वामित्यत आह-चितामिति । अवश्यायकर्मोक्तिकोत्करैः । अवश्यो वश्य इच्छाविषयस्तद्भिन्नोऽ- निच्छाविषय इत्यर्थः । स आय एवाऽस्यको लाभोऽमूल्यमौक्तिकानीत्यर्थः । तेषामुत्करैश्चितां तदङ्गादिभूषणैः संयुक्तामित्यर्थः । तथा च साऽपि धनवती । तथास्पृहाभावा

५१४ गोलाध्याये रात्रौ । हिमोपचयाधिक्येऽपीत्यर्थः । नृणां पुरुषाणाम् । उष्मलपीनघनस्तनीभुजनिपीडनतः । उष्म० ॥ उष्णतायुक्तौ पीनौ मांसलौ पृथु घनौ निबिडौ कठिनावित्यर्थः । इभकुम्भरूपाविति फलितम् । स्तनौ वक्षोजौ यस्याः सा । तस्या युवत्या भुजाभ्यां नितरां पीडनं दृढाश्लेष- स्तेन स्वपतां निद्रादिजनितं सुप्तमिन्द्रियाणां निमीलनमित्युक्तरूपं स्वापं कुर्वताम् । हिमनाशो भवति । अनेन । मत्तेभकुम्भपरिणाहिनि कुङ्कुमाक्ते कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ इति वर्णितं ज्ञेयम् । प्रसादादिगुणाः । पूर्वार्धे यमकालंकारः । तथा च शीताधिक्यं शिशिरर्तुचिह्नं तज्ज्ञानं गृहेऽपि भवतीति भावः ॥१

: Is it: सं भ वा त्तो ऽ न्य त्र? Wait, is there an extra letter? Let's trace: प (1) र (2) म (3) ता (4) प (5) सं (6) भ (7) वा (8) त् (9) तो (10) ऽ (11) न्य (12) त्र (13) Wait! वा has a vertical bar. Then there is त्. Then तो! Wait, does it have TWO त's or ONE? वा - त् - तो - ऽ - न्य - त्र = संभवात्ततोऽन्यत्र! Wait, why did I see "संभवातत्तो"? Ah! The letter after वा is त with a horizontal bar connecting to तो? No, it's त् + तो = त्तो! Wait, look at: "वा" (v-a), then "त", then "तो"? Let's look really closely at the image: वा (vā) then a letter that looks like त then a letter that looks like तो! Wait, why does the first one have no matra and the second one has o-matra? Wait, is the first one 'त'? Yes! Is the second one 'तो'? It has an o-matra: line to the right, flag on top. Wait, is the second one 'तो' or 'त्तो'? It is 'तो

५१६ गोलाध्याये ननु कविताप्रदर्शनमेव व्यर्थं येनैतत्प्रदर्शनं युक्तं स्यादत आह—तद्विदामिति । काव्यतत्त्वज्ञानां तोषार्थमित्यर्थः । ननु काव्यज्ञानां पूर्वकाव्येनेव संतोषसद्भावात्त्वत्कृत- काव्येन तेषां तोषसंभवे मानं किमतः कविताविशेषणमाह—रसिकानामिति । काव्यरसा- भिनिविष्टानां तेषां मनोहरं कुर्वतोत्यर्थः । तथा च मनोहरवस्तुनि प्रीतिः सहजेति भावः ॥१२॥ सरसमभिलपन्ती सत्कवीनां विदग्धाऽ- नवरतरमणीया भारती कामितार्थम् । न हरति हृदयं वा कस्य सा सानुरागा नवरतरमणी या भारती कामिताऽर्थम् ॥१३॥ न भवति हृतचित्तो वाचमाकर्ण्य रम्यां परभृतसरसां ना कोऽमलां सत्कवीनाम् । सततमुपगतानां साम्बुजैर्वा पयोभिः परभृतसरसां नाकोमलां सत्कवीनाम् ॥१४॥ त्रिदिवमधरयन्तस्तीरपङ्केन नाना- रुचिरसकतया वाऽऽश्लेषिताङ्गैः सुवृत्तैः । कृतिन इह रमन्ते रम्यसारस्वतौघे रुचिरसिकतया वा इलेषिताङ्गैः सुवृत्तैः ॥१५॥ वा० भा०—कः ना नरः सत्कवीनां वाचमाकर्ण्य हृतचित्तो न भवति । किंविशिष्टाम् । अमलां निर्दूषणाम् । पुनः कथंभूताम् । सततं रम्याम् । किंवि- शिष्टाम् । परभृतसरसाम् । परभृतस्य कोकिलस्येव सरसां रसवतीम् । अथ द्वितीयोऽर्थः । के उदके वयः पक्षिणः सन्तश्च ते कवयश्च सत्कवयो हंसाद्या जल- पक्षिणः । तेषां वाचं सततं रम्यामाकर्ण्य कः ना हृतचित्तो न भवति । किंवि- शिष्टाम् । न अकोमलाम् । कोमलाम् । कथंभूतानां तेषाम् । उपगतानां तीर- विलासिनामित्यर्थः । केषाम् । परभृतसरसाम् । पराणि च तानि भृतानि पूर्णानि सरांसि । तेषां परभृतसरसाम् । कैः पयोभिः । कथंभूतैः । साम्बुजैः । अथवा । उपगतानां नगरनिकटवर्तिनां सरसां सत्कसंबन्धिनो वयः सत्कवयस्तेषाम् ।

अथ किमेवंविधयाऽत्र ग्रन्थे प्राकृतिकानां गणकानामित्याशङ्क्योच्यते । नहि मन्दार्थमेव ग्रन्थ आरभ्यत इत्याह । इह कवीनां द्वे गती । इयमियं वा । एतत्प- रोऽयं श्लोकः । रमन्ते । के । कृतिनो विद्वांसः । क्व । रम्यसारस्वतीघे । सरस्वती- नदीप्रवाहे । सरस्वत्याः सर्वगतत्वादगङ्गाद्या अपि सरस्वत्य उच्यन्ते । अत्र किंविरिशष्टा उपलक्षिताः । कैः सुवृत्तैः रम्याचारैः । पुनः कैः । आश्लेषिताङ्गैः । अवलिप्ताङ्गैः । केन । नदीतीरपङ्केन । न केवलं तेन । नानारुचिरसिकतया वा । किं कुर्वन्तः । तथा रमन्ते । अधरयन्तः । अधरीकुर्वन्तः । किम् । त्रिदिवम् । अस्मादप्युपरितनं स्थानं वाञ्छन्तः । अथ द्वितीयोऽर्थः । नानारुच्या रसिकत्वं रसिकता तयोह रम्यसारस्वतौघे वाक्यसमूहे चतुरवचननिचये कृतिनो रमन्ते । कैः कृत्वा । सुवृत्तैः श्लक्ष्णैः श्लोकैः । मालिनीप्रभृतिभिः । किंविरिशष्टैः । श्लेषिताङ्गैः । श्लेषोक्तियुक्तचरणैः । पादवृत्तिप्रभृतिभिः । किं कुर्वन्तः । त्रिदिवमधरयन्तः । त्रिदिवसुखादपि काव्यरतिसुखमधिकं मत्वेत्यर्थः । शेषं स्पष्टम् ॥१३॥१४॥१५॥ इति श्रीभास्करोये सिद्धान्तशिरोमणिवासनाभाष्ये गोलाध्याये मिताक्षरे ऋतुवर्णनं मरीचिः—ननु कथिताया मनोहरत्वं कथमित्यतो मालिन्याऽऽह—सरसमभिलपन्तीति । सत्कवीनां लक्षणलक्षितकाव्यनिर्मापिकानां भारती काव्यसंबन्धिनी वाणी का कतमा कस्य कतमस्य हृदयं मनः कामितार्थं सादरश्रवणनिमित्तं न हरति । काव्यवर्णनकारास्तेषां सर्वा अपि वाण्यः सर्वेषां मनो हरन्तीत्यर्थः । ननु कुतो हरतीत्यत आह—अनवरतरमणी- येति । नित्यं सुन्दरीत्यर्थः । तथा च मनोहरत्वं सुन्दरवस्तुनः स्वतः सिद्धमिति भावः । नन्वनवरतरमणीयैव कुत इत्यत आह—विदग्धेति । चतुरा । तथा च चतुरायास्तथात्वं साहजिकमिति भावः । ननु चतुरात्वमपि कुत इत्यत आह—अमितार्थं लपन्तीति । अमितार्थम् । वाच्य- लक्ष्यव्यङ्ग्यभेदेन । लक्षणाया अगूढव्यङ्ग्यगूढव्यङ्ग्यभेदात्सव्यङ्ग्याया अपि शुद्धागौण्योर्भ्यां भेदाच्छुद्धायाश्चजहत्स्वार्थाजहत्स्वार्थासारोपासाध्यवसानेति चतुर्भेदाद्गौण्याश्च सारोपा- साध्यवसानाभ्यां भेदाच्च सप्त भेदाः । ध्वनेरप्यविवक्षितवाच्यविवक्षितान्यपरवाच्यरूप- लक्षणाूलाभिधामूलाभ्यां द्वौ भेदौ लक्षणाूलोऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृत- वाच्याभ्यां द्विधा । अभिधामूलोऽप्यसंलक्ष्यक्रमव्यङ्ग्यलक्ष्यक्रमव्यङ्ग्यचक्रमाभ्यां द्विधेति चत्वारो भेदाः । एवमसंलक्ष्यक्रमो रसभावादिभेदेन संलक्ष्यक्रमोऽप्यलंकारवस्तुभेदेनानन्तः । एवं लक्षणोदाहरणानि काव्यप्रकाशे । विस्तरभीत्याऽत्र नोक्तानि । एवमसंख्यमर्थमित्यर्थः । अभिलपन्तीव सर्वतः प्रतिपदं वदन्तीत्यर्थः । तथा च चतुरात्वं सिद्धमिति भावः ।

५१८ गोलाध्याये नन्वमितार्थलपनेऽपि चमत्काराभावान्न चतुरात्वमित्यतोऽर्थविशेषणमाह—सरसमिति । वासनाविशेषवतां सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको भावः पौनःपुन्येन रत्यादिभिः समं गृहीतकार्यकारणभावसंबन्धैर्विभावादिभिः परिहृतविशेषैः संबन्धविशेष- स्वीकारपरिहारनियमावसायादसाधारन्येन प्रतीर्त नियतप्रमातृगतत्वेन स्थितोऽपि साधारणो- पायबलात्साधारण्यमुपगच्छन्विद्वात्मना सहाभिव्यक्तस्तत्कालोल्लसच्चर्यमाणानेकप्राणो विभा- वादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्र्फुरन्हृदयमिव प्रविशन्सर्वा- ङ्गीणमिवालिङ्गन्नन्यत्सर्वमेव तिरोदधद्ब्रह्मानन्दसहोदरोऽलौकिकचमत्कारकारी शृङ्गारा- दिको रस इति काव्यप्रकाशनिरुक्तः । तेन सहितमित्यर्थः । तथा च सरसार्थलपने चमत्कारः स्वतः सिद्धोऽत एव— रसोऽभिमानोऽहंकारः शृङ्गार इति गीयते । योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥ इत्युक्तमिति भावः । ननु रसिकानां बिना कान्तामन्यन्मनोहरं न भवतीत्यतः संशयालंकारद्योतकं पक्षान्तर- माह–वेति । अथवा सा कान्ता भारती भरतसंबन्धिनी नर्तकस्त्री कामितार्थं सुरतोत्सव- निमित्तं कस्य हृदयं न हरत्यपि तु सर्वपुरुषाणां मनो हरति । ननु तेषां तदभिलाषे मनोहरं संभवत्यतस्तस्यां तदनभिलाषे मनोहरं कथं संभवतीत्यत आह–सानुरागेति । लज्जां न धत्तेऽभिमुखं च पश्येत्पादेन भूमिं विलिखेत्स्थिता च । व्यनक्ति गात्रं कुरुते च हास्यं दृष्ट्वा कटाक्षं नयने विदध्यात् ॥ पृष्टा स्फुटं सस्मितमेव वाक्यं शनैर्व्रजेच्चानुसरेद्व्रजन्तम् । विलोक्य तं व्याजकथाप्रसङ्गादुच्चैर्वदेत्स्वं परिदर्शयन्ती ॥ तन्मित्रवर्गे प्रणयं विदध्यादित्यादिवातार्मसकृच्च पृच्छेत् । कति स्त्रियोऽस्याऽऽलयगाः सुरूपाः कस्यामयं प्रेम भृशं विधत्ते ॥ मृद्गा(दना)ति दृष्ट्वा स्वकुचं करेण संस्फोटयेदङ्गुलिकाः सुजृम्भम् । भूषाविहीना न ददाति तस्मै स्वदर्शनं याचितमप्यजस्रम् ॥ पुष्पादिना हन्ति तथाऽतितारं संकाशयेन्मार्ष्टि भुजं करेण । व्याजेन गच्छेत्सदनं कराङ्घ्रिवक्त्रेषु घर्माम्बु वहद्विलोक्य ॥ इत्यादिचिह्नैरनुरागयुक्ता ज्ञेया विदग्धा मृगशावकाक्षी । इत्युक्तानुरागयुक्तेत्यर्थः । तथा च— आभङ्गुराग्रबहुगुणदीर्घा स्वादप्रदा प्रियादृष्टिः ॥ कर्षति मनो मदीयं हृदमीतं बडिशरज्जुरिव । क्लेशयसि किमिति दूति यदशक्यं सुमुखि तव कटाक्षेण ॥

ऋतुवर्णनाध्यायः ५१९

कामोऽपि तत्र सायकमकीर्तिशङ्की न संधत्ते । इति कटाक्षमात्रेणैव तद्वश्यत्वसंभवात्तदनुरागेण च सुतरां पुरुषाणां मनोहरं भवतीति भावः । ननु विवृद्धानुरागादपि पुरुषाणां तस्यां नानुराग इत्यत आह—नवरतरमणीयेति । नवरतेन प्रथमसंजातसुरतोत्सवेन रम्येत्यर्थः । नवरतार्थं योग्या वा । तथा च यौवनार- म्भादस्यां पुरुषानुरागः स्वत एव तदनुरागाच्च सुतरामिति भावः । अथ रसिकानां द्वे अपि भारती(त्यौ) मनोहरे इत्युक्त्या द्वयोर्भारत्योः संशयालंका- रात्सा दृश्यप्रतीतेस्तयोः स्वसंबन्धिविशेषणानि परस्परं विशेषणतया व्याख्यायन्ते । वाणी । सानुरागा । त्वमग्रतः संचर चञ्चलाक्षि त्वमेव जीवेश्वर निःसराग्रे । इति ब्रुवन्वेश्मनि वह्निदीप्ते मिथोऽनुरागान्मिथुनं विपन्नम् ।। इत्याद्यनुरागवर्णनयुक्त्या अनुरागे दग्धत्वमप्यनुचितं नेति सूचकं विदग्धपदमत्रा- मङ्गलमप्यदुष्टमिति ध्येयम् । नवरतरमणीया । उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा । धृत्वा चान्येन वासो विलुलितकबरीभारमंसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः । शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु । इत्यादिनूतनसुरतवर्णनेन रम्येत्यर्थः । नर्तकस्त्री । विदग्धा नवरतरमणीया । रसि- कानां नित्यं सुन्दरी । अविदग्धस्य तु । क्रीडासु सब्रीडमहो विलासान्नीवीनिरोधे निहितं मृगाक्ष्याः । कराम्बुजं वीक्ष्य पतिः सरोषाद्ददौ ललाटे सुदृशश्चपेटाम् ।। इति रसभङ्गकृत्त्वात् । अत्र हेतुगर्भविशेषणं—सरसममितार्थं लपन्तीति । तथा च काव्यं कान्तातुल्यतया रसिकानां मनोहरम् । रतरीतिवीतवसना प्रियेव शुद्धैव वाङ्मुदे सरसा । अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ इत्युक्तेश्चेति भावः । अत्र प्रसादमाधुर्यादिगुणाः । शृङ्गारो रसः । पादयमकालंकारः ॥१३॥ ननु कविसरस्वत्या अपकृष्टनर्तकस्त्रीसाम्यं वह्निस्फुलिङ्ग इव भानुरयं चकास्तीतिबद- युक्तमित्यस्वरसात्प्रकारान्तरेण कविवाण्या मनोहरत्वं मालिन्या प्रतिपादयति—न भवतीति । सत्कवीनां वाचं काव्यसंबन्धिनीमाकर्ण्य सादरं श्रुत्वा सततं नित्यं कः कतमो ना पुरुष- स्तत्त्वज्ञो हृतचित्तो हृतं चित्तं यस्यैतादृशो न भवतीति काक्वा तत्सक्तान्तःकरणा व्यापारा- न्तरशून्याः सर्वेऽपि भवन्तीत्यर्थः । कुत इत्यत आह—रम्यामिति । श्रवणद्वाराऽऽत्मनः सुखहेतुभूताम् । यद्वाऽलंकारैर्भूषितया रम्यामतो मनोहरामिति भावः ।