सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 615, कुल 723 में से
संदर्भ में पढ़ेंयस्याम् । तथा चैतस्या वचनानां परपुष्टवचनतुल्यतयाऽस्या दर्शनादौ कोकिलोपस्थित्या तत्समयवसन्तस्मरणेन तत्र हिमस्याभावात्तद्व्यासक्तान्तःकरणानामस्माकं हिमं न लगतीति भावः । ननु सा भवद्भिर्प्राप्येत्यत आह-बहुसस्येत्यादि । बहु सस्यं यस्य तस्मिन् पुरुषे मा[शा]लिनीं शोभायमानाम् । अत्र सस्योपलक्षणाद्धनादिकं बोध्यम् । तथा चास्माकं द्रव्येण सर्वे वशा इतीयमपि धनस्पृहया सुलभेति भावः । नन्वेवं धनस्पृहया स्वयमेव सा यास्यति किमर्थं दर्शनेन स्वानुरागप्रकटनमध्वामित्यत आह-चितामिति । अवश्यायकर्मोक्तिकोत्करैः । अवश्यो वश्य इच्छाविषयस्तद्भिन्नोऽ- निच्छाविषय इत्यर्थः । स आय एवाऽस्यको लाभोऽमूल्यमौक्तिकानीत्यर्थः । तेषामुत्करैश्चितां तदङ्गादिभूषणैः संयुक्तामित्यर्थः । तथा च साऽपि धनवती । तथास्पृहाभावा