सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 614, कुल 723 में से
संदर्भ में पढ़ें५१२ गोलाध्याये रणात्सस्यकाले इत्यस्य वैयर्थ्यापत्तिरत इलाविशेषणमाह - प्रहृष्टपुष्टाखिलगोकुलमिति । प्रकर्षेण हृष्टं पुष्टमभिमतभक्षणाच्छरीरारोग्यधारि । एतादृशमखिलं समग्रं गोकुलं गोबली- वर्दसमुदायो यस्याम् । अत्र कुलशब्दस्यानेकरूपसमुदायवाचकत्वादखिलशब्दस्य तत्समुदाय- वाचकत्वाद्भेद्योऽवधेयः । यद्वा - अखिलशब्दोऽदुष्टवाचकः । नतु प्रहृष्टमखिलानां कृषीवलानां गोकुलमिति । कृषीवलानामुपक्रमात्तस्य वैयर्थ्यात् । तथा च तद्विक्रयाद्द्रव्यलाभ इति भावः । ननु तत्काले प्रहृष्टपुष्टं गोकुलं कुत इत्यतो द्वितीयं विशेषणमाह - बहुसस्यमा[शा] लिनीमिति । बहुविधसस्यबाहुल्येन शोभायमानाम् । तथा च कृषिभूमावसंख्यसस्यसंभवात्त- द्भक्षणेनास्मिन्काले प्रहृष्टपुष्टं गोकुलं जातमिति भावः । अनेन धान्यादपि विक्रयेण द्रव्य- लाभादधिकं सुखं युक्तमित्यपि सूचितम् । ननु वर्षाकाले सस्यबीजरोपणादनन्तरं शरदि संजाताल्पवृद्धीनां सस्यानां हेमन्ते वर्षा- भावात्कथं संरक्षणं वृद्धिश्चा भवति । प्रत्युतातिमृदूनां सूर्यकिरणतापादग्धत्वापत्तिरतस्तृतीयं विशेषणमाह - चितामिति । अवश्ययाकमौक्तिकोत्करैः । अवश्ययास्तु नीहार इत्यभिधाना- दवश्यायो हिमं तस्य कानि जलानि सीकररूपाणि तान्येव मौक्तिकानि मुक्ताफलानि तेषा- मुत्कराः समूहास्तैरित्यर्थः । तथा च हेमन्ते हिमकणपातात्तज्जलैः सस्यानां वृद्धिः कोमल- सूर्यकिरणदाहनिवारणं च भवतीति भावः । अत्र चितामित्यमङ्गलं शरद्वर्णनविषयपापस्य देहान्तप्रायश्चित्तसूचनान्न दोषः । तादृशपापाभावे कृषिः सम्यक्सस्या भवत्यन्यथा नेति सूचनार्थमत्र तदुपा[दा]नं हठा- दिति ध्येयम् । अत्र मौक्तिकेत्यनेन कृषिभूमौ हिमजलकणा मोक्तिकानीत्युत्प्रेक्षालंकारः । अत्रानावश्यकोत्प्रेक्षया भूमौ नायिकोपमा व्यज्यत इतीदं पद्यं श्लेषार्थेन नायिकापक्षेऽपि । तथा हि- हेमन्तर्तौ कृषीवलाः कृषी वलं येषां ते कृष्युत्पन्नान्नभक्षणाद्बलं जीवनं भवतीति पुरुषा इत्यर्थः । इलाम् । इकारः शंकरः प्रोक्त इत्यभिधानात् । इं शंकरं सुखकारकपुरुषं लात्यनुगृह्णातीतीलाम् । सुखकारकपुरुषानुरागिणी तरुणीमित्यर्थः । विलोक्य सादरं स्फारस्फुट[र]न्नेत्राभ्यामावीयेत्यर्थः । अत्यन्तं तुष्यन्ति । एतां रात्रावालिङ्ग्य हिमपने- ष्यामः । अत एव- हसन्तीं वा हसन्तीं वा हसन्तीं वामलोचनाम् । हेमन्ते ये न सेवन्ते ते नरा दैववञ्चिताः ॥ इत्युक्तिरिति भावः । नन्वस्या आलिङ्गनेन हिमापगमः कथमित्यत आह - प्रहृष्टेत्यादि । प्रकर्षेण हृष्टा संतुष्टा या पुष्टा परपुष्टा । नामैकदेशे नामग्रहणात् । मिहिरस्तदेक इत्यत्र वराहमिहिरत् । अथवा प्रहृष्टेन पुष्टा संतुष्टेनैवान्यपोषणं क्रियते न दुःखितेनेति प्रहृष्टेन काकेन पुष्टा कोकिलेत्यर्थः । तस्या अखिलमदुष्टं शुभमित्यर्थः । गोकुलं वाक्समूहो