सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)
Siddhanta Shiromani Goladhyaya with Marichi Commentary
भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा
पृष्ठ 603, कुल 723 में से
संदर्भ में पढ़ेंऋतुवर्णनाध्यायः ५०१ ये चूता आम्रवृक्षास्त एव केतवो ध्वजाश्चिह्नानि यस्तैस्तादृशवनायेत्यर्थः । यद्वा कामस्य मदनस्य उच्छ्रितचूता एव केतवो यत्र मदनोद्दीपनं वनमित्यर्थः । तथा चोपवने घनतराच्छा- दितरुभिः सूर्यकराणां वारणात्तत्सरोवरजलं सदा शीतलं वनस्य मदनोद्दीपनत्वादनङ्ग- विहारोऽधिकं तत्र संभाव्यते चेति भावः । विलासिनो रमण्यश्च रत्युत्सवे ह्यानन्दनिमग्नतयाऽऽत्मानं विस्मृत्योन्मत्ततयाऽश्लीलं प्रलपन्तीति सूचनात्कामोच्छ्रितचूतकेतवे इत्यश्लीलं न दोषः । एवं सुरते तरुणवेगमसह- माना तरुणी तदानन्दान्त्यन्ताविर्भावेनोपेक्षितनिवारणं तरुणं प्रति जलेड्यमङ्गलमश्लीलं प्रलपति तदा भर्तुर्दासाद्यमत्वेनाभ्युपगमादिति सूचनाज्जलेड्यश्लीलममङ्गलं न दोषः । अत्र संभोगः शृङ्